Table of Contents

<<3-1-24 —- 3-1-26>>

3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्

प्रथमावृत्तिः

TBD.

काशिका

सत्याऽदिभ्यश्चूर्णपर्यन्तेभ्यः, चुरादिभ्यश्च णिच् प्रत्ययो भवति। सत्यम् आचष्ते सत्यापयति। अर्थवेदसत्यानाम् आपुग् वक्तव्यः। अर्थम् आचष्ते अर्थापयति। देवापयति। आपुग्वचनसामर्थ्याट्टिलोपो न भवति। पाशाद् विमोचने विपाशयति। रूपाद् दर्शने रूपयति। वीणयोपगायति उपवीणयति। तूलेनानुकुष्णाति अनुतूलयति। श्लोकैरुपस्तौति उपश्लोकयति। सेनयाभियाति अभिषेणयति। लोमान्यनुमार्ष्टि अनुलोमयति। त्वचं गृह्णाति त्वचयति। अकारान्तस् त्वचशब्दः। वर्मणा सन्नह्यति संवर्मयति। वर्णम् गृह्णाति वर्णयति। चूर्णैः अवध्वंसयति अवचूर्णयति। चुरादिभ्यः स्वार्थे। चोरयति। चिन्तयति। स्वाभाविकत्वादर्थाभिधानस्य यथास्वं प्रत्ययार्था निर्दिश्यन्ते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

390 सत्याप। सत्याप पाश रूप वीणा तूल श्लोक सेना लोमन् त्वच वर्मन् वर्ण चूर्ण चुरादि– एषां द्वन्द्वात्पञ्चमी। तदाह - एभ्यो णिच्स्यादिति। कस्मिन्नर्थे इत्याकाङ्क्षायामाह– चूर्णान्तेभ्य इति। सत्यादिभ्यश्चूर्णान्तेभ्यो द्वादशभ्यः करोत्याचष्टे इत्याद्यथ `प्रातिपदिकाद्धात्वर्थे बहुल'मिति वक्ष्यमाणेन सिद्धमेवाऽर्थनिर्देशनमित्यर्थः। ननु तेनैव सिद्धत्वादिह चूर्णान्तानुक्रमणं व्य्रथमित्यत आह - तेषामिह ग्रहणं प्रपञ्चार्थमिति। नच तेभ्यः स्वार्थे एव णिज्विधिरस्त्विति वाच्यं, `सत्यस्यतु कृञ्यापुङ्नपात्यते। सत्यं करोति सत्यापयती'त्यादिभाष्यविरोधादिति भावः। नामधातुप्रकरणे सत्यादिचूर्णान्तानामुदाहरणानि मूल एव स्फुटीभविष्यन्ति। चुरादिभ्यस्तु स्वार्थे इति। अर्थान्तरस्याऽनिर्देशादिति भावः। अत्र `धातोरेकाचः' इत्यतो धातोरित्यनुवर्तते। चुरादिभ्यो धातुभ्यो णिजिति फलितम्। ततश्च णिच आद्र्धधातुकत्वं सिध्यति। अन्यथा धातोरिति विहितत्वाऽभावादाद्र्धधातुकत्वं न स्यादिति बोध्यम्। तदाह – पुगन्तेति गुण इति। णिचि कृते चुर् इ इति स्थिते णिच आद्र्धधातुकत्वात्तस्मिन् चकारादुकारस्य `पुगन्तलघूपधस्ये'ति गुण इत्यर्थः।

तत्त्वबोधिनी

341 सत्यापपाश। एतस्योदाहरणानि अग्रे नामधातुषु स्फुटीभविष्यन्तीति नास्माभिरुपपाद्यन्ते। त्वचशब्दोऽकारान्तः। प्रपञ्चार्थमिति। `सत्याप'ग्रहणं तु आपुगर्थमिति ज्ञेयम्। अन्ये त्वाहुः– सापेक्षेभ्योऽपि णिजर्थमेषामुपादानम्। अन्यथा `रमणीयं घटं करोती'त्यादाविव `रमणीयं रूपयती'त्यादावपि णिज्न स्यादिति।

Satishji's सूत्र-सूचिः

442) सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् 3-1-25

वृत्तिः एभ्‍यो णिच् स्‍यात् । चुरादिभ्‍यस्‍तु स्‍वार्थे । The affix णिच् is used after these words – “सत्य” ‘truth’ (which then takes the form of “सत्याप्” as exhibited in the सूत्रम्), “पाश” ‘fetter’, “रूप” ‘form’, “वीणा” ‘lute’, “तूल” ‘cotton’, “श्लोक” ‘celebration’, “सेना” ‘army’, “लोमन्” ‘hair of the body’, “त्वच” ‘skin’, “वर्मन्” ‘mail’, “वर्ण” ‘color’, “चूर्ण” ‘powder’ and the verbal roots belonging to the चुरादि-गणः।

उदाहरणम् – चोरयति √चुर् (चुरादि-गणः, चुरँ स्तेये, धातु-पाठः # १०. १), लँट्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

The ending अकारः of “चुरँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः।

चुर् + णिच् 3-1-25. “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114
= चुर् + इ 1-3-3, 1-3-7
= चोरि 7-3-86
“चोरि” gets धातु-सञ्ज्ञा by 3-1-32

Continued below