Table of Contents

<<1-3-1 —- 1-3-3>>

1-3-2 उपदेशे ऽजनुनासिक इत्

प्रथमावृत्तिः

TBD.

काशिका

उपदिश्यते ऽनेन इत्युपदेशः शास्त्रवाक्यानि, सूत्रपाठः, खिलपाठश्च। तत्र यो ऽचनुनासिकः स इत्संज्ञो भवति। एध। स्पर्ध। प्रतिज्ञानुनासिक्याः पाणिनीयाः। उपदेशे इति किम्? अभ्र आं अपः। अचिति किम्? अतो मनिन्क्वनिब्वनिपश्च 3-2-74। अनुनासिकः इति किम्? सर्वस्य अचो मा भूत्। इत्प्रदेशाः आदितश्च 7-2-16 इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

28 उपदेशेऽनुनासिकोऽजित्संज्ञः स्यात्. प्रतिज्ञानुनासिक्याः पाणिनीयाः. लण्सूत्रस्थावर्णेन सहोच्चार्यमाणो रेफो रलयोः संज्ञा..

सिद्धान्तकौमुदी

<< 1-3-21-2-27 >>
उपदेशेऽनुनासिकोऽजित्संज्ञः स्यात् । प्रतिज्ञानुनासिक्याः पणिनीयाः । ’लण्’ (प्र०सू०६) सूत्रस्थावर्णेन सहोच्चार्यमाणो रेफो रलयोः संज्ञा । प्रत्याहारेष्वितां न ग्रहणम् । ’अनुनासिकः’ इत्यादिनिर्देशात् । न ह्यत्र ककारे परेऽच्कार्यं दृश्यते । ’आदिरन्त्येन–’ 1-1-71 इत्येतत्सूत्रेण कृता संज्ञा प्रत्याहारशब्देन व्यवह्रियन्ते ।

बालमनोरमा

5 लण्सूत्रे अकारश्चेति प्रतिज्ञातम्। तस्य अकारस्य अनन्त्यत्वादहल्त्वाच्च हलन्त्यमिति इत्संज्ञायामप्राप्तायां तत्प्रापकं सूत्रमाह–उपदेशे। संज्ञाप्रस्तावात्संज्ञेति। लभ्यते। तदाह–उपदेशे अनुनासिक इत्यादिना। सूत्रे अजिति कुत्वाऽभाव आर्षः। `अजित्संज्ञः स्या'दिति विवरणे कुत्वाभावोऽसन्देहार्थः। ननु मुखेन नासिकया चोच्चार्यमाणो वर्णोऽनुनासिक इत्यनुपदमेव वक्ष्यते। शास्त्रकृता च एते कतिपयवर्णास्तथोच्चारिताः, इतरे तु केवलं मुखेन उच्चारिता इति कथमिदानीन्तनैरवगन्तव्यमित्यत आह–प्रतिज्ञानुनासिक्याः पाणिनीया इति। प्रतिज्ञायते अभ्युपगम्यत इति प्रतिज्ञा। नित्यस्त्रीलिङ्गोऽयम्। स्त्रियामित्याधिकारे `आतश्चोपसर्गे' इकति कर्मण्यङ्?। अनुनासिकस्या भावः आनुनासिक्यम्। प्रतिज्ञा आनुनासिक्यं येषां ते प्रतिज्ञानुनासिक्याः पाणिनिशिष्या इत्यर्थः। शिष्यपरंपरया शास्त्रकृतां तथाविधमुच्चारणमिदनींन्तनानां सुगममिति यावत्। तदेवं लण्सूत्रे अकारस्य अनुनासिकत्वादित्संज्ञा सिद्धा। ततः किमित्यत आह– लण्सूत्रस्थेति। लण्सूत्रे तिष्ठतीति लण्सूत्रस्थः, स चासाववर्णश्च लण्सूत्रस्थावर्णः, तेन सहोच्चार्यमाणो रेफो र इत्येवंरूपो रेफलकारयोः संज्ञेत्यर्थः। वस्तुतस्तु रप्रत्याहार एव नास्तीति शब्देन्दुशेखरे व्यक्तम्। ननु आदिरन्त्येनेति सूत्रे मध्यगानामादेश्च संज्ञेति स्थितम्। एवंच अजादिप्रत्याहारेषु संज्ञाकोटिप्रविष्टानामन्त्यानामितां ग्रहणाऽभावेऽपि णकारादीनामपि मध्यगत्वाऽविशेषाद्ग्रहणं स्यात्। ततश्च रलयोः संज्ञेति पूर्वग्रन्थे रलयोरिति न्यूनं, टकारस्यापि मध्यगत्वेन ग्राह्रत्वादित्यत आह–प्रत्याहारेष्वितां न ग्रहणमिति। प्रत्याहारेषु=अजादिसंज्ञासु मध्यवर्तिनामपि इतां न ग्रहणमित्यर्थः। कुत इत्यत आह–अनुनासिक इत्यादिनिर्देशादिति। आदिना `तृषिमृषिकृषेः काश्ग्रपस्य' इत्यादिसंग्रहः। कथमयं निर्देश उक्तार्थे हेतुरित्यत आह–न हीति। अत्र अनुनासिकशब्दे ककारे परे इकारस्य अच्प्रयुक्तं कार्यम् `इको यणची'ति यणादेशो न दृश्यते हीति योजना। यदि हि अजादिप्रत्याहारेषु इतामपि ग्रहणं स्यात्तर्हि अच्?प्रत्याहारे ॠलृक्? इति ककारस्यापि प्रविष्टत्वेन ?च्त्वात्तस्मिन् परे इकारस्य `इको यणचि' इति यणादेशे `लोपो व्योर्वलि' इति लोपे `अनुनास्क' इति स्यात्। इकारो न श्रूयते। श्रूयते च। अतः प्रत्याहारेष्वितां न ग्रहणमिति विज्ञायत इति भावः। यत्तु ॠलृगिति ककारस्य अच्?प्रत्याहारप्रविष्यत्वेऽपि `प्रत्ययस्थात्' इत्यादिना इत्वविधिसामथ्र्यादेव यण् लोपश्च न भवति। अन्यथा लाघवाल्लोपमेव विदध्यात्। अतः प्रत्याहारेष्वितां न ग्रहणमित्यत्र अनुनासिक इत्यादिनिर्देशो न लिङ्गमित्याहुः। तन्न, `प्रत्ययस्थात्कात्?पूर्वस्यातो लोप आप्यसुपः' इति लोपविधौ वर्णादिक्यप्रसङ्गात्। प्रत्याहारशब्दस्याऽप्रसिद्धार्थत्वादाह– आदिरन्त्येनेत्यादिना। प्रत्याह्यियन्ते संक्षिप्यन्ते वर्णा इति व्युत्पत्तेरिति भावः। नच अणुदित्सूत्रसिद्धासु ऐउ इत्यादिसंज्ञास्वतिप्रसङ्गः शङ्क्यः, योगरूढ\उfffदाश्रयणात्। वैयाकरणप्रसिद्धिवशाच्च तथा रूढिरिति भावः। तत्र वर्णसमाम्नायसूत्रेषु पूर्वेण णकारेण एकः प्रत्याहारः-अण्। ककारेण त्रयः-अक् इक् उक्। ङकारेण एकः-एङ्?। चकारेण चत्वारः-अच् इच् एच् ऐच्। टकारेण एकः-अट्। परेण णकारेण त्रयः-अण् इण् यण्। मकारेण चत्वारः-अम् यम् ञम् ङम्। ञकारेण एकः-यञ्। षकारेण द्वौ-झष् भष्। शकारेण षट्-अश् हश् वश् झश् जश् बश्। वकारेण एकः-छव्। यकारेण पञ्च-यय् मय झय् खय् चय्। रेफेण पञ्च-यर् झर् खर् चर् शर्। लकारेण षट्-अल् हल् वल् रल् झल् शल्। अकारेण एको रप्रत्याहारः इति वार्णसमाम्नायिकाः प्रत्याहाराश्चतुश्चत्वारिंशत्, एतेषामेव शास्त्रे उपयोगात्। इङित्यादिप्रत्याहारास्तु प्रयोजनाऽभावान्न भवन्ति, शास्त्रे तद्व्यवहाराऽभावात्। अत्राऽस्मदीया सङ्ग्रहकारिका– कणाभ्याम्।

