Table of Contents

<<7-4-52 —- 7-4-54>>

7-4-53 यीवर्नयोर् दीधीवेव्योः

प्रथमावृत्तिः

TBD.

काशिका

यकारादौ इवर्णादौ च परतो दीधीवेव्योः लोपो भवति। यकारादौ आदीध्य गतः। आवेव्य गतः आदीध्यते। आवेव्यते। इवर्णादौ आदीधिता। आवेविता। लिङि आदीधीत। आवेवीत। यीवर्णयोः इति किम्? आदीध्यनम्। आवेव्यनम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

176 इत्यत्र इकार उच्चारणार्थः। `तासस्त्यो'रित्यतो लोप इत्यनुवर्तते। `अलोऽन्त्यस्ये'त्यन्त्यस्य' लोपः। तदाह— एतयोरित्यादि। `आदीध्यगतः' `आवेव्य गतः'। अत्र ल्यपि ईकारस्य लोपः। इवर्णे उदाहरणं वक्ष्यते। इति लोपमिति। लट इडादेशे दीधी इ इत्यत्र `यीवर्णयो'रिति इवर्णपरत्वात्प्राप्तं लोपं परमपि बाधित्वा नित्यत्वाट्टेरित्त्वमित्यर्थः। कृते अकृते च लोपे प्रवृत्तेरेत्त्वं नित्यम्। तस्मिन्कृते यीवर्णपरकत्वाऽभावान्न लोप इति भावः। गुणनिषेध इति। दीधी– आमिति स्थिते `सार्वधातुकाद्र्धधातुकयो'रिति प्राप्तस्य निषेध इत्यर्थः। दीधितेति। इटि कृते इवर्णपरकत्वादीकारस्य लोप इति भावः। दीधीताम् दीध्याताम् दीध्यताम्। दीधीष्व दीध्याथाम्। दीधीध्वम्। दीध्यै दीध्यावहैदीध्यामहै। अदीधीत अदीध्याताम् अदीध्यत। अदीधीथाः अदीध्याथाम् अदीधीद्वम्। अदीधि ?दीधीवहि अदीधीमहि। दीधीत् दीधीयाताम्। दीधिषीष्ट दीधिषीयास्ताम्। दीधिषीरन्। अदीधिष्ट। अदीधिष्यत। वस्तुतस्तु छन्दसि दृष्टानुविधित्वादेषां पञ्चानां लोकानुसारेण रूपवर्णनमनुचितम्। वेवीङ वेतिना तुल्ये इति। दीधीवद्रूपाणि। इति जक्षित्यादयः।षस षस्ति स्वप्ने इति। षोपदेशावेतौ। द्वितीय इदित्। तत्र षसधातोरुदाहरति–सस्तीति। ससन्तीति. अनभ्यस्तत्वादन्तादेश एवेति भावः। एत्त्वाभ्यासलोपौ मत्वा आह– सेसतुरिति। सेसुः। ससिथ सेसथुः सेस। ससास– ससस सेसव सेसिम। ससिता। ससिष्यति। सस्तु–सस्तात् सस्ताम् ससन्तु। सस् हि इति स्थिते हेर्धिभावे `धि चे' ति सलोपं मत्वाह–सधीति। तत्र `धि इत्यस्य स्थानिवत्त्वेन हित्वात् `अतो हे'रिति लुकमाशङ्क्याह— पूर्वत्रेति। सस्तात् सस्तम् सस्त। ससानि ससाव ससाम। लङ्याह– असदिति। असस् त इति स्थिते हल्ङ्यादिना तकारलोपे `तिप्यनस्ते'रिति सस्य दत्वमिति भावः। असस्तामिति। अससन्नित्यपि ज्ञेयम्। लङः सिपि तु असस् स् इति स्थिते हल्ङ्यादिना तकारलोपे `तिप्यनस्ते'रिति सस्य दत्वमिति भावः। असस्तामिति। अससन्नित्यपि ज्ञेयम्। लङः सिपि तु असस् स् इति स्थिते `सिपि धातो'रिति रुर्वा। पक्षे दः। हल्ङ्यादिलोपः। तदाह– असः असदिति। असस्तम् असस्त। अससम् असस्व असस्म। लिङ्याह– सस्यादिति। सस्याताम्। सस्यास्तामित्यादि। लुङ्याह–असासीदिति। `अतो हलादे'रिति वृद्धिविकल्प इति भावः। अससिष्यत्। अत षस्तिधातोरुदाहरति– सन्तीति। इद#इत्त्वान्नुम्। इदित्त्वान्नुम्। `नश्चे'त्यनुस्वारे संस् त् ति इति स्थिते, `स्को'रिति सलोपे,परसवर्णे, `झरो झरी'ति प्रथममतकारस्य लोपविकल्पे , एकतं द्वितं वा रूपमिति भावः। संस्तन्तीति। अनभ्यस्तत्वादन्तादेश एवेति भावः। सिपि संस्त् सि इति स्थिते `स्को'रिति सलोपे अनुस्वारस्य परसवर्णो नकारः। सवर्णपरत्वाऽभावात् `झरो झरी'ति तकारलोपे न। सन्त्सि सन्थः सन्थ। संस्त्मि संस्त्वः संस्त्मः। ससंस्त ससंस्ततुः। ससंस्तिथ। ससंस्तिव ससंस्तिम। संस्तिष्यति। सन्तु–सन्तात् सन्ताम् संस्तन्तु। संस्त् हि इति स्थिते हेर्धिभावे `स्को'रिति सलोपे परसवर्णे सन्त् धि इति स्थिते `झरो झरी'ति तकारस्य लोपः। सन्धि। लोपाऽभावे तकारस्य जश्त्वे सन्द्धि–सन्तात् सन्तम् सन्त। संस्तानि संस्ताव संस्ताम। लङस्तिपि असंस्त् त् इति स्थिते हल्ङ्यादिलोपे संयोगादिलोपे संयोगान्तस्य लोपे–असन्। असन्ताम् असंस्तन्। असन् असन्तम् असन्त। असंस्तम् असंस्त्व असंस्त्म। संस्त्यात्। असंस्तीत्। असंस्तिष्यत्। मतान्तरमाह—बहूनामिति। इत्याश्रित्येति। तथा च प्रकृते लटस्तिपि संस्त् ति इति स्थिते झलि परे अनुस्वारसकारतकाराणां त्रयाणां समवायात् स् त् इत्यनयोः संयोगसंज्ञाविरहात् `स्को'रिति लोपाऽभावात् संस्तीत्याद्यूह्रमित्यर्थः। वश कान्ताविति। कान्तिरिच्छा। सेट्। वष्टीति। `व्रश्चे'ति शसय् षत्वे तकारस्य ष्टुत्वेन टः। उष्ट इति। ङिति `ग्रहिज्या' इति संप्रसारणे रूपमिति बावः। उवाशेति। लिटि अकिति `लिट\उfffद्भ्यासस्ये'ति संप्रसारणमिति भावः। ऊशतुरिति। परत्वाद्ग्रहिज्येति संप्रसारणे कृते द्वित्वे हलादिशेषे सवर्णदीर्घ इति भावः। उवशिथ ऊशथुः ऊश। उवाश– उवश ऊशिव ऊशिम। वशितेति। अनेन सेट्त्वं द्योतितम्। वशिष्यति। उष्टामिति। उशन्त्वत्यपि ज्ञेयम्। उड्ढीति। वश् हि इति स्थिते धिबावे अपित्त्वेन ङित्त्वाद्ग्रहिज्येति संप्रसारणे शस्य षत्वे धस्य ष्टुत्वेन ढकारे षस्य जश्त्वेन ड इति भावः। वशानि वशाव वशाम। लङ्याह–अवडिति। हल्ङ्यादिलोपे शस्य षः, षस्य डः, तस्य चत्र्वविकल्प इति भावः। औशन्निति। अवट् औष्टम् औष्ट। अवशमिति। पित्त्वान्न संप्रसारणमिति भावः। औ\उfffदा औश्म। वध्याशीर्लिङो उश्यादिति सिद्धवत्कृत्य आह– उश्याताम् उश्यास्तामिति। अवशीत् अव्राशीत्। अवशिष्यत्। तदेवं दीधीह् वेवीङ् षस षस्ति वश एते पञ्च धातवस्छान्दसा एवेति माधवादयः। तत्र `दीधीवेवीटा'मिति सूत्रे `दीधीवेव्योश्छन्दोविषयत्वा'दिति भाष्यम्। `जक्षित्यादयः ष' डिति सूत्रे `षसिवशी छानदसा'विति भाष्यम्। एतद्भाष्यादेव षस्तिधातोर्नाऽत्र पाठ इति प्रतीयते। अत एव `षस शास्ति स्वप्ने' इति पाठमभ्युपगमस्य स्तिपा निर्देशेन शास एवाथभेदात्पुनः पाठ इति कैयट आह। अत्र वशधातोरपि छान्दसत्ववचनं प्रायिकम्, `वष्टि भागुरिरल्लोपं `जयाय सेनान्यमुशन्ति देवाः' इत्यादिप्रयोगदर्शनादित्यास्तां तावत्। चर्करीतं चेति। धातुपाठे गणसूत्रमिदम्। `चर्करीत'मिति यङ्लुगन्तस्य संज्ञा पूर्वाचार्यसिद्धा। तदाह–यङ्लुगन्तमदादाविति। तेन यङ्लुगन्ताच्छबेव विकरणः, तस्य लुक्, न तु श्यनादि विकरणान्तरम्। `परस्मपैदिन' इत्युपक्रमाद्यङ्लुगन्तस्य परस्मैपदित्वमेव। ह्नुङ् अपनयने इति। अनिडयम्। ह्नुते इति। ह्नुवाते ह्नुवते इत्यादि। जुह्नुवे इति। जुह्नुवाते जुह्नुविरे। क्रादिनियमादिट्। जुह्नुविषे। जुह्नुविवहे। ह्नोता। ह्नोष्यते। ह्नुताम्। ह्नुष्व। ह्नवै ह्नवावहै। अह्नुत। इति सिद्धवत्कृत्य विधिलिङ्याह– ह्नुवीतेति आशीर्लिङ्याह– ह्नोषीष्टेति। लुह्राह–अह्नोष्टेति। इति

