Table of Contents

<<1-1-57 —- 1-1-59>>

1-1-58 न पदान्तद्विर्वचनवरेयलोपस्वरसवर्ण. अनुस्वारदीर्घजश्चर्विधिषु

प्रथमावृत्तिः

TBD.

काशिका

पूर्वेण अतिप्रसक्तः स्थानिवद्भाव एतेषु विधिषु प्रतिषिध्यते। पदान्तविधिं प्रत्यजादेशो न स्थानिवद् भवति। कौ स्तः। यौ स्तः। तानि सन्ति। यनि सन्ति। श्नसोरल्लोपः क्ङिति सार्वधातुके इति परनिमित्तकः, स पूर्वविधावावादेशे यणादेशे च कर्तव्ये स्थानिवत् स्यात्, अस्माद् वचनान् न भवति। द्विर्वचनविधिः द्विर्वचनविधिं प्रति न स्थानिवद् भवति। दद्ध्यत्र। मद्ध्वत्र। यणादेशः परनिमित्तकः, तस्य स्थानिवद्भावातनचि च 8-4-47 इति धकारस्य द्विर्वचनं न स्यादस्माद् वचनाद् भवति। वरेविधिः वरे यो ऽजादेशः स पूर्वविधिं प्रति न स्थानिवद् भवति। अप्सु यायावरः प्रवपेत पिण्डान्। यातेः यङन्तात् यश्च यङः 3-2-176 इति वरचि कृते अतो लोपः 6-4-48) परनिमित्तकः, तस्य स्थानिवत्त्वादतो लोप इटि च (*6,4.64 इत्याकारलोपः स्याद्, अस्माद् वचनान् न भवति। यलोपविधिः यलोपविधिं प्रत्यजादेशो न स्थानिवद् भवति। कण्डूतिः। कण्डूयतेः क्तिनि कृते, अतो लोपः परनिमित्तकः, लोपो व्योर् वलि 6-1-66 इति यलोपे स्थानिवत् स्यादस्माद् वचनान् न भवति। स्वरविधिः स्वरविधिं प्रति अजादेशो न स्थानिवद् भवति। चिकीर्षकः। जिहीर्षकः ण्वुलि कृते अतो लोपः परनिमित्तकः, लिति 6-1-193 प्रत्ययात् पूर्वम् उदात्तम्, इति स्वरे कर्तव्ये न स्थानिवद् भवति इति। सवर्णविधिः सवर्णविधिं प्रति अजादेशो न स्थानिवद् भवति। शिण्ढि। पिण्ढि। शिषेः पिषेश्च लोण्मध्यमपुरुषैकवचने रुद्ःआदिभ्यः श्नम् 3-1-78। हित्वधित्वष्टुत्वजश्त्वेषु कृतेषु, श्नसोरल्लोपः क्ङिति सार्वधातुके परनिमित्तकः, अनुस्वारस्य ययि परसवर्णे कर्तव्ये न स्थानिवद् भवति। अनुस्वारविधिः अनुस्वारविधिं प्रति अजादेशो न स्थानिवद् भवति। शिंषन्ति। पिंषन्ति। नश्च अपदान्तस्य झलि 8-3-24 इति अनुस्वारे कर्तव्ये श्नसोरल्लोपः न स्थानिवद् भवति। दीर्घविधिः दीर्घविधिं प्रति अजादेशो न स्थानिवद् भवति। प्रतिदीव्ना। प्रतिदीव्ने। प्रतिदिवनित्येतस्य भस्य 6-4-129 इत्यधिकृत्य तृतीयैकवचने चतुर्थ्येकवचने च अल्लोपो ऽनः 6-4-134 इत्यकारलोपः परनिमित्तकः, तस्य स्थानिवद्भावाद् हलि च 8-2-77 इति दीर्घत्वं न स्यात्, न ह्ययं वकारो हल्परः इति, अस्माद् वचनाद् भवति। जश्विधिः जश्विधिं प्रत्यजादेशो न स्थानिवद् भवति। सग्धिश्च मे सपीतिश्च मे। बब्धां ते हरी धानाः। अदेः क्तिनि बहुलं छन्दसि 2-4-39 इति घस्लाऽदेशः। घसिभसोर् हलि च 6-4-100) इत्युपधलोपः। झलो जह्लि (*8,2.26 इति सकारलोपः। झषस् तथोर् धो ऽधः 8-2-40 इति धत्वम्। उपधालोपस्य स्थानिवत्तवात् झलां जस् झसि 8-4-53 इति घकारस्य जश्त्वं न स्यात्, अस्माद् वचनाद् भवति। समना ग्धिः। समानस्य सभावः। सग्धिः। बब्धाम् इति भसेर्लोड्द्विवचने शपः स्लुः, द्विर्वचनम्, अभ्यासकार्यम्, घसिभसोर् हलि च 6-4-100) इति उपधालोपः, झलो झलि (*8,2.26 इत् सकारलोपः, झषस् तथोर् धो ऽधः 8-2-40 इति धत्वम्। उपधलोपस्य स्थानिवत्त्वात् झलाम् जश् झशि 8-4-53 इति जश्त्वं न स्यात्, अस्माद् वचनाद् भवति। चर्विधिः चर्विधिं प्रति अजादेशो न स्थानिवद् भवति। जक्षतुः। जक्षुः। अक्षन् पितरो ऽमीमदन्त पितरः। लिड्द्विवचनबहुवचनयोरदेर् घस्लाऽदेशः। गमहनजनखनघसां लोपः क्ङित्यनङि 6-4-98 इति उपधालोपः, द्विर्वचनम्, अभ्यासकार्यम्। तत्र उपधालोपस्य स्थानिवत्त्वात् खरि च 8-4-55 इति घकारस्य चर्त्वं न स्याद्, अस्माद् वचनाद् भवति। शासिवसिघसीनां च 8-3-60 इति शत्वम्। अक्षनिति अदेः लुङ् बहुवचने घस्लाऽदेशः, च्लेरागतस्य मन्त्रे घसह्वर 2-4-80 इति लुक्। गमहनजनखनघसां लोपः क्ङित्यनङि 6-4-98) इत्युपधालोपः, तस्य स्थानिवत्त्वात् खरि च (*8,4.55 इति चर्त्वं न स्यात्, अस्माद् वचनाद् भवति। स्वरदीर्घयलोपेशु लोपाजादेशो न स्थानिवद् भवति। अन्यत्र स्थानिवदेव। तेन बहुखट्वकह्, किर्योः, गिर्योः, वाय्वोः इति स्थानिवत्त्वात् स्वरदीर्घयलोपा न भवन्ति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