तत्त्वबोधिनी

7 उपदेशेऽजनु। उपदेशनमुपदेशः। भावे घञ्। उपदेशे किंम्?। अभ्र आँ अपः। सप्तम्यर्थद्योतकोऽत्राङ्। `आङोऽनुनासिकश्छन्दसि' इत्याकारोऽनुनासिकः। यद्यपीह `उञ् ॐ' इत्यत्रेवानुनासिकविधानसामथ्र्यान्नेत्त्वमिति सुवचम्, तथाप्युत्तरार्थमवश्यं कत्र्तव्यमुपदेशग्रहणं स्पष्टप्रतिपत्तये इहैव कृतम्। अच् किम् ?। मनिनो मकारस्य मा भूत्। नच `हलन्त्यम्' इत्यन्त्यग्रहणसामथ्र्यादनन्त्यस्य मकारस्य न भवेदिति वाच्यम्, आलच्-त्राप्रत्ययादावतिप्रसङ्गवारणेन तस्य चरितार्थत्वात्। अनुनासिक इति किम् ?। `ईक्ष दर्शने'। ईक्षितः। सत्यां हीत्संज्ञायां `\उfffदाआदितो निष्ठायाम्' इतीण् न स्यात्। यद्यप्यत्रोपजीव्यत्वादनुनासिकसंज्ञा प्रथमं वक्तुमुचिता, तथापि नासिकामनुगत इति योगाश्रयणेनैव गतार्थत्वादनुनासिकसंज्ञासूत्रं मन्दप्रयोजनमिति ध्वनयितुं नेहोपन्यस्तम्। नचैवं `यरोऽनुनासिके-' इत्यत्र यरः पदान्तस्यानुनासिकशब्दे परेऽनुनासिकशब्दः स्यादित्यर्थः प्रसज्येत, `स्वं रूपम्-' इति परिभाषाया अनुपस्थितिकल्पबनात्सूत्रमतेऽपि दोषाऽभावात्। ननूक्तनिर्देशाश्रयमे प्रतिपत्तिगौरवमिति चेत्, अतएव `निष्प्रयोजन' मित्यनुक्त्वा `मन्दप्रयोजन'मित्युक्तम्। प्रतिज्ञेति। प्रतिज्ञायत इति प्रतिज्ञा। `आतश्चोपसर्गे' इति कर्मण्यङ्। अनुनासिकस्य भाव आनुनासिक्यम्। `गुणवचनब्राआहृणादिभ्यः-' इति ष्यञ्। प्रतिज्ञा आनुनासिक्यं येषामिति विग्रहः। केचित्तु-प्रतिज्ञानं प्रतिज्ञा, सा अस्यास्तीति प्रतिज्ञम्। अर्शाअद्यच्। प्रतिज्ञमानुनासिक्यमेषामिति विगृह्णन्ति। यद्यपि सूत्रकारकृतोऽनुनासिकपाठ इदानीं परिभ्रष्टः, तथापि वृत्तिकारादिव्यवहारबलेन यथाकार्यं प्राक्स्थित इत्यनुमीयत इति भावः। विदन्ति वा पाणिनीयाः। `तदधीते-' इत्यणः `प्रोक्ताल्लुक्' इति लुक्। रलयोरिति न्यूनं, टकारस्यापि मध्यगत्वादत आह-प्रत्याहारेष्विति। अनुनासिक इत्यादीति। आदिशब्देन `पापाणके कुत्सितैः', `एङः पदान्तादति' इत्यादि ग्राह्रम्। प्रत्याहारशब्देनेति। प्रत्याह्यियन्ते सङ्क्षिप्यन्ते वर्णा यत्रेति प्रत्याहारः। `करणाधिकरणयोश्च' इति ल्युटि प्राप्ते `कुत्यल्युटो बहुल'मिति बहुलग्रहणादधिकरणे घञ्। यद्युपि योगमात्रमकारादिसंज्ञास्वतिप्रसक्तन्तथापि योगरूढिरिति भावः।

Satishji's सूत्र-सूचिः

TBD.