Table of Contents

<<3-1-31 —- 3-1-33>>

3-1-32 सनाद्यन्ता धातवः

प्रथमावृत्तिः

TBD.

काशिका

सनादिर्येषां ते सनादयः। सनादयो ऽन्ते येषं ते सनाद्यन्ताः। सनाद्यन्ताः समुदायाः धातुसंज्ञाः भवन्ति। प्रत्ययग्रहणपरिभाषा एव पदसंज्ञायाम् अन्तवचनेन लिङ्गेन प्रतिषिद्धा सती पुनरिह अन्तवचनेन प्रतिप्रसूयते। चिकीर्षति। पुत्रीयति। पुत्रकाम्यति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

470 सनादयः कमेर्णिङन्ताः प्रत्यया अन्ते येषां ते धातुसंज्ञकाः. धातुत्वाल्लडादयः. गोपायति..

बालमनोरमा

147 नन्वायप्रत्ययान्तस्य भ्वादिषु पाठाऽभावेन धातुत्वाऽभावात् कथमस्माल्लडादय इत्यत आह– सनाद्यन्ताः। `गुप्तिज्किद्भ्यः स'नित्यारभ्य `कमेर्णि'ङित्यन्तैः सूत्रैः सनादिप्रत्ययान्विधाय सूत्रमिदं पठितम्। सन् आदिर्येषां ते सनादयो णिङ्प्रत्ययपर्यन्ताः, ते अन्ते येषां ते सनाद्यन्ता इति विग्रहः। तदाह—सनादयः इति। `सन्क्यच्काम्यच्क्यङ्क्यषोऽथाचारक्विब्णिज्यङौ तथा। यगाय ईयङ् णिङ् चेति द्वादशाऽमी सनादयः' इति। सङग्रहः। संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणप्रतिषेधादिह तदन्तग्रहणम्। धातुत्वादिति। आयप्रत्यान्तस्येत्यर्थः। गोपायतीति। शपि `अतो गणे' इति पररूपम्।

तत्त्वबोधिनी

120 सनाद्यन्ताः। सदनादय इति। `सन्?क्यच्?काम्यचज्?क्यङ्?क्यषोऽथाचारक्विप्?णिज्?यङौ तथा। यगाय णिङ् चेति द्वादशीमी सनादयः'। धातुत्वादिति। प्रत्ययविशिष्टस्य धातुत्वादित्यर्थः। `सुप्तिङन्त'मित्यनेन `संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ती'तिज्ञापितत्वाद्विशिष्टस्य धातुसंज्ञालाभाय अस्मिन् सूत्रे अन्तग्रहणं कृतम्। `भूवादयो धातवः' इत्यस्यानन्तरं `सनाद्यन्ताश्चे'ति न सूत्रितं, सनादयो द्वादशेवेति निर्धारणाऽलाभापत्तेः। निर्धारणाऽलाभापत्तेः। `सनाद्यन्ता धातवः' इत्यस्यानन्तरं तु `भूवादयंश्चे'ति पठित्वा `धातव' इत्येतत्तन्न त्यक्तुं शक्यम्।

Satishji's सूत्र-सूचिः

329) सनाद्यन्ता धातवः 3-1-32
वृत्तिः सनादयः कमेर्णिङन्‍ताः प्रत्‍यया अन्‍ते येषां ते धातुसञ्ज्ञकाः । A term ending in an affix, which is prescribed in the section starting from सन् (ref. 3-1-5 गुप्तिज्किद्भ्यः सन्) up to णिङ् (ref. 3-1-30 कमेर्णिङ्), gets the designation of “धातु:” (verbal root.)
Note: सन्, क्यच्, काम्यच्, क्यङ्, क्यष्, क्विप्* (only the क्विप् which is prescribed by the वार्त्तिकम् “सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः” under the सूत्रम् 3-1-10 उपमानादाचारे), णिच्, यङ्, यक्, आय, ईयङ् and णिङ् are the twelve affixes that are called सनादयः।

Example continued from above

By 3-1-32, गोपाय gets धातु-सञ्ज्ञा। Now we can add the लकाराः लँट् etc. to the गोपाय-धातुः।

गोपाय + लँट् 3-2-123 = गोपाय + ल् 1-3-2, 1-3-3
= गोपाय + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= गोपाय + शप् + तिप् 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = गोपाय + अ + ति 1-3-3, 1-3-8 = गोपायति 6-1-97