Table of Contents

<<1-4-107 —- 1-4-109>>

1-4-108 शेषे प्रथमः

प्रथमावृत्तिः

TBD.

काशिका

शेषः इति मध्यमौत्तमविषयादन्य उच्यते। यत्र युष्मदस्मदी समनाधिकरणे उपपदे न स्तः, तत्र शेषे प्रथमपुरुषो भवति। पचति। पचतः। पचन्ति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

387 मध्यमोत्तमयोरविषये प्रथमः स्यात्. भू ति इति जाते..

बालमनोरमा

15 शेषे। उक्तान्मध्यमोत्तमविषयादन्यः शेषः। तदाह–मध्यमोत्तमयोरविषय #इति। `त्वमहं च पचाव' इत्यत्र तु परत्वादुत्तमपुरुष एव न तु मध्यमः। `देवदत्तस्त्वं च पचथ' इत्यत्रापि न प्रथमपुरुषः, युष्मदस्सत्वेन शेषत्वाऽभावादित्यलम्। भू सत्तायामिति। `वर्तते' इति शेषः। भ्वादिगणे प्रथमो धातुरयम्। तत्र `भू'इत्येव गणे पाठः। अर्थनिर्देशस्त्वाधुनिक इति वक्ष्यते। यद्यपि सत्ता जातिः, न क्रिया, तथापि आत्मधारणं सत्तेत्युच्यते। स्वरूपेणाऽवस्थानमिति यावत्। कर्तृविवक्षायामिति। वर्तमानसत्तावृत्तेर्भूधातोः कर्तरि लटि आत्मनेपदनिमित्तहीनतया परस्मैपदे तिबादिनवके तत्रापि युष्मदस्मत्सामानाधिकरण्याऽभावात् प्रथमपुरुषत्रिके, तत्रापि कर्तुरेवकत्वविवक्षायां तिपि सति, भू-ति इति स्थिते प्रक्रिया वक्ष्यत इत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

288) शेषे प्रथमः 1-4-108

वृत्तिः शेषः इति मध्यमोत्तमविषयात् अन्यः उच्यते । In all the other instances – when neither the युष्मद्-शब्दः nor the अस्मद्-शब्दः is in agreement with the verb – a प्रथम-पुरुष-प्रत्यय: is used.

The following table shows the classification of the तिङ्-affixes:
      परस्मैपद-प्रत्ययाः     आत्मनेपद-प्रत्ययाः     पुरुषः
प्रथम-त्रिक:     तिप्, तस्, झि     त, आताम्, झ     प्रथम-पुरुषः
द्वितीय-त्रिक:     सिप्, थस्, थ     थास्, आथाम्, ध्वम्     मध्यम-पुरुषः
तृतीय-त्रिक:     मिप्, वस्, मस्     इट्, वहि, महिङ्     उत्तम-पुरुषः

.

The following सूत्रम् defines the सार्वधातुक-सञ्ज्ञा।