Table of Contents

<<8-2-25 —- 8-2-27>>

8-2-26 झलो झलि

प्रथमावृत्तिः

TBD.

काशिका

झलः उत्तरस्य सकारस्य झलि परतो लोपो भवति अभित्त। अभित्थाः। अच्छित्त। अच्छित्थाः। अवात्ताम्, अवात्त इत्यत्र वा सिचः सकारलोपस्य असिद्धत्वात् सः स्यार्धधातुके 7-4-49 इति सकारस्य तकारः। झलः इति किम्? अमंस्त। अमंस्थाः। झलि इति किम्? अभित्साताम्। अभित्सत। अयम् अपि सिच एव लोपः, तेन इह न भवति, सोमसुत् स्तोता, दृष्त्स्थानम् इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

480 झलः परस्य सस्य लोपो झलि. अगौप्ताम्. अगौप्सुः. अगौप्सीः. अगौप्तम्. अगौप्त. अगौप्सम्. अगौप्स्व. अगौप्स्म. अगोपायिष्यत्, अगोपिष्यत्, अगोप्स्यत्.. क्षि क्षये.. 13.. क्षयति. चिक्षाय. चिक्षियतुः. चिक्षियुः. एकाच इति निषेधे प्राप्ते - -.

बालमनोरमा

125 असैध् स् तामिति स्थिते, अपृक्तत्वाभावादीडभावादिडभावाच्च, इट ईटीति सिचो लोपेऽप्राप्ते– झलो झलि। झल इति पञ्चमी। संयोगान्तस्येत्यतो लोप इति, रात्सस्येत्यतः सस्येति चानुवर्तते। तदाह–झलः परस्येत्यादि। असैद्धामिति। असैध् स् तामिति स्थिते सलोपे धत्वे जश्त्वे च रूपम्। पक्ष इति। इट्पक्षे इत्यर्थः। असेधीदिति। इट ईटीति सलोपः। नेटीति वृद्धिप्रतिषेधः। लघूपधगुणः। खादृ इति। अत्र ऋदित्वं `नाग्लोपी'त्याद्यर्थमित्यभिप्रेत्याह– ऋकार इदिति। खदेति। स्?थैर्यं– स्थिरीभवनम्।

तत्त्वबोधिनी

100 `संयोगान्तस्ये'त्यतो लोप इति, `रात्सस्ये'त्यतः सस्येति चानुवर्तते। तदाह- - सस्य लोपः स्यादिति। पदस्येत्यधिकारात्प्रत्यासत्तेर्झलो झलि सस्येति निर्दिष्टानां त्रयाणामेकपदसंबन्धित्वे लोपोऽयम्। तेन `सोमसुत्स्थानटमित्यत्र नभवति। झलः किम्। अनैष्टाम्। झलि किम् ?। असैत्सीत्। असेधीदिति। `नेटी'ति वृद्धिप्रतिषेधः गुणः। रखादृ भक्षणे। ऋकार इदिति। तेन `नाग्लोपी'ति निषेधः। अचखादत्।

Satishji's सूत्र-सूचिः

वृत्ति: झलः परस्य सस्य लोपो झलि । The सकारः (of the affix “सिँच्”) is elided if it is preceded and followed by a झल् letter.

उदाहरणम् – अवात्ताम् derived from √वस् (वसँ निवासे १. ११६०). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, द्विवचनम्।

वस् + लुँङ् 3-2-110
= वस् + ल् 1-3-2, 1-3-3, 1-3-9
= वस् + तस् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= वस् + ताम् 3-4-101, 1-1-55, 1-3-4
= वस् + च्लि + ताम् 3-1-43
= वस् + सिँच् + ताम् 3-1-44
= वस् + स् + ताम् 1-3-2, 1-3-3, 1-3-9. 7-2-10 stops 7-2-35.
= वत् + स् + ताम् 7-4-49
= वात् + स् + ताम् 7-2-3
= अट् वात् + स् + ताम् 6-4-71, 1-1-46
= अ वात् + स् + ताम् 1-3-3, 1-3-9
= अवात्ताम् 8-2-26