Table of Contents

<<6-1-77 —- 6-1-79>>

6-1-78 एचो ऽयवायावः

प्रथमावृत्तिः

TBD.

काशिका

एचः स्थाने अचि परतः अयवायावित्येते आदेशाः यथासङ्ख्यम् भवन्ति। चयनम्। लवनम्। चायकः। लावकः। कयेते। ययेते। वायाववरुणद्धि।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

22 एचः क्रमादय् अव् आय् आव् एते स्युरचि..

बालमनोरमा

62 एचोऽयवायावः। अय्?च अव्?च आय्?च आव्?चेति विग्रहः। इको यणचीत्यतोऽचीत्यनुवर्तते। यथासंख्यपरिभाषया एकारस्य अय्?, ओकारस्य-अव्, ऐकारस्य- आय्, औकारस्य-आविति लभ्यते। तदाह–एचः क्रमादिति। यथासंख्यसूत्रभाष्यरीत्या त्वन्तरतमपरिभाषयैवात्र व्यवस्था ज्ञेया। इह `इचोऽचि यणयवायाव' इत्येव सूत्रयितुमुचितम्।

तत्त्वबोधिनी

52 एचः क्रमादिति। नन्वत्रैव यथासङ्ख्यसूत्रं वक्तुमुचितम्। प्रत्याहारग्रहणेषुतद्वाच्यवाच्ये निरूढलक्षाभ्युपगमेऽपि लक्ष्यार्थबोधात्पूर्वभाविशक्यार्थज्ञानमादाय यथासङ्खयत्वस्यावश्यं वक्तव्यत्वात्। अन्यथा एचां क्रमेणायवायावो न सिध्येरन्। मैवम्। अन्तरतमत्वेनापि तत्सिद्धेः। तथाहि एचः सन्ध्यक्षराणि। ततश्च संवृताकारतालव्यस्य एकारस्य संवृताकारतालव्योऽय्, संवृताकारोष्ठ\उfffद्स्य ओकारस्य तादृश एव अव्, ऐचश्चोत्तरभूयस्त्वादैकारे इकारोऽध्यर्थमात्रः, अकारस्त्वर्धमात्र एव। एवमोकारेऽप्युकारोऽध्यद्र्धमात्रः, अकारस्त्वर्धमात्रः। एवंच विवृताकारतालव्यस्य ऐकारस्य विवृताकारतालव्य आय्। विवृताकारौष्ठ\उfffद् आव्॥

Satishji's सूत्र-सूचिः

2) एचोऽयवायावः 6-1-78

वृत्ति: एचः स्थानेऽचि परतोऽय् अव् आय् आव् इत्येत आदेशा यथासङ्ख्यं भवन्ति । When an अच् letter (vowel) follows, then in place of the एच् letters (“ए”, “ओ”, “ऐ”, “औ”) there is a respective substitution (see 1-1-50 स्थानेऽन्तरतमः) of “अय्”, “अव्”, “आय्” and “आव्”।

गीतासु उदाहरणम् – श्लोकः bg13-19

उभौ + अपि = उभावपि