बालमनोरमा

यां लुग्विकरणम्।

तत्त्वबोधिनी

146 यीवर्णयोः। `य्वो'रित्युक्तेऽपीष्टसिद्धौ यकारेकारयोरिति स्फुटप्रतिपत्तिर्न स्यादिति वर्णग्रहणं कृतम्। यिश्च इवर्णश्च यीवर्णौ, तयोः। यिश्चेति इकार उच्चारणार्थो न तु विवक्षितस्तदाह— यकारे इवर्णे चेति। `यिवर्णयो'रिति पाठस्तूचितः। लोपं बाधित्वेति। रलोपस्य तूदाहरणम्। आदीध्य गतः। आवेव्य गतः। दीधिता। दीधिष्यते। वेविता। वेविष्यते। यीवर्णयोरिति किम् ?। आदीध्यनम्। आवेव्यनम्। षस। असदिति। `तिप्यनस्ते'रितिदत्वम्। अस इति। `सिपि धातो' रिति रुर्वा। पक्षे दः। सन्तीति। इदित्त्वान्नुमि सन्?सत्?ति इति स्थिते `स्को'रिति सलोपे `झरो झरि सवर्णे' इति तकारस्य वा लोपः। संस्ति संस्त इति। इहापि पूर्ववत्तलोपो वा बोध्यः। वश कान्तौ। भाषायामप्यस्य प्रयोगो दृश्यते। `वष्टि भागुरिरल्लोपं', `जयाय सेनान्यमुशन्ति देवाः इति। (ग)चर्करीतं च। गणसूत्रमिदम्। चर्करीतमिति यङ्लुगन्तस्य पूर्वाचार्याणां संज्ञा। अदादौ बोध्यमिति। तेन यङ्लुगन्तेषु `अदिप्रभृतिभ्यः' इति शपो लुग् भवतीति भावः। प्राचा तु `चर्करीत'मिति यङ्लुगन्तं परस्मैपदमित्युक्तं, तच्चेहाऽप्रकृतत्वादुपेक्षितम्।\र्\निति तत्त्वबोधिन्याम् अदादयः।

Satishji's सूत्र-सूचिः

TBD.