TBD.
उपदेशे इति वर्त्ते। अन्ते भवम् अन्त्यम्। धात्वादेः समुदायस्य यदन्त्यम् हल्, तदित्संज्ञं भवति। ऐउण् णकारः। ऋल्\उ0325क् ककारः। एओङ् ङकरः। ऐऔच् चकारः। उपदेशे इत्येव। अग्निचित्। सोमसुत्। हस्य ल् हलिति द्वितीयम् अत्र हल्ग्रहणं तन्त्रेण उपात्तं द्रष्टव्यम्। तेन प्रत्याहारपाठे हलित्यत्र लकारस्य इत्संज्ञा क्रियते। तथा च सति हलन्त्यम् इत्यत्र प्रत्याहारे न इतरेतराश्रयदोषो भवति।
TBD.
1 उपदेशेऽन्त्यं हलित्स्यात्. उपदेश आद्योच्चारणम्. सूत्रेष्वदृष्टं पदं सूत्रान्तरादनुवर्तनीयं सर्वत्र..
—- 1-1-71 >>
१ 'हल्’ (प्र० सू० १४) इति सूत्रेऽन्त्यमित्स्यात् ।
4 ततः किमित्यत आह–हलन्त्यम्। आवृत्तयोर्द्वितीयं सूत्रमेतत्। हल् अन्त्यमितिच्छेदः। हल्शब्दो नपुंसकलिङ्गोऽप्यस्ति, अन्त्यमिति नपुंसकसामानाधिकरण्यात्। `उपदेशेऽजनुनासिक इ`दिति पूर्वसूत्रादुपदेश इति' इदिति चानुवर्तते। तदाह–उपदेशेऽन्त्यमित्यादिना। धातुप्रातिपदिकनिपातप्रत्याहारसूत्रप्रत्ययादेशागमानामन्त्यमिति भाष्यम्। अथ कोऽयमुपदेशो नाम?' तत्राह–उपदेश आद्योच्चारणमिति। उपशब्द आद्यर्थकः। दिशिरुच्चारणक्रियायाम्। भावे घञिति भावः। एतच्च `आदेच उपदेशे' इत्यादासूत्रे भाष्ये स्पष्टम्। धातुसूत्रगणोणादिवाक्यलिङ्गानुशासनम्। आगमप्रत्ययादेशा उपदेशाः प्रकीर्तिताः॥ किम्-`इदमस्थमुः' इति थमुप्रत्यये उकारस्योच्चारणार्थस्य निवृत्तौ मकारस्य प्रत्ययान्तत्वेऽपि इत्संज्ञा मा भूत्। तदेवं हलन्त्यमिति आवृत्तद्वितीयसूत्रेण चतुर्दशसूत्र्यामन्त्यणकारादिवर्णानामित्संज्ञा सिद्धेति स्थितम्। ततः किमित्यत आह-ततोऽण्? अजित्यादिसंज्ञासिद्धाविति। ततः णकारादिनामित्संज्ञासिद्ध्यनन्तरमादिरन्त्येनेत्यणादिसंज्ञा सिद्धेत्यर्थः।
4 अन्तेऽवसाने भवमन्त्यम्। दिगादित्वाद्यत्। `उपदेशेऽजनुनासिक इत्' इत्यत `उपदेशे' इति, `इ'दिति चाऽत्रानुवर्तते। `आदिरन्त्येन-' इति सूत्रेण सहाऽन्योन्याश्रयमाशङ्क्य आवृत्त्या तं परिहरति-हलिति सूत्रेऽन्त्यमिति। हलि अन्त्यमिति विग्रहे `सप्तमी' इति योगविभागात् सुप्सुपा' इति वा समास इति भावः। यद्वा षष्ठीतत्पुरुषोऽयं, `हलिति सूत्रस्यान्त्यमित्स्यात् ' इति व्याख्यानसम्भवात्।
यु + लोँट् (आशिषि) 3-3-173 = यु + ल् 1-3-2, 1-3-3
= यु + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= यु + ति 1-3-3 = यु + तु 3-4-86
= यु + शप् + तु 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = यु + तु 2-4-72
= यु + तातङ् 7-1-35, 1-1-55 = युतात् 1-3-3
The तातङ्-प्रत्ययः is a ङित्। By स्थानिवद्-भावः (ref. 1-1-56), “तातङ्” (which has come in place of the पित्-प्रत्यय: “तिप्”) inherits the पित्त्वम् (the status of being a पित्) from the तिप्-प्रत्यय:। Thus the conditions for applying 7-3-89 are satisfied and the ending उकार: of the अङ्गम् “यु” would take वृद्धि:। But as per the महाभाष्यम् – पिच्च ङिन्न, ङिच्च पिन्न – that which is a पित् cannot be a ङित् at the same time and that which is a ङित् cannot be a पित् at the same time. “तातङ्” has been
specifically made a ङित् by पाणिनि: by putting the ङकार: as an इत्। So it is साक्षात् ङित्। On the other hand the पित्त्वम् was inherited by स्थानिवतद्-भावः। The ङित्त्वम् which is साक्षात् has greater force and it negates the पित्त्वम्। So now 7-3-89 (which requires the प्रत्यय: to be पित्) cannot apply and hence there is no वृद्धि: for the उकार: of “यु”।