Table of Contents

<<7-2-115 —- 7-2-117>>

7-2-116 अत उपधायाः

प्रथमावृत्तिः

TBD.

काशिका

अङ्गोपधाया अकारस्य स्थाने ञिति णिति च प्रत्यये वृद्धिर् भवति। पाकः। त्यागः। यागः। पाचयति। पाचकः। पाठयति। पाठकः। अतः इति किम्? भेदयति। भेदकः। उपधायाः इति किम्? चकासयति तक्षकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

457 उपधाया अतो वृद्धिः स्यात् ञिति णिति च प्रत्यये परे. जगाद. जगदतुः. जगदुः. जगदिथ. जगदथुः. जगद..

बालमनोरमा

126 णलि अजन्तत्वाऽभावादचो ञ्णितीति वृद्धेरप्राप्तौ– अत उपधायाः। वृद्धिः स्यादिति। `मृजेर्वृद्धि'रित्यतस्तदनुवृत्तेरिति भावः। चखादेति। एत्वाभ्यासलोपौ तु नात्र भवतः, पित्त्वेऽकित्त्वात्, आदेशादित्वात्, तदपेक्षया वृद्धेः परत्वाच्च।

तत्त्वबोधिनी

101 अत उप। अतः किम्। तुतोद। उपदायाः किम्। गणयति। इह अतो लोपं बाधित्वा परत्वाद्वृद्धिः स्यात्।

Satishji's सूत्र-सूचिः

361) अत उपधायाः 7-2-116

वृत्तिः उपधाया अतो वृद्धिः स्‍यात् ञिति णिति च प्रत्‍यये परे । A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

continued from above…
कम् + इ = काम् + इ 7-2-116 = कामि

“कामि” gets धातु-सञ्ज्ञा by 3-1-32.
ङित्त्वात्तङ् ।
Since the णिङ्-प्रत्यय: has ङकार: as a इत्, as per 1-3-12 अनुदात्तङित आत्मनेपदम्, “कामि” will get आत्मनेपद-प्रत्ययाः।

कामि + लँट् 3-2-123 = कामि + ल् 1-3-2, 1-3-3
= कामि + त 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-108, त gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = कामि + ते 3-4-79
= कामि + शप् + ते 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= कामि + अ + ते 1-3-3, 1-3-8 = कामे + अ + ते 7-3-84 = कामयते 6-1-78