Table of Contents

<<1-1-56 —- 1-1-58>>

1-1-57 अचः परस्मिन् पूर्वविधौ

प्रथमावृत्तिः

TBD.

काशिका

पूर्वणानल्विधौ स्थानिवद्भाव उक्तः। अल्विध्यर्थमिदमारभ्यते। आदेशः स्थानिवतिति वर्तते। अचः इति स्थानिनिर्देशः। परस्मिनिति निमित्तसप्तमी। पूर्वविधौ इति विषयसप्तमी। अजादेशः परनिमित्तकः पूर्वविदौ कर्तव्ये स्थानिवद् भवति। पटयति। अवधीत्। बहुखट्वकः। पटुमाचष्टे इति णिचिटिलोपे कृते तस्य स्थानिवद्भावातत उपधायाः 7-2-116 इति वृद्धिर् न भवति। अवधीत् अतो लोपस्य स्थानिवद्भावदतो हलादेर् लघोः 7-2-7 इति हलन्तलक्षणा वृद्धिर् न भवति। बहुखट्वकः इति आपो ऽन्यतरस्याम् 7-4-15 इति ह्रस्वस्य स्थानिवद्भावाद् ह्रस्वान्ते ऽन्त्यात् पूर्वम् 6-2-174 इति स्वरो न भवति। अचः इति किम्? प्रश्नः। आक्राष्टाम्। आगत्य। प्रश्नः इति प्रच्छेः नङ्प्रत्यये च्च्ःवोः शूडनुनासिके च 6-4-19 इति छकारस्य शकारः परनिमित्तकस् तुकि कर्तव्ये न स्थानिवद् भवति। आक्राष्टाम् इति झलो झलि 8-2-26 इति सिचो लोपः परनिमित्तकः कृषेः षकारस्य षढोः कः सि 8-2-41 इति ककारे कर्तव्ये न स्थानिवद् भवति। आगत्य इति वा ल्यपि 6-4-38 इत्यनुनासिकलोपः परनिमित्तकः तुकि कर्तव्ये न स्थानिवद् भवति। परस्मिनिति किम्? युवजानिः वधूटीजानिः। वैयाघ्रपद्यः। आदीध्ये। युवजानिः इति जायायाः निङ् 5-4-134 न परनिमित्तकः, तेन यलोपे न स्थानिवद् भवति। वैयाघ्रपद्यः इति न परनिमित्तकः पादस्य अन्तलोपः पद्भावं न प्रतिबध्नाति। आदीध्ये इति दीधीङ उत्तमपुरुषैकवचने टेरेत्वस्यापरनिमित्तकत्वाद् यीवर्णयोर् दीधीवेव्योः 7-4-53 इति लोपो न भवति। पूर्वविधौ इति किम्? हे गौः। बाभ्रवीयाः। नैधेयः। हे गौः इति वृद्धिरजादेशः सम्बुद्धिलोपे कर्तव्ये न स्थानिवद् भवति। बाभ्रवीयाः इति बाब्रव्यस्य अमी च्छात्राः इति वृद्धाच् छः 4-2-114 इति छः। हलस् तद्धितस्य 6-4-150 इति यकारलोपे कर्तव्ये अवादेशो न स्थानिवद् भवति। नैधेयः आतो लोप इटि च 6-4-64 इत्याकारलोपः, इतश्च अनिञः 4-1-122 इति द्व्यज्लक्षणे प्रत्ययविधौ न स्थानिवद् भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

699 अल्विध्यर्थमिदम्. परनिमित्तोऽजादेशः स्थानिवत् स्यात्स्थानि भूतादचः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये. इति स्थानिवत्वान्नोपधावृद्धिः. कथयति. अग्लोपित्वाद्दीर्घसन्वद्भावौ न. अचकथत्.. गण संख्याने.. 3.. गणयति..

