Table of Contents

<<1-3-7 —- 1-3-9>>

1-3-8 लशक्वतद्धिते

प्रथमावृत्तिः

TBD.

काशिका

तद्धितवर्जितस्य प्रत्ययस्यादितो वर्तमाना लकारशकारकवर्गा इत्संज्ञा भवन्ति। लकरः, ल्युट् च 3-3-115) चयनम्, जयनम्। शकारः, कर्तरि शप् (*3,1.68 भवति, पचति। कवर्गः, क्तक्तवतू निष्ठा 1-1-26) भुक्तः, भुक्तवