Table of Contents

<<3-1-67 —- 3-1-69>>

3-1-68 कर्तरि शप्

प्रथमावृत्तिः

TBD.

काशिका

कर्तृवाचिनि सार्वधातुके परतो धातोः शप् प्रत्ययो भवति। पकारः स्वरार्थः। शकारः सार्वधातुकसंज्ञार्थः। भवति। पचति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

389 कर्त्रर्थे सार्वधातुके परे धातोः शप्..

बालमनोरमा

17 कर्तरि शप्। `सार्वधातुके य'गित्यस्मात्सार्वधातुक इत्यनुवर्तते। `धातोरेकाचो हलादे'रित्यस्माद्धातोरिति। तदाह– कत्र्रर्थ इत्यादिना। तिङि परे धातोर्विहितानां प्रत्यायानां शबादीनां विकरणसंज्ञा प्राचीनाचार्यसिद्धा। शपाविताविति। शकारपकारौ `लशक्वतद्धिते' इति `हलन्त्य'मिति चेत्संज्ञकावित्यर्थः। ततश्च शपि शकारपकारयोर्लोपेऽकारमात्रं शिष्यत इत्यर्थः।

तत्त्वबोधिनी

14 `सार्वधातुके य' गित्यतः सार्वधातुक इत्यनुवर्तते, `धातोरेकाचःर' इति सूत्राद्धातोरिति च, तदाह– कत्र्रर्थ इत्यादि।

Satishji's सूत्र-सूचिः

290) कर्तरि शप्‌ 3-1-68

वृत्तिः कर्त्रर्थे सार्वधातुके परे धातोः शप् । The शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

Example continued from above:
भू + शप् + तिप् । 3-1-68

Continued below.