बालमनोरमा

52 ननु सुध् य् इत्यत्र मास्तु स्थानिवदिति सूत्रेण स्थानिवद्भावः। तद्गुत्तरसूत्रेण तु स्थानिवत्त्वं स्यादेवेति शङ्कामुद्भावयिष्यंस्तथाविधमुत्तरसूत्रमाह-अचः परस्मिन्। स्थानिवत्सूत्रेणैव सिद्धे किमर्थमिदं सूत्रमित्यत आह-अल्विध्यर्थमिति। अलाश्रयविधावपि स्थानिवद्भावार्थमित्यर्थः। तेन वव्रश्चेति सिध्यति। `ओ व्रश्चू च्छेदने'। लिटि तिपि णलि द्वित्वम्। `लिठ\उfffद्भ्यासस्ये'ति अभ्यचासे रेफस्य सम्प्रसारणम्। ऋकारः। पूर्वरूपम्। उरदत्वम्। रपरत्वम्। हलादिश्शेषः। तत्राभ्यासे वकारस्य पुनः सम्प्रसारणं न, ञकारस्थानिकस्य उरदत्वस्य स्थानिवद्भावेन सम्प्रसारणतया `न सम्प्रसारणे सम्प्रसारणम्' इति निषेधात्। पूर्वसूत्रेण त्वत्र स्थानिवद्भावो न सम्भवति–सम्प्रसारणनिषेधस्य स्थान्यलाश्रयत्वादिति भावः। पूर्वसूत्रादिह स्थानिवदादेश इत्यनुवर्तते। अच इत्येतदादेश इत्यनेनान्वेति-अच आदेश इति। परहस्मिन्निति सति सप्तमी। ततश्च परनिमित्तक इति लभ्यते। तच्चादेशविशेषणम्। तदाह– परनिमित्तोऽजादेशैति। विधीयत इति बिधिः=कार्यम्। पूर्वस्य विधिः पूर्वविधिः। पूर्वत्वं च यद्यपि सावधिकम्, त्रयं चात्र संनिहितं-स्थानी आदेशः परनिमित्तं चेति। तत्र स्थानी तावन्नावधिर्भवितुमर्हति, तस्यादेशेनापहारात्। नाप्यादेशः, नापि परनिमित्तम्, वैयाकरण इत्यत्र इकारस्थानिकयणादेशात्तत्परनिमित्तादाकाराच्च पूर्वस्य न य्वाभ्यामित्यैकारस्य आयटादेशे कर्तव्ये यणादेशस्य स्थानिवद्भावेनाऽच्त्वापत्तेः। तथापि स्थान्यपेक्षयैवाऽत्र पूर्वत्वं विवक्षितं, स्थानिन आदेशे नापह्मतत्वेऽपि भूतपूर्वगत्या तत्पूर्वत्वस्य सम्भवात्। तदेतदाह– स्थानिभूतादचः पूर्वत्वेनेत्यादि। अत्र स्थानिनि सति यद्भवति तदादेशे।ञपि भवति, यन्न भवति तदादेसेऽपि न भवतीत्येवमशास्त्रीयस्यापि कार्याऽभावस्य अतिदेशो भवति। तत्राद्ये वव्रश्चेत्युदाह्मतमेव, तत्र `न सम्प्रसारणे सम्प्रसारण'मिति निषेधकार्यस्य शास्त्रीयत्वात्। द्वितीये तु गणयतीत्युदाहरणम्। गण संख्यान इति चुरादौ अदन्तधातुः। तस्माण्णिच्। अतो लोपः। तिप् शप् णेर्गुणः, अयादेशः। गणयतीति रूपम्। अत्र णिचि परत उपधाभूतस्य गकारादकारस्य `अत उपधायाः' इति न भवति, प्रकृतसूत्रेणाऽल्लोपस्य स्थानिवद्भावात्। अकारे स्थानिनि सति गकारादकारस्य उपधात्वभङ्गादुपधावृद्धिर्न प्रवृत्तिमर्हति। वृद्ध्यभावस्याशास्त्रीयत्वेऽपि अल्लोपे अतिदेशात्। न चात्र गकारादकारस्य उपधात्वभङ्गादुपधावृद्धिर्न प्रवृत्तिमर्हति। वृद्ध्य भावस्याशास्त्रीयत्वेऽपि अल्लोपे अतिदेशात्। न चात्र गकारादकारस्य स्थान्यकारान्न पूर्वत्वम्, णकारेण व्यवधानादिति वाच्यम्, पूर्वत्वं ह्रत्र व्यवहिताऽव्यवहितसाधारणम्, उत्तरसूत्रे स्वरे निषेधाल्लिङ्गात्। तच्च तत्रैव स्पष्टीभविष्यतीत्यलम्। इति यण इति। अनेन सूत्रेण सुध्? य् इत्यत्र धकारस्य द्वित्वनिषेधे कर्तव्ये ईकारस्थानिकस्य यकारस्य स्थानिद्भावे प्राप्ते तत्प्रतिषेधसूत्रमारभ्यत इत्यर्थः।

