Table of Contents

<<1-1-55 —- 1-1-57>>

1-1-56 स्थानिवदादेशो ऽनल्विधौ

प्रथमावृत्तिः

TBD.

काशिका

स्थान्यादेशयोः पृथक्त्वात् स्थान्याश्रयं कार्यम् आदेशे न प्राप्नोति इत्ययमतिदेश आरभ्यते। स्थानिना तुल्यं वर्तते इति स्थानिवत्। स्थानिवदादेशो भवति स्थान्याश्रयेषु कार्येष्वनलाश्रयेषु, स्थान्यलाश्रयाणि कार्याणि वर्जयित्वा। न अल्विधिरनल्विधिः इत्यर्थः। किम् उदाहरणम्? धात्वङ्गकृत्तद्धिताव्ययसुप्तिङ्पदाऽदेशाः। धात्वादेशो धातुवद् भवति। अस्तेर् भूः 2-4-52)। ब्रुवो वचिः (*2,4.53। आर्धधातुकविशये प्रागेवाऽदेशेषु कृतेषु धातोः 3-1-91 इति तव्याऽदयो भवन्ति। भविता। भवितुम्। भवितव्यम्। वक्ता। वक्तुम्। वक्तव्यम्। अङ्गाऽदेशो ऽङ्गवद् भवति केन। काभ्याम्। कैः। किमः कः 7-2-103 इति काऽदेशे कृते ऽङ्गाऽश्रया इनदीर्घत्वाइस्भावाः भवन्ति। कृदादेशः कृद्वद् भवति प्रकृत्य। प्रहृत्य। क्त्वो ल्यबादेशे कृते ह्रस्वस्य पिति कृति तुक् 6-1-71 इति तुग् भवति। तद्धिताऽदेशः तद्धितवद् भवति दाधिकम्। अद्यतनम्। कृत्तद्धितसमासाश्च 1-2-46 इति प्रातिपदिकसंज्ञा भवति। अव्ययाऽदेशो ऽव्ययवद् भवति प्रस्तुत्य। प्रहृत्य। उपहृत्य। उपस्तुत्य। अव्ययादाप्सुपः 2-4-82 इति सुब्लुग् भवति। सुबादेशः सुब्वद् भवति वृक्षाय। प्लक्षाय। सुपि च 7-3-102 इति दीर्घत्वं भवति। तिङादेशः तिङ्वद् भवतिअकुरुताम्। अकुरुतम्। सुप्तिङनतं पदम् 1-4-14 इति पदसंज्ञा भवति। पदाऽदेशः पदवद् भवति ग्रामो वः स्वं। जनपदो नः स्वम्। पदस्य 8-1-16 इति रुत्वं भवति। वत्करनं किम्? स्थानी आदेशस्य संज्ञा मा विज्ञायि इति। स्वाऽश्रयम् अपि यथा स्यात्। आङो यमहनः 1-3-28 आहत, आवधिष्ट इति आत्मनेपदम् उभयत्र अपि भवति। आदेशग्रहणं किम्? आनुमानिकस्य अप्यादेशस्य स्थानिवद्भावो यथा स्यात्। पचतु एरुः 3-4-86। अनल्विधौ इति किम्? द्युपथितदादेशा न स्थानिवद् भवन्ति। द्यौः, पन्थाः, सः इति। हल्ङ्याब्भो दीर्घात् सुतिस्यपृक्तं हल् 6-1-68 इति सुलोपो न भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

144 आदेशः स्थानिवत्स्यान्न तु स्थान्यलाश्रयविधौ. इति स्थानिवत्त्वात् सुपि चेति दीर्घः. रामाय. रामाभ्याम्..

