Table of Contents

<<3-4-113 —- 3-4-115>>

3-4-114 आर्धधातुकं शेषः

प्रथमावृत्तिः

TBD.

काशिका

तिङः शितश्च वर्जयित्वा अन्यः प्रत्ययः शेषो धातुसंशब्दनेन विहितः आर्धधातुकसंज्ञो भवति। लविता। लवितुम्। लवितव्यम्। धातोः 3-1-91 इत्येव। वृक्षत्वम्। वृक्षता अस्ति। लूभ्याम्। लूभिः। जुगुप्सते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

36 भू तास् ति इति स्थिते–आद्र्धधातुकं शेष-। `तिङ्?शित्सार्वधातुक'मिति पूर्वसूत्रोपात्ततिङ्शिदन्यः शेषः। तदाह– तिङ्?शिद्भ्योऽन्य इति। विहित इति। `धातो'रित्यधिकृतं विहितविशेषणमाश्रीयत इति भावः। एवं च `जुगुप्सते' इत्यादौ `गुप्तिज्किद्भ्य' इत्यादिविहितसनादीनां धातोरित्युच्चार्य विहितत्वाऽभावेन आद्र्धधातुकत्वाऽभावादिडागमो न भवति। एतत्संज्ञः स्यादिति। आद्र्धधातुकसंज्ञक इत्यर्थः। इडिति। तास्प्रत्ययस्योक्तसूत्रेणाद्र्धधातुकत्वात्स्वतो वलादित्वाच्च `आद्र्धधातुकस्येड्वलादे'रितीडागम इत्यर्थः।

तत्त्वबोधिनी

29 `धातोरेकाचः' इत्यत्र धातोरित्यनुवर्तमाने पुनर्धातोरित्यधिकारसूत्रारम्भादिदं लभ्यते। एतच्च तत्रैव मनोरमायां स्पष्टम्। दातोरितिविहित इति किम् ?। लूभ्यां। जुगुप्सते॥

Satishji's सूत्र-सूचिः

328) आर्द्धधातुकं शेषः 3-4-114
वृत्तिः तिङि्शद्भ्‍योऽन्‍यो धातोरिति विहितः प्रत्‍यय एतत्‍संज्ञः स्‍यात् । An affix, which does not belong to the तिङ्-प्रत्याहारः and does not have शकारः as an इत्, gets the designation of आर्द्धधातुकम् if it is prescribed in the “धातो:” अधिकार:।

Example continued from above

गुप् + आय = गोप् + आय 3-4-114, 7-3-86 = गोपाय

Example continued below