तत्त्वबोधिनी

45 अचः परस्मिन्पूर्वविधौ। अचः किम् ?। आगत्य। `वा ल्यपी'त्यनुनासिकलोपस्तुकि कर्तव्ये न स्थानिवत्। परस्मिन् किम् ?। आदीध्ये। नित्यत्वादिट्, एत्वम्, तच्च न परनिमित्तम्, तेन `यीवर्णयो'रिति लोपे कर्त्तंव्ये तन्न स्थानिवत्। पूर्वविधौ इति किम् ?, नैधेयः। निपूर्वाद्धाञः `उपसर्गे घोः किः' `आतो लोपः', `द्व्यचः' `इतश्चानिञः' इति ढक्। आकारस्य स्थानिवत्त्वे तु त्र्यच्त्वव्यपदेशेन द्व्यच्त्वं विरुद्धत्वाद्वाध्येत। नहि त्रिपुत्रो द्विपुत्रव्यपदेशं लभते। नन्वेवमपि विधिग्रहणं व्यर्थम्, पूर्वस्येति षष्ट\उfffदा कार्ये कर्तव्ये इत्यर्थस्याक्षेप्तुं शक्यत्वादिति चेन्नः, पूर्वस्य विधिः, पूर्वस्माद्विधिरिति समासद्वयलाभार्थं विधिग्रहणात्। यद्यप्यत्र पञ्चमीसमासपक्षो मूले नोक्तः, तथापि `पूर्वस्मादपि विधौ स्थानिवद्भाव' इति पक्षे तु `अड्व्यवाये' इत्येवात्र णत्वमिति `पद्द'न्नादिप्रघट्टके स्वीकृतः सः। अल्विध्यर्थमिदमिति। तेन `वव्रश्चे'त्यत्र वस्य सम्प्रसारणं न, उरदत्त्वस्य स्थानिवत्त्वेन सम्प्रसारणतया `न सम्प्रसारणे' इति निषेधात्। न चोरदत्त्वं परनिमित्तं नेति वाच्यम्, अङ्गाक्षिप्ते प्रत्यये परे तद्विधानात्। पूर्वस्माद्विधिः पूर्वविधिरिति पञ्चमीसमासपक्षस्य तु प्रयोजनम्- तन्वन्ति, तन्वते। इह यणादेशस्य स्थानिवद्भावान्नेट्। अत्र हि `तनित्यङ्ग'नेमित्तम्, तच्च स्थानिभूतादुकारात्पूर्वमिति। नन्विदं न प्रयोजनम्, बहिरङ्गस्य यणोऽसिद्धत्वादिडागमस्यात्राऽप्रसक्तेः। न च नाजानन्तर्ये' इति निषेधः। `यत्रान्तरङ्गे बहिरङ्गे वाऽचोरानन्तर्य'मिति हरदत्तादिमते निषेधप्रवत्तावपि `उत्तरकार्ये यत्राच आनन्तर्यमाश्रितं तत्र बहिष्ट्वप्रक्लृप्तिर्ने'ति कैयटमते तदभावात्। न चैवमपीपचन्निति प्रयोजनं भवत्येव, इह हि अन्तेरकारस्य चङकारस्य च `अतो गुणे' इति पररूपे तस्य च परादिवद्भावाज्झिग्रहणेन ग्रहणे सति `सिजभ्यस्ते'ति जुस् प्राप्नोति, णिलोपस्य एकादेशस्य वा स्थानिवद्भावान्न भवतीति वाच्यम्, वेत्तेर्हि लडयेवानन्तरो झिः सम्भवतीति तत्साहचर्यादभ्यस्तादपि लङ एव झेर्जुस्विधानात्। न च सिचा साहचर्याल्लुङ एव ग्रहणमस्त्विति शङ्क्यम् , `विप्रतिषेधे पर'मिति परसाहचर्यस्य वलीयस्त्वात्। न चैवमपि `अदभ्यस्ता'दित्यदादेशस्य निवारणाय पञ्चमीसमासपक्ष आवश्यक इति वाच्यम्, चङकारस्य अन्तेरकारेण च `अतो गुणे' इति पररूपे कृते झस्याभावददादेशाप्रसक्तेः। अत्र त्वेकादेशस्य परादिवद्भावाज्झग्रहणेन ग्रहणं न भवति; अल्विधौ अन्तादिवद्भावाऽप्रवृत्तेः। अन्यथा `अयजे इन्द्र'मित्यादौ सवर्णदीर्घो दुर्वार एव स्यात्। अस्तु वा परादिवद्भावस्तथापि झकारस्य अत्स्यादित्यदादेशे कर्तव्येऽन्तादेशो न स्थानिवत्, अल्विधित्वात्। तस्मात्पञ्चमीसमासपक्षो निरर्थक एवेति चेदत्राहुः-पञ्चमीसमासप्रयोजनतया अरीतचन्नित्युदाहरतो भगवतस्तु नेह साहचर्यं नियामकतया संमतम्। `द्वित्रिश्चतुर्- ' इति सूत्रे कृत्वोर्थग्रहणाज्ज्ञापकात्साहचर्यं न सर्वत्राश्रीयते। एवं च भवतेर्यङ्लुकि अब्यस्ताश्रयस्य जुसः प्रवृत्त्या `अबोभूवु'रिति रूपं सिध्यति, `आत' इति नियमस्य सिचः परत्वमाश्रित्य यो जुस्प्राप्तस्तन्मात्रपरतया माधवादिभिव्र्याख्यातत्वात्। अत एव `अभ्यस्ताश्रयो जुस्, नित्यत्वाद्वुक्, अबोभूवुः', इति मूले यङ्लुङन्तेषूक्तम्। तथा चाऽपीपचन्नित्येतत्सिद्धये पञ्चमीसमास पक्ष आश्रयणीय इति। अन्येत्वाहुः-पञ्चमीसमासपक्षप्रयोजनतया भाष्ये `बेभिदिता' `माथितिकः' इत्यस्याप्युदाह्मतत्वान्न तस्य वैयथ्र्यशङ्का कार्या। यद्यपि यङोऽकारलोपस्य स्थानिवद्भावं विनापि `एकाच उपदेशेऽनुदात्ता'दित्यत्र विहितविशेषणाश्रयणादेव इण्निषेधाप्रवृत्तौ भिदेर्यङन्तातृचि`बेभिदिते'ति रूपं सुसाधम्, तथापि `माथितिक' इत्यादिसिध्द्यर्थं स पक्षोऽभ्युपगन्तव्यः। न च मथितं पण्यमस्य माथितिक इत्यत्रापि `तदस्य पण्य'मिति ठकि इकादेशे च कृते `यस्येति चे'ति लोपात् `इसुसुक्तान्तात्' इति इकः स्थाने प्रसज्यमानो यः कादेशः सोऽप्यल्लोपस्य स्थानिवद्भावं विनैव सुपरिहरः,, `ठस्येकः' इत्यत्र `स्थान्यादेशयोरकार उच्चारणार्थः' इत्यभ्युपगमे अल्विधित्वेन स्थानिवद्भावाऽप्रवृत्त्या ठस्थानिक इकादेशष्ठो न भवतीति कादेशाऽप्रसक्तेर्माथितिक इति रूपसिद्धौ किमनेन पञ्चमीसमासपक्षाश्रयणेनेति वाच्यम्, मथितयते क्विपि टिलोपाणिलोपयोर्वेरपृक्तलोपे च-मथित्, तेन चरति माथितिक इत्यत्र `चरति' इति ठकि तस्येकादेशसिद्धये तत्पक्षस्यावश्यकत्वात्। न ह्रत्र स्थानिवद्भावं विनापि इकादेशापवादः कादेशः सुपरिहारः, नाप्येतादृशकल्पनायां मानाऽभावः शङ्कयः, `माथितिक' इति भाष्योदाहरणस्यैव मानत्वादिति। स्यादेतत्,-पूर्वत्वस्य सावधित्वेन संनिहतस्यैवावधित्वमुचितं, संनिहितं चेह त्रयं,–स्थानी आदेशो निमित्तं च, तत्र तावत्स्थानी नाऽवधिः। तस्यादेशेनापहारात्। नाप्यादेशनिमित्ते, `वैयाकरण' इत्यत्रैकारस्यायादेशापत्तेरित्याशङ्कायाह-अचः पूर्वत्वेन दृष्टस्येति। पूर्वत्वमुपलक्षणं न तु विशेषणमिति भावः॥

