Home » 2015 » March » 05

Daily Archives: March 5, 2015

भवभयम् nNs

Today we will look at the form भवभयम् nNs from श्रीमद्भागवतम् 10.87.32.

नृषु तव मायया भ्रमममीष्ववगत्य भृशं त्वयि सुधियोऽभवे दधति भावमनुप्रभवम् । कथमनुवर्ततां भवभयं तव यद्भ्रुकुटिः सृजति मुहुस्त्रिणेमिरभवच्छरणेषु भयम् ।। १०-८७-३२ ।।
विजितहृषीकवायुभिरदान्तमनस्तुरगं य इह यतन्ति यन्तुमतिलोलमुपायखिदः। व्यसनशतान्विताः समवहाय गुरोश्चरणं वणिज इवाज सन्त्यकृतकर्णधरा जलधौ ।। १०-८७-३३ ।।

श्रीधर-स्वामि-टीका
नन्वेवं तावत्परमेश्वराज्जीवा जायन्ते तद्वशेन च कर्माणि कुर्वन्ति पुनस्तत्र लीयन्त इति संसारचक्रे परिभ्रमणमुक्तमिदानीं तन्निवृत्तये ‘परीत्य भूतानि परीत्य लोकान् परीत्य सर्वाः प्रदिशो दिशश्च । उपस्थाय प्रथमजामृतस्यात्मनात्मानमभिसंविवेश’ इत्याद्या भगवदनुवृत्तिं विदधतीत्याह – नृषु तव माययेति । नृषु जीवेष्वमीषु तव मायया भ्रममुक्तलक्षणमवगत्य ज्ञात्वा सुधियो भृशं त्वय्यभवे भवनिवर्तके भावं स्वभावमनुवृत्तिं दधति कुर्वन्ति । कीदृशं भ्रमम्अनुप्रभवं अन्वनु प्रभवो यस्मिंस्तं भ्रमम् । ततः किमत आह – कथमिति । अनुवर्ततामनुवर्तमानानां त्वामेव शरणं भजतां भवभयं संसारभयं कथं भवेत् । न कथंचिदपीत्यर्थः । कुतः । यद्यस्मात्तव भ्रुकुटिर्भ्रूभङ्गरूपस्त्रिणेमिस्तिस्रो नेमय इवावच्छेदाः शीतोष्णवर्षाकाला यस्य संवत्सरात्मकस्य कालस्य सः । अभवच्छरणेषु न भवान् शरणं रक्षिता येषां तेष्वेव भयं जन्ममरणादिलक्षणं सृजति करोति, अत एवंभूतं संसारमाकलय्य तन्निवृत्तये सुधियस्त्वयि भावं दधतीति ।। संसारचक्रक्रकचैर्विदीर्णमुदीर्णनानाभवतापतप्तम् ।। कथंचिदापन्नमिह प्रपन्नं त्वमुद्धर श्रीनृहरे नृलोकम् ।। ३२ ।। स च भगवति भावो मनोनियमे सति भवति, सोऽपि गुरूपसदनादिति गुरूपसदनं विदधति ‘तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्’, ‘आचार्यवान्पुरुषो वेद’, ‘नैषा तर्केण मतिरापनेया प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठे’त्याद्याः श्रुतय इत्याह – विजितहृषीकवायुभिरिति । विजितानि हृषीकाणीन्द्रियाणि वायुश्च प्राणो यैस्तैरप्यदान्तमनस्तुरगमदान्तमदमितं मन एव तुरगो दुर्दमत्वसाम्यात्तं ये यन्तुं नियन्तुं यतन्ति प्रयतन्ते । अतिलोलमतिचञ्चलम् । गुरोश्चरणं समवहायानाश्रित्य ते उपायेषु खिद्यन्ते क्लिश्यन्तीत्युपायखिदः सन्तो व्यसनशतान्विता बहुव्यसनाकुला इह संसारसमुद्रे सन्ति तिष्ठन्ति । दुःखमेव प्राप्नुवन्तीत्यर्थः । हे अज, अकृतकर्णधरा अस्वीकृतनाविका वणिजो यथा तद्वत् । उक्तं च – ‘नृदेहमाद्यं सुलभं सुदुर्लभं प्लवं सुकल्पं गुरुकर्णधारम् ।। मयानुकूलेन नभस्वतेरितं पुमान्भवाब्धिं न तरेत्स आत्महा’ ।। इति । ‘प्राकृतैः संस्कृतैश्चैव गद्यपद्याक्षरैस्तथा ।। देशभाषादिभिः शिष्यं बोधयेत्स गुरुः स्मृतः ।।’ गुरुणोपदर्शितभगवद्भजनसुखानुभूतौ तु स्वत एव मनो निश्चलं भवति नान्यथेति भावः ।। यदा परानन्दगुरो भवत्पदे पदं मनो मे भगवँल्लभेत ।। तदा निरस्ताखिलसाधनश्रमः श्रयेय सौख्यं भवतः कृपातः ।। ३३ ।।

