Table of Contents

<<1-4-101 —- 1-4-103>>

1-4-102 तान्येकवचनाद् विवचनबहुवचनान्येकशः

प्रथमावृत्तिः

TBD.

काशिका

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

384 लब्ध प्रथमादि संज्ञानि तिङस्त्रीणि त्रीणि प्रत्येकमेकवचनादि संज्ञानि स्युः..

बालमनोरमा

11 अथ प्रथमादिपुरुषेषु एकैकस्मिन्पुरुषे प्रत्ययत्रिकात्मके युगपत्पर्यायेण वा एकैकप्रत्यये प्राप्ते `द्व्येकयोर्दविवचनैकवचने' `बहुषु बहुवचन'मिति व्यवस्तार्थमेकवचनादिसंज्ञामाह–तान्येक। तच्छब्देन पूर्वसूत्रोपात्तानि प्रथममध्यमोत्तमाख्यानि तिङस्त्रीणि त्रीणि परामृश्यन्ते। तदाह- - लब्धप्रथमादिसंज्ञानीति। `एकश'इत्यस्य विवरणं–प्रत्येकमिति। `सङ्ख्यैकवचनाच्च वीप्साया'मिति शसिति भावः।

तत्त्वबोधिनी

10 `तानी'त्यस्य व्याख्यानं– लब्धेत्यादि। अन्यथैकसंज्ञाधिकारात्प्रथमादिसंज्ञानामेकवचनादिसंज्ञानां च पर्यायः स्यात्। इष्टापत्तौ तु अत्तेर्लोटो `मेर्नि' रिति कृते एकत्वविवक्षायामुत्तमसंज्ञाऽभावात् `आडुत्तमस्ये'त्यस्याऽप्रवृत्त्या अन्नीत्यादिप्रयोगोऽपि साधुः स्यादिति भावः। प्रत्येकमिति। यत्तु प्राचा `\तेकैकश' इत्युक्तं,तदयुक्तम्। शसैव वीप्साया उक्तत्वेन द्विर्वचनाऽयोगात्, `येन नाप्राप्तिन्यायेन द्विर्वचनापवादः श' सिति सिद्धान्तात्। तथा `सुपःर' इति सूत्रेऽप्येककैकश इति प्राचोक्तमयुक्तमेव। एतच्च मनोरमाग्रन्थानुरोधेनोक्तम्॥ अन्ये तु एकैकमेवैकैकशः, स्वार्थे शस्, न त्वत्र वीप्सायाम्। न च स्वार्थे यः शस् स आकरग्रन्थान्नावगम्यत इति वाच्यम्, `एकां कपिलामेकैकशः सहरुआकृत्वो दत्त्वे'ति भाष्यात्, शसन्तस्य प्रत्येकमित्यर्थकत्वेन कैयटेन व्याख्यानाच्च स्वार्थिकस्यापि शसोऽवगम्यमानत्वात्। ततश्चैकैकश इति प्राचोक्तमयुक्तमिति यदुक्तं तदेवाऽयुक्तमित्याहुः।

Satishji's सूत्र-सूचिः

285) तान्येकवचनद्विवचनबहुवचनान्येकशः 1-4-102

वृत्तिः लब्‍धप्रथमादिसञ्ज्ञानि तिङस्‍त्रीणि त्रीणि वचनानि प्रत्‍येकमेकवचनादिसञ्ज्ञानि स्‍युः । Each of the six triads formed by 1-4-101, is divided, according to number, into three classes, viz., एकवचनम् (singular), द्विवचनम् (dual), and बहुवचनम् (plural).