Satishji's सूत्र-सूचिः

445) अचः परस्मिन् पूर्वविधौ 1-1-57

वृत्तिः परनिमित्तोऽजादेशः स्‍थानिवत्, स्‍थानिभूतादचः पूर्वत्‍वेन दृष्‍टस्‍य विधौ कर्तव्‍ये । A substitute of a vowel caused by a term that follows, should be regarded as that whose place it takes, when a rule would else take effect on what stands prior to the original vowel.
Note: We could not have used 1-1-56 to get स्थानिवद्-भाव: for the present purpose because of the exclusion “अनल्विधौ” mentioned in 1-1-56.

उदाहरणम् – कथयति √कथ (चुरादि-गणः, कथ वाक्यप्रबन्धे, धातु-पाठः # १०. ३८९), लँट्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

The ending अकारः of “कथ” is not a अनुनासिक: and hence does not get the इत्-सञ्ज्ञा।

कथ + णिच् 3-1-25. “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114
= कथ् + णिच् 6-4-48. Note: As per 7-2-116, the णिच्-प्रत्यय: would do a वृद्धि: substitution in place of the अकार: of the अङ्गम् “कथ्”। But this does not happen because as per 1-1-57, the लोप: done by 6-4-48 has स्थानिवद्-भाव: (it behaves like the item it replaced – अकार:) when it comes to an operation (वृद्धि:) that would be performed to the left of it. Hence as far as 7-2-116 is concerned, the उपधा of the अङ्गम् is the थकार: and hence it cannot apply.
= कथ् + इ 1-3-3, 1-3-7
= कथि
“कथि” gets धातु-सञ्ज्ञा by 3-1-32

कथि + लँट् 3-2-123
= कथि + ल् 1-3-2, 1-3-3, 1-3-9
= कथि + तिप् 3-4-78, 1-3-74, 1-4-101, 1-4-102, 1-4-108. तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= कथि + ति 1-3-3
= कथि + शप् + ति 3-1-68
= कथि + अ + ति 1-3-3, 1-3-8
= कथे + अति 7-3-84
= कथयति 6-1-78