बालमनोरमा

51 स्थानिवद्भावेनाच्त्वाद्च्परकत्वात्कथं धकारस्य द्वित्वमिति शङ्का ह्मदि निधाय तस्य स्थानिवद्भावप्रापकसूत्रमाह-स्थानिवदादेशः। गुरुस्थानापन्ने गुरुपुत्रादौ स्थानापत्त्या तद्धर्मलाभो लोकतः सिद्धः। कुशादिस्थानापन्नेषु शरादिषु च वैदिकन्यायसिद्धः। इह तु शास्त्रे स्वं रूपं शब्दस्येति वचनात्स्थानिधर्मा आदेशेषु न प्राप्नुयुरिति तत्प्राप्त्यर्थं स्थानिवदादेश इत्यारब्धम्। `स्थानं प्रसङ्ग' इत्युक्तम्। यस्य स्थानेऽन्यद्विधीयते तत्स्थानि। येन विधीयमानेन अन्यत्प्रसक्तं निवर्तते स आदेशः। स्थानिना तुल्यः स्थानिवत्। `तेन तुल्य'मिति वतिप्रत्ययः। आदेशः स्थानिना तुल्यो भति। स्थानिधर्मको भवतीति यावत्। अलिति वर्णपर्यायः। विधीयत इति विधिः=कार्यम्। अलाश्रयो विधि अल्विधिः अनल्विधिः। अलाश्रयभिन्ने कार्ये कर्तव्ये इति प्रतीयमानोऽर्थः। अलाश्रयकार्ये कर्तव्ये स्थानिवन्न भवतीति फलितम्। अलाश्रयेति सामान्यवचनात् अला विधिः, अलः परस्य विधिः, अलो विधिः ?लि विधिश्चेति सर्वसंग्रहः। अला विधौ यथा-व्यूढोर स्केन। अत्र विसर्जनीयस्य सः' इति विसर्गस्थानिकस्य सकारस्य व#इसर्गत्वमाश्रित्य अड्व्यवाय इति णत्वं प्राप्तं न भवति। अलः परस्य विधौ यथा-द्यौः। `दिव औ'दिति वकारस्थानिकस्य औकारस्य स्थानिवद्भावेन हल्त्वात्ततः परस्य सोर्हल्ङ्यादिलोपः प्राप्तो न भवति। अलो विधौ यता द्युकामः। `दिव उ'दिति वकारस्थानिकस्य उकारस्य स्थानिवद्भावेन वकारत्वात् `लोपो व्योर्वली'ति लोपः प्राप्तो न भवति। अलि विधौ यथा-क इष्टः। यजेः क्तः। अत्र यकारस्थानिकसंप्रसारणस्य इकारहस्य स्थानिवद्भावेन हश्त्वात् हशि चे'त्युत्वं प्राप्तं न भवति। अल् चेह स्थानिभूतः, स्थान्यवयवश्च गृह्रते। ततश्च आदेशस्य स्थानिभूतो योऽल्, स्थान्यवयवश्च योऽल्, तदाश्रयविधौ न स्थानिवदिति