Table of Contents

<<1-3-8 —- 1-3-10>>

1-3-9 तस्य लोपः

प्रथमावृत्तिः

TBD.

काशिका

तस्य इत्संज्ञकस्य लोपो भवति. तथा च एव उदाहृतम्. तस्य ग्रहणं सर्वलोपार्थम्, अलो ऽन्त्यस्य 1-1-52 मा भूतादिर् ञिटुडवः 1-3-5 इति.

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

3 तस्येतो लोपः स्यात्. णादयोऽणाद्यर्थाः.

बालमनोरमा

63 एतेष्वादेशेषु यकारवकारयोर्हलन्त्यमितीत्संज्ञायां लोपमाशङ्कितुमाह–तस्य लोपः। इत्संज्ञाप्रकरणान्ते इदं सूत्रम्। तत्र तच्छब्दः सन्निहितमितं परामृशति। तदाह– तस्येति इति। इत्यनेन सूत्रेण यवयोर्लोपो न शङ्कनीय इत्यर्थः। कुत इत्यत आह– उच्चारणेति। यद्यत्र यवयोर्लोपः स्यात्तर्हि तयोः सूत्रेऽनुच्चारणमेव स्यात्, `प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वर'मिति न्यायादिति भावः। तर्हि किमनयोरित्संज्ञयेत्यत आह–एवंचेति। उक्तप्रकारेण लोपाऽभावे सतीत्संज्ञापीह यकारे वकारे च न भवति, फलाऽभावादित्यर्थः। क्रमेणोदाहस्ति–हरय इत्यादिना। हरे– ए,विष्णो-ए, नै-अकः, पौ-अक इति स्थितेषु एकारादीनां क्रमादयादयः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.