TBD.
छ इत्येतस्य सतुक्कस्य, वकारस्य च स्थाने यथासङ्ख्यम् शूट्ः इत्येतावादेशौ भवतः, अनुनासिकादौ प्रत्ययै परतः क्वौ झलादौ च क्ङिति। प्रश्नः। विश्नः। अन्तरङ्गत्वात् छे च 6-1-73 इति तुकि कृते सतुक्कस्य शादेशः। वकारस्य ऊट्ः स्योनः। सिवेरौणादिके न प्रत्यये लघूपधगुणात् पूर्वमूट्ः क्रियते। तत्र कृते ऽन्तरङ्गत्वाद् यणादेशो नानाश्रयत्वात् च न वार्णादाङ्गं बलीयः भवति। क्वौ छस्य शब्दप्राट्। क्वब्वचि इत्यादिनौणादिकः क्विप् दीर्घश्च। गोविट्। वकारस्य अक्षद्यूः। हिरण्यष्ठ्यूः। असिद्धं बहिरङ्गमन्तरङ्गे इति नाजानन्तर्ये इति प्रतिषिध्यते। झलादौ छस्य पृष्टः। पृष्टवान्। पृष्ट्वा। वकारस्य द्यूतः। द्यूतवान्। द्यूत्वा। क्ङिति इत्येव, द्युभ्यास्। द्युभिः। केचिदत्र क्ङिति इति न अनुवर्तयन्ति। कथं द्युभ्याम्, द्युभिः इति ऊठि कृते? दिव उत् 6-1-131 इति तपरत्वान् मात्राकालो भविष्यति। छशां षः इत्यत्र छग्रहणं न कर्तव्यम्। अनेन एव हि सर्वत्र शकारो विधीयते। ऊठष्ठित्करणम् एत्यधत्यूठ्सु 6-1-189 इति विशेषणार्थम्। वाह ऊट्ः 6-4-139 इत्ययम् अपि ठिदेव।
TBD.
846 सतुक्कस्य छस्य वस्य च क्रामात् श् ऊठ् इत्यादेशौ स्तोऽनुनासिके क्वौ झलादौ च क्ङिति. पृच्छतीति प्राट्. आयतं स्तौतीति आयतस्तूः. कटं प्रवते कटप्रूः. जूरुक्तः. श्रयति हरिं श्रीः..
388 च्छ्वोः शूडनुनासिके च। च्छ् व् अनयोद्र्वन्द्वात्षष्ठीद्विवचनम्। छकारात्प्राक्तुकः श्चुत्वेन चकारस्य निर्देशः। `शूठ' इति छेदः। श् ऊठ् अनयोः समाहारद्वन्द्वात्प्रथमा। चकारेण क्विझलोः क्ङितीत्यनुवर्तते। तदाह- - सतुक्कस्येत्यादि। यथा विश्नः प्रश्नः। विच्छधातोः प्रच्छधातोश्च औणादिके नङ्प्रत्यये अन्तरङ्गत्वात् `छे चे'ति तुकि कृते सति सतुक्कस्य छस्य शकार आदेशः। वकारस्य ऊठमुदाहरति– खौनातीति। खव् ना तीति स्थिते वकारस्य ऊठ, ठकार इत् `एत्येधत्यूठ्सु' इति वृद्धिरिति भावः। खौनीतः खौनन्तीत्यादि। खव् ना हि इति स्थिते `हलः श्नश्शानज्झौ'इतिशानजादेशमाशङ्क्याअह– शानचः परत्वादिति। हेठ चेति। हेठधातुरपि भूतप्रादुर्भावे वर्तते इत्यर्थः। ग्रह उपादाने इति। अदुपधः। स्वरितेत्त्वादुभयपदी। किति ङिति च संप्रसारणं स्मारयति– ग्रहिज्येति। गृह्णाति गृह्णीते इति। श्नाप्रत्ययस्य ङित्त्वाद्रेफस्य संप्रसारणे पूर्वरूपमिति भावः। णलि द्वित्वे कृते `लिट\उfffद्भ्यासस्ये'ति संप्रसारणे उरदत्त्वे रपरत्वे हलादिशेषे अभ्यासचुत्वे उपधावृद्धिः। जग्राह।अतुसादौ क्ङति परत्वात् `ग्रहिज्ये'ति संप्रसारणे कृते द्वित्वादि। जगृहतुः जगृहुः। जग्रहिथ। जगृहुथुः जगृह। जग्राह- जग्रह जगृहिव जगृहिम। जगृहे जगृहाते जगृहिरे। जगृहिषे जगृहाथे जगृहिढ्वे- जगृहिध्वे। जगृहे जगृहिवहे जगृहिमहे।
339 च्छ्वोः शूडनु। `च्छ्वो'रिति सतुक्कस्यानुकरणम्। चुत्वेन तकारस्थाने चकार इत्याह– सतुक्कस्येति। एवं च सूत्रे छकारात्पूर्वं चकारो ज्ञेयः। सतुक्कस्य किम् ?। विच्छप्रच्छायां नङ्प्रत्यये छकारस्य शकारे कृते तुकोऽश्रवणं यथा स्यात्। अकृतव्यूहपरिभाषा त्वनित्या, अस्मादेव सतुक्कग्रहणात्। तेनातिक्रान्तो भवकन्तमतिभवकानित्यादि सिद्धमित्याहुः। सूत्रस्थेन चशब्देन क्विझलोः क्ङितीत्यनुकृष्यत इत्याह— क्वावित्यादि। ग्रहो लिटि दीर्घः। एकाचः किम् ?। जाग्रहिता। जाग्रहिष्यति– इत्यादौ यङ्लुकि माभूत्। विहितस्येति किं ?। ग्राहितम्। न चाऽत्र णिलोपस्य स्थानिवद्भावाद्ग्रहेः परत्वं कनेति वाच्यं, दीर्घविधौ स्तानिवत्त्वनिषेधात्। `त्रैपादिकदीर्घविधावेव, स्थानिवत्त्वनिषेध' इत्यभ्युपगमे तु विहितविशषमं व्यर्थमेवेत्याहुः। प्रकृतस्येटो ग्रहणाद्ग्राहिता ग्राहिष्यत इत्यादौ चिण्वदिटो न दीर्घः।
TBD.