53 न पदान्तद्विर्वचन। स्थानिवदादेश' इति `अचः परस्मि'न्निति चानुवर्तते। परनिमित्तकोऽजादेशो न स्थानिवदित्यन्वयः। पदान्तश्च द्विर्वचनं च वरे च यलोपश्च स्वरश्च सवर्णश्च अनुस्वारश्च दीर्घश्च जश्च चर्चेति द्वन्द्वः। तेषां विधयः=विधानानि। कर्मणि षष्ठ\उfffदा समासः। ततश्च पदान्तादिषु विधेयेषु इति लभ्यते। वर इत्यनेन वरे योऽजादेशः स विवक्षितः। आर्षो द्वन्द्वः। सप्तम्या अलुक्च। विधिशब्दः प्रत्येकमन्वेति–पदान्तविधौ द्विर्वचनविधावित्यादि। पदस्यान्तः=चरमावयवः। पदान्तस्य विधाने=पदान्तकर्मके विधाने। पदस्य चरमावयवे कार्ये द्विर्वचनादौ च कार्ये इति यावत्। तदाह–पदस्य चरमेत्यादिना। पदान्तस्य स्थाने विधाविति तु न व्याख्यातम् , तथा सति एषो यन् हसतीत्यसिद्धेः। तथाहि–एषः यन् इति छेदः। इण्धातोर्लटः शतरि शपि लुकि इकारस्य इणो यणिति यण्। अत्र एतत्तदोरिति सुलोपो न भवति, तस्य हलि परतो विधानात्, इह च तस्मिन् कर्तव्ये इकारस्थानिकस्य यकारस्य स्थानिवद्भावेनाऽच्त्वात्। नच न पदान्तेति निषेधः शङ्ख्यः, यो विधीयमानः पदस्य चरमावयवः संपद्यते तत्रैव तन्निषेधात्, इह च विधेयस्य सुलोपस्य पदानवयवत्वात्। `पदान्तस्य स्थाने विधा'विति व्याख्याने तु इह यकारस्य स्थानिवद्भावो न सिध्येत्, लोपस्य पदान्तसकारस्य स्थाने विधानात्। अत्र हशि चेत्युत्वे तु कर्तव्ये यकारो न स्थानिवद्भवति, उकारस्य विधीयमानस्य पदचरमावयवत्वात्। एवं च पदान्तविधावित्यस्य एषो यनित्येतदुत्वविषये उदाहरणम्। सुलोपविषये तु प्रत्युदाहरणमिति भाष्ये स्पष्टम्। बाष्यप्रदीपोद्द्योते स्पश्टतरमेतत्। पदान्तविधौ कानि सन्तीत्याद्युदाहरणमनुपदमेव मूले स्पष्टीभविष्यति। द्विर्वचने सुध्? य् इतयुदाहरणम्। नचेह द्वित्वे कर्तव्ये यकारस्य स्थानिवद्भावविरहेऽपि तन्निषेधे स्थानिवद्भावः स्यादेवेति वाच्यम्, अनचि चेति द्वित्वस्याऽनैमित्तिकतयातद्विषये यकारस्थानिवद्भावस्यानपेक्षितत्वेन तत्र तन्निषेधस्य वैयथ्र्यापत्त्या द्विर्वचनशब्देनात्र अचि नेति द्वित्वनिषेधस्यैव विवक्षितत्वादिति भावः। वरे यथा–यायावरः। `यश्च यङ' इति याधातोर्यङन्ताद्वरच्। `सन्यङो'रिति द्वित्वम्। यायाय वर इति स्थि अतो लोप इति यङोऽकारस्य लोपः। `लोपो व्यो'रिति यकारलोपः। अत्र अजाद्यार्धधातुकमाश्रित्य `अतो लोप इटि च' इत्याकारलोपे कर्तव्ये अल्लोपो न स्थानिवत्। यलोपे यता–यातिः। याध#आतोर्यङि द्वित्वं। क्तिच्। यायाय ति इति स्थिते-अतो लोपः। `लोपो व्यो'रिति यलोपः। अल्लोपस्य स्थानिवत्त्वादातो लोपः। लोपो व्योरिति यलोपः। यातिरिति रूपम्। अत्र अल्लोपो यलोपे कर्तव्ये न स्थानिवत्। न च वाय्वोरित्यत्रापि लोपो व्योरिति यलोपे कर्तव्ये उकारादेशस्य वकारस्य स्थानिवत्त्वनिषेधः स्यादिति वाच्यं, स्वरदीर्घयलोपेषु लोप एवाजादेशो न स्थानिवदिति वार्तिके परिगणनात्, इह च वकारस्य लोपरूपत्वाऽभावात्। स्वरविधौ यथा–चिकीर्षकः। चिकीर्ष इति सन्नन्तात् ण्वुल्। अकादेशः। सनोऽकारस्य अतो लोपः। अत्र ईकारस्य वितीत्युदात्तत्वे कर्तव्ये अल्लोपो न स्थानिवत्। यद्यपि ईकारोऽल्लोपस्थानीभूतादकारान्नाव्यवहितपूर्व इति स्थानिवद्भावस्य प्राप्तिरिह नास्ति, तथाप्यस्मादेव ज्ञापकात् पूर्वसूत्रे पूर्वत्वं व्यवहिताव्यवहितसाधारणम्। तत्प्रयोजनं तु पूर्वसूत्र एवोक्तम्। रौधादिकाल्लोण्मध्यमपुरुषैकवचनम्। सिप् श्नम्। शिनष् सि। हित्वम्। धित्वम्। ष्टुत्वम्। षस्य जश्त्वं डकारः। शिनड्ढि। श्नसोरल्लोपः। नश्चापदान्तस्येत्यनुस्वारः। अनुस्वारस्य ययीति तस्य परसवर्णो णकारः। शिण्ड्ढि इति रूपम्। अत्र परसवर्णे कर्तव्ये अल्लोपो न स्थानिवत्। वस्तुतस्तु सवर्णविधौ नेदमुदाहरणम्। श्नमकारस्य लोपोऽत्र अजादेशः। तत्स्थानीभूतः श्नमकार एव। तस्मिन् सति नकारस्यानुस्वारप्रसक्तिरेव नास्ति। तथा चानुस्वारस्य स्थानीबूतादचः पूर्वत्वेन कदाप्यदृष्टत्वात्तस्य परसवर्णे कर्तव्ये अचः परस्मिन्नित्यलोपस्य स्थानिवत्त्वं न प्रसक्तमिति किं तत्प्रतिषेधेन?। यत्तु तत्वबोधिन्याम– अनुस्वारस्य स्थानिभूतो नकारः श्नमकारात् पूर्वत्वेन दृष्ट इति तत्स्थानिकानुस्वारस्यापि तत्पूर्वत्वेन दृष्टत्वं, स्थानिद्वारापि पूर्वत्वाभ्युपगमादित्युक्तम्। एवं सति तितौमाचष्टे तितापयतीत्यत्र पुगागमो न स्यात्। `तत्करोति तदाचष्टे' इति णिच्। इष्ठवद्भावादुकारस्य टेरिति लोपः। अचो ञ्णितीति तकारादकारस्य वृद्धिराकारः। पुगागमः। तितापीत्यस्मात् लट् तिप् शप्। गुणः। अयादेश#ः। तितापयतीति रूपम्। अत्र अचो ञ्णितीति वृद्ध्या लब्धस्य आकारस्य पुगागमे कर्तव्ये उकारलोपस्य स्थानिवद्भावे सति उकारेण व्यवधाने णिपरकत्वाऽबावात्पुगागमो न स्यात्। आकारस्य लोपस्थानिभूतादुकारात्पूर्वत्वस्य स्वतोऽभावेऽपि स्थानिद्वारा सत्त्वादिति सिद्धान्तरत्नाकरे दूषितम्। प्रौढमनोरमाव्याख्याने तु शब्दरत्ने पादमाचष्टे पादयति, ततः क्विप् पात् हसतीत्यादौ `झयो हः' इति पूर्वसवर्णे कर्तव्ये पूर्वस्मात्परस्य विधिरिति पञ्चमीसमासप्राप्तस्थानिवद्भावनिषेधार्थमिह सूत्रे सवर्णग्रहणिति प्रपञ्चितम्। अनुस्वारविधौ यथा–शिंषन्ति। शिष्धातोर्लटि झिः। झोऽन्तः। श्नसोरल्लोपः। नस्चापदान्तस्येत्यनुस्वारः। शिंषन्ति। इह तु न परसवर्णः, षकारस्य यय्त्वाभावात्। अत्र अनुस्वारे कर्तव्ये अल्लोपो न स्थानिवत्। अत्र दीर्घविधौ यथा-प्रतिदीव्ना। हलि चेति दकारादिकारस्य दीर्घे कर्तव्ये अल्लोपो न स्थानिवत्। ज\उfffदिआधौ यथा– `सग्धिश्च मे'। अद भक्षणे क्तिन्। बहुलं छन्दसीति घस्लादेशः। `घसिभसोर्हलि च' इत्युपधालोपः। `झलो झली'ति सलोपः। झषस्तथोरिति तकारस्य धत्वम्। `झलाञ्जश् झशि' इति जश्त्वेन घकारस्य गकारः। समाना ग्धिः=अदनं-सग्धिः। समानस्य छन्दसीति संभावः। अत्र जश्त्वे कर्तव्ये उपधालोपो न स्थानिवत्। चर्विधौ यथा–जक्षतुः। घसेर्लिटि अतुस्। द्वित्वम्। `हलादिश्शेषः' `अभ्यासे चर्चे'ति जश्त्वम्। `कुहोश्चुः' इति जकारः। `गमहने'त्युपधालोपः। `खरि च' इति चर्त्वं ककारः। `शासिवसी'ति षः। अत्र चर्त्वे कार्ये उपधालोपो न स्थानिवत्। भाष्ये तु `पूर्वत्रासिद्धे न श्थानिव'दित्यवष्टभ्य द्विर्वचनसवर्णानुसारदीर्घजश्चरः प्रत्याख्याताः। किञ्च `दीर्घा दाचार्याणा'मित्युत्तरम्–`अनुस्वारस्य ययि परसवर्णः' `वा पदान्तस्य' `खरि च' `वावसाने' `अणोऽप्रगृह्रस्यानुनासिकः' इति पञ्चसूत्रीपाठ इति `हलो यमां यमि' इति सूत्रस्थबाष्यसंमतः सूत्रक्रमः। `एवं च `शिण्ड्ढी'त्यत्र न परसवर्णप्रसक्तिः। परसवर्णे कर्तव्ये षकारस्थानिकस्य जश्त्वस्यासिद्धत्वेन यय्परकत्वाऽभावादिति सर्वथापि सवर्णविधौ शिण्ड्ढीति नोदाहसरणमित्यास्तां तावत्। \र्\निति स्थानीति। अनेन सूत्रेण सुध्? य् इत्यत्र द्वित्वनिषेधे कर्तव्ये यकारस्य स्थानिवत्त्वनिषेध इत्यर्थः। एवं चाच्परकत्वाभावेन अनचि चेति निषेधाभावाद्धकारस्य द्वित्वं निर्बाधमिति भावः। तथाच सुध् ध् यिति स्थितम्।

तत्त्वबोधिनी

46 न पदान्त। पदान्तादीनां चरन्तानां द्वन्द्वः, ततो `विधि' शब्देन कर्मषष्ठ\उfffद्न्तस्य समासः। विधिशब्दश्च भावसाधनो-विधानं विधिरिति। स च द्वन्द्वान्ते श्रूयमाणत्वांत्प्रत्येकं संबध्यते। पदस्य चरमावयव इति। वृक्षं वेतीति वृक्षवीः, वृक्षं वातीति वृक्षवाः। तमाचष्टे वृक्षवयति। ततो विच्। वृक्षव्। इह `लोपो व्योर्वली'ति वलोपो न, टिलोपस्य णिलोपस्य वा स्थानिवत्त्वात्। न च `सुबन्ताण्णि'जिति हरदत्तादिमते अन्तर्वर्तिसुपा पदत्वात् `न पदान्ते'ति निषेधः शङ्क्यः, विधेयस्य लोपस्य पदानवयवत्वात्। `पदान्तस्य स्थाने विधौ ने'ति व्याख्याने तु `न पदान्ते'ति स्थानिवत्त्वनिषेधाद्वलोपः स्यादेवेत्यादि मनोरमायां स्थितम्। द्विर्वचनादौ चेति। यलोपादय आदिशब्दार्थः। `वरे' इति तु वरे योऽजादेशः स न स्थानिवदिति व्याख्येयम्। सहविवक्षाभावेऽपि निपातनाद्द्वन्द्वः सप्तम्यलुक्व।\र्\नथोदाहरणानि-पदान्ते-कानि सन्ति, कौ स्तः। इह यणावादेशयोः कर्तव्ययोः श्नसोरल्लोपो न स्थानिवत्। न चेकारौकारयोः स्थानिभूतादचः पूर्वत्वविरहादेवाऽल्लोपो न स्थानिवदिति वाच्यम्, `वाक्यादपोद्धृत्य पदानि संस्किल्लोपो न स्थानिवदिति उदाहार्यम्। अत्र हि वोपस्थान्यकारात्पूर्वत्वेन दृष्टत्वादोकारस्य। द्विर्वचने-सुद्धयुपास्यः। `नाजानन्तर्ये' इति निषेधाद्बहिरङ्गपरिभाषाऽत्र न प्रवर्तते, स्थानिवद्भावनिषेधसामथ्र्याच्च। एवं क्वचिदन्यत्राप्यूह्रम्। वरे-यायावरः। यातेर्यङन्ताद्यश्च यङ इति वरच्। `अतो लोपः'। स च `आतो लोप इटि चे'त्यालोपे कर्तव्ये न स्थानिवत्। यलोपे-यातिः। यातेर्यङन्तात् क्तिच्। अतो लोपः। यलोपः। अल्लोपस्य स्थानिवत्त्वादातो लोपः। यलोपः। न च पुनरालोपः शङ्कयः। चिणो लुङ्?न्यायेन आलोपस्यासिद्धत्वात्स्थानिवद्भावाच्च। ननु यदि यलोपविधिं प्रति स्थानिवत्त्वनिषेधस्तर्हि कथं-वाय्वोरिति ?। उच्यते-`असिद्धं बहिरङ्ग'मिति यणोऽसिद्धत्वान्न यलोपः। न च `नाजानन्तर्ये' इति निषेधः, अन्तरङ्गकार्ये अच आनन्तर्यं यत्र तत्रैव तदभ्युपगमात्। किं चात्र `स्वरदिर्घयलोपेषु लोपाजादेश एव न स्थानिव'दिति वार्तिकमस्ति। तेनाऽन्यः स्तानिवदेव भवतीति न दोषः। स्वरे-चिकीर्षकः। ईकारस्य `लिती'त्युदात्तत्वे कर्तव्ये सनोऽतो लोपो न स्थानिवत्। न च `लिती'त्यारम्भसामथ्र्य, `कारक' इत्यादौ सावकाशत्वात्। सवर्णानुस्वारयोः-शिण्ड्ढि। श्नसोरल्लोपो न स्थानिवत्। यद्यप्यनुस्वारो न स्थानिभूतादचः पूर्व इति तस्य परसवर्णे कर्तव्येऽल्लोपस्य स्थानिवत्त्वप्रसङ्ग एव नास्ति, तथापि स्थानिवद्वारानुस्वारोऽपि दृष्ट इत्यस्त्येव तत्प्रसङ्ग इत्याहुः। ननु सवर्णग्रहणमात्रेणानुस्वारोऽप्याक्षेप्तुं शक्यत इति किमनेन पृथगनुस्वारग्रहणेन ?। सत्यम्। पृथग्ग्रहणाभावे यत्र परसवर्णस्तत्रैवेति संभाव्येत। तथा च यत्र न परसवर्णप्रसङ्गः `शिषन्ती'त्यादौ तत्र स्थानिवद्भावं निषेद्धुमनुस्वारग्रहणम्। एवं यत्र वरे अजादेशस्य प्रसङ्गो नास्ति यातिरित्यादौ तत्र यलोपे स्थानिवद्भावं निषेद्धुं वरेग्रहणात्पृथग्यलोपग्रहणं कृतमिति ज्ञेयम्। दीर्घे-प्रतिदीव्ना, प्रतिदीव्ने। `हलि चे'ति दीर्घे कर्तव्येऽल्लोपो न स्थानिवत्। यणादेशस्तु स्थानिवद्भवत्येव। `लोपाजादेश एव न स्थानिव'दित्युक्तत्वात्। तेन `हलि च' `उपधायां चे'ति दीर्घाप्रवृत्त्या किर्योः गिर्योः विव्यतुरित्यादि सिद्धम्। जशि-सग्धिश्च मे। अदनं ग्धिः। तत्र अदेः क्तिनि `बहुलं छन्दसि' इति घस्लादेशः, `घसिभसोर्हलि चे'त्युपधालोपः। `झलो झलि' इति सलोपः। `झषस्तथोः' इति धत्वम्। धस्य `झलां जश्झशी'ति जश्त्वे कर्तव्ये उपधालोपो न स्थानिवत्। `समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु' इति सः। समाना ग्धिः-सग्धिः। न चात्र सलोपे धत्वे च कर्तव्ये पूर्वस्मादपीति स्थानिवद्भावात्सग्धिरिति रूपं न स्यादिति शङ्क्यम्; पञ्चमीसमासपक्षस्याऽनित्यत्वात्। तत्र `निष्ठायां सेटी'ति लिङ्गात्। तथाहि-तत्र `सेटी'ति पदं न तावदनिड्वायवृत्त्यर्थम्, णिजन्तात्तदसंभवात्। ननु `संज्ञापितः पशु'रित्यत्र `यस्य विभाषे'ति इण्निषेधे संभवत्येवानिट्?त्वं, `सनीवन्ते'ति विकल्पितेट्त्वादिति चेन्न; `यस्य विभाषे' त्यत्र `एकाचः' इत्यनुवृत्तेः। अन्यथा `दरिद्रिति ' इति इण्न स्यात् , तत्र `तनिपतिदरिद्रातिभ्यः' इति वार्तिकेन सनो विकल्पितेट्त्वात्। तस्मात्कालावधारणार्तं सेङ्ग्रहणम्। इटि कृते णिलोपो न तु ततः प्रागिति। अन्यथा `कारित'मित्यादौ णिलोपे कृते `एकाच उपदेशे'इति इण्निषेधः स्यादिति। यदि तु पूर्वस्माद्विधौ स्तानिवत्त्वं तर्हि णिचा व्यवधानान्निषेधस्तर्हि `पटयती'त्यत्रान्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वाज्जश्त्वं स्यात्। मैवम्। `इष्ठव'दित्यतिष्टया भसंज्ञया पदसंज्ञाया बाधाज्जश्तावऽप्रवृत्तेः। चरि-जक्षतुः, जक्षुः। घसेर्लिटि अतुस् उस् च। `गमहनेट'त्युपधालोपः। `खरि चे'ति चर्त्त्वं प्रति न स्थानिवत्। भाष्ये तु `पूर्वत्रासिद्धे न स्थानिव'दित्यवष्टभ्य द्विर्वचनसवर्णानुस्वारदीर्घश्चरः। प्रत्याख्याताः। तद्रीत्या तु सलोपे धत्वे च कर्तव्ये स्थानिवद्भावशङ्कैव नास्तीति बोध्यम्।

Satishji's सूत्र-सूचिः

TBD.