फलति। तत्र स्थानीभूताऽल्विधौ व्यूढोरस्केनेत्युदाह्मतमेव। यथा वा-धिवि प्रीणन इति धातोर्लटि प्रथमपुरुषस्य झेरन्तादेशे `धिन्विकृण्व्योर च' इति विकरणस्य उकारस्य यणि वकारे सति तस्य स्थानिवद्भावेनार्धधातुकत्वात् स्वतो वलादित्वाच्च इडागमः प्राप्तो न भवति, वकारस्य स्थानिभूतो योऽल् उकारः, तदादेशं वकारमार्धधातुकत्वेनाश्रित्य प्रवर्तमानस्य इटः स्थान्यलाश्रयत्वात्। स्थान्यवयवालाश्रयविधौ यथा प्रतिदीव्य। इह क्त्वादेशस्य य इत्यस्य स्थानिवद्भावेन बलाद्यार्धधातुकत्वादिडागमः प्राप्तो न भवति। इडागमस्य वलादित्वविषये स्थान्यवयवभूतालाश्रयत्वात्। तदेतदाह-आदेशः स्थानिवत्स्यान्नतु स्थान्यलाश्रयविधाविति। स्थान्यलाश्रयेत्यत्र स्थानीति किम् ?। रामाय। इह `सुपि चे'ति दीर्घस्य यञादिसुबाश्रयस्य आदेशगतयकाररूपालाश्रयत्वेऽपि तस्मिन् कर्तव्ये यादेशस्य स्थानिवद्भावेन सुप्त्वं भवत्येव, दीर्घस्य आदेशगतयकाररूपालाश्रयत्वेऽपि स्थान्यलाश्रयत्वाऽभावात्। न च नीञ्धातोर्ण्बुलि अकादेशे वृद्धौ नै-अक इति स्थिते ऐकारस्य स्थानिवद्भावेन ईकारधर्मकत्वादायादेशो न स्यात्, ईकारस्य आयादेशाभावादिति वाच्यम्, इह हि स्थानिप्रयुक्तं यत् कार्यं शास्त्रीयं तदेवातिदिश्यते। ईकारस्य च आयादेशभावो न शास्त्रविहित इति न तस्य ईकारस्थानिके ऐकारे अतिदेश इत्यास्तां तावत्। अनेनेति। उदाह्मतेन स्थानिवत्सूत्रेण इह=सुध्य् इत्यत्र ईकारस्थानिकस्य यकारस्य स्थानिवद्भावेन अच्कार्यकारित्वमाश्रित्य अचि न द्वित्वमित्यर्थकेन अनचीत्यनेन धकारस्य द्वित्वनिषेधो न शङ्कनीय इत्यर्थः। कुत इत्यत आह–अनल्विधाविति तन्निषेधादिति। स्थानिवत्त्वनिषेधादित्यर्थः। यकारादेशस्थानीभूतो योऽल् ईकारः तद्गतमच्त्वं यकारे आश्रित्य प्रवर्तमानस्य यकारद्वित्वनिषेधस्य स्थान्यलाश्रयत्वादिति भावः।

तत्त्वबोधिनी

44 स्थानिवदादेशो। आदेशे कृते स्वरूपभेदात्स्थानिप्रयुक्तकार्याणप्रवृत्तावतिदेश आरभ्यते। `अस्तेर्भूः'। आर्धधातुके विवक्षिते धात्वादेशो धातुवत्। तेन `अचो य'- दित्यादिधातुप्रत्ययः-भव्यं बभूव। `किमः कः'। अङ्गादेशोऽङ्गवत्। तेन इनादेशदीर्घैस्वभावाः। केन काभ्यां कैः। आदेशग्रहणं किमर्थम् ?, `स्थानिव'दित्येतावतैव संबन्धिशब्दमहिम्ना तल्लाभात्, यथा `पितृवदधीते' इत्युक्ते `पुत्र' इति गम्यते इति चेदत्रादुः,–द्विविध आदेशः,-प्रत्यक्ष आनुमानिकश्चेति। `अस्तेर्भूः' इत्यादिः प्रत्यक्षः। `तेस्तुः' इत्यादिस्त्वानुमानिकः। `एरुः' इत्यत्र हि इकारेणेकारान्तः स्थानी अनुमीयते, उकारेण चोकारान्त आदेशः। तथाच `तेस्तु'रिति फलितोऽर्थः, तत्रासत्यादेशग्रहणे प्रत्यक्षस्यैव ग्रहणं स्यान्नत्वानुमानिकस्य। आदेशग्रहणसामथ्र्यात्तूभयपरिग्रहः, तेन पचत्वित्यादेस्तिङ्न्तत्वात्पदसंज्ञा सिध्यतीति। ननु `एरु'-रित्यादि यथाश्रुतमेवास्तु, एकदेशविकृतस्याऽनन्यत्वात्पदत्वं भविष्यतीति चेन्नः, अर्थवत्येव स्थानादेशभावविश्रान्तेर्वाच्यत्वात्तस्यैवाऽत्र प्रसङ्गाऽसंभवात्। तथाहि-`षष्ठी स्थानेयोगे'त्युक्तम्। स्थानं च प्रसङ्गः। स चार्थवतः , अर्थप्रत्ययार्थं शब्दप्रयोगात्। यद्यपि च्लेः सिजादावसंभवीदं, तथापि सति संभवे अर्थप्रयुक्त एव प्रसङ्गो ग्राह्र इत्यनेनैवादेशग्रहणेन ज्ञाप्यते। उक्तं च–सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिने। एकदेशाविकारे हि नित्यत्वं नोपपद्यते'॥ इति पदमिहार्थवत्, पद्यतेऽनेनेति व्युत्पत्तेः। यद्यपि सर्वविकारे सुतरां नित्यत्वानुपपत्ति स्तथापीह विकार एव नास्तीति तात्पर्यम्। एतच्च शब्दकौस्तुभे स्पष्टम्॥ अनल्विधाविति किम् ?। यश्चाला विधिः, यश्चालः परस्य विधिः, यश्चालो विधिः, यश्चालि विधिस्तत्र मा भूत्। तत्राऽला विधौ यथा–व्यूढोरस्केन। अत्र सकारस्य स्थानिवत्त्वेन विसर्गवदट्त्वमाश्रित्य `अड्व्यवाये' इति णत्वं प्राप्तम्। अलः परस्य यथा–द्यौः, पन्थाः। इह हल्ङ्यादिलोपो न। अलो विधौ यथा–द्युकामः। लोपो व्योर्वली'ति लोपो न। न चोत्त्वविधिसामथ्र्याल्लोपोन भवेदिति शङ्क्यम् ; `द्युयान'मित्यादौ तस्य सावकाशत्वात्। अलि विधौ–यजेः क्तः। क इष्टः। `हशि चे'त्युत्वं न। न चेह स्थानिबद्भावेन जातेप्युत्वे आद्गुणेऽवादेशे च कृते `हलि सर्वेषा'मिति नित्यं लोपेन `क इष्ट' इति रूपं सिध्यत्येवेति वाच्यम् ; `कयिष्ट' इति रूपान्तराऽसिद्धिप्रसङ्गात्। सिद्धान्ते तु `भोभगोअघोअपूर्वस्ये'ति यस्य लोपविकल्पे `क इष्टः' `कयिष्ट' इति रूपद्वयमभ्युपगम्यते। अलं चेह स्थान्यवयव एव गृह्रते, तेन `रामाये'त्यादौ `सुपि चे'ति दीर्घः सिध्द्यति, तद्विधौ हि यञादित्वमाश्रितम्। यञ् चादेशावयवो न तु स्थान्यवयवः। तथा `अरुदिता'मित्यादौ `रुदादिभ्यः-' इति वलादिलक्षण इट् च सिध्यति। तदेतदाह्मन तु स्थान्यलाश्रय #इति। आश्रयणं चेह यथाकथञ्चिन्न तु प्राधान्येनैवेत्याग्रहः। तेन `प्रपठ\उfffदे'त्यत्र वलादिलक्षण इण्न॥

Satishji's सूत्र-सूचिः

63) स्थानिवदादेशोऽनल्विधौ 1-1-56

वृत्ति: आदेश: स्थानिवत् स्यात्, न तु स्थान्यलाश्रयविधौ । A substitute (आदेश:) is regarded as the item that it substituted (स्थानी) – except in the case of an operation which depends on a specific letter (अल्) of the स्थानी.

गीतासु उदाहरणम् – श्लोकः bg16-5

विमोक्ष + ङे = विमोक्ष + य 7-1-13. Now since the substitute य came in place of ङे it will be regarded as ङे which is part of the सुँप्-प्रत्याहार: This will allow us to use 7-3-102.

विमोक्ष + य = विमोक्षाय