Gita Press translation – Perceiving the misapprehension (in the shape of self-identification with the body etc.), implanted by Māyā (Your deluding potency), in these human beings, men of sound judgement develop intense devotion – that grows every moment to You, who are capable of putting a stop to their transmigration. How can the fear of birth (even) haunt those that worship You, since Your frown in the shape of (the wheel of) Time (as represented by a twelvemonth) with its threefold rim (as consisting of the three parts of the year, viz., winter, summer and the rainy season) inspires terror (again and again) into (the mind of) those (alone) who do not resort to You as their asylum (32). They who endeavor to break the most restless steed of their mind – unsubdued (even) by those who have controlled their senses and breath (too) – neglecting the feet of their preceptor, and taking (great) pains over other devices (for mind control), remain beset with a hundred and one calamities in this world like merchants that have not secured a pilot (for their vessel) in the sea, O birth-less Lord! (33)

Verse 33 has appeared in the following post on Jan 14th 2011 – http://avg-sanskrit.org/2011/01/14/वणिजः-mnp/

लौकिक-विग्रह: –
(1) भवभयम् = भवाद् भयम् – fear of (from) birth.
Note: As per the सूत्रम् 2-3-28 अपादाने पञ्चमी a fifth case affix is used following the प्रातिपदिकम् ‘भव’ which has the designation अपादानम् here as per the सूत्रम् 1-4-25 भीत्रार्थानां भयहेतुः।

अलौकिक-विग्रह: –
(2) भव ङसिँ + भय सुँ । By 2-1-37 पञ्चमी भयेन – A पदम् ending in a fifth case affix optionally compounds with a (syntactically related) पदम् (formed by adding a सुँप् affix to) ‘भय’ and the resulting compound gets the designation तत्पुरुष:।

(3) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘भव ङसिँ’ gets the designation उपसर्जनम् because in the सूत्रम् 2-1-37 (which prescribes the compounding) the term पञ्चमी ends in the nominative case. Hence ‘भव ङसिँ’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘भव ङसिँ + भय सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) भव + भय । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= भवभय ।

Note: As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘ भवभय’ is neuter since the latter member ‘भय’ of the compound is neuter. The compound declines like वन-शब्द:।

The विवक्षा is प्रथमा-एकवचनम्।

(5) भवभय + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

(6) भवभय + अम् । By 7-1-24 अतोऽम् – The affixes ‘सुँ’ and ‘अम्’ that follow a neuter अङ्गम् ending in the short vowel ‘अ’ take ‘अम्’ as their replacement.
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of the affix ‘अम्’ from getting इत्-सञ्ज्ञा।

(7) भवभयम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Commenting on the सूत्रम् 2-1-37 पञ्चमी भयेन (used in step 2) the तत्त्वबोधिनी says – भयेनेति स्वरूपग्रहणं नार्थस्य, प्रमाणाभावात्, ‘भयभीत-‘ इति वार्तिकारम्भाच्च। तेन वृकात्त्रास इत्यादौ समासो न। Please explain.

2. What is the alternate form for अवगत्य?

3. Why is the form अनुवर्तताम् used in the verses a आर्ष-प्रयोग: (irregular grammatical usage)?

4. Where has the सूत्रम् 6-1-86 षत्वतुकोरसिद्धः been used in the commentary?

5. Which सूत्रम् prescribes the substitution ‘अय्’ in the form आकलय्य used in the commentary?

6. How would you say this in Sanskrit?
“Everyone is afraid of death.” Paraphrase to “Everyone has fear of (from) death.”

Easy questions:

1. Where has the सूत्रम् 6-4-112 श्नाभ्यस्तयोरातः been used in the verses?

2. Can you spot the affix ‘श’ in the verses?

Recent Posts

March 2015
M T W T F S S
« Feb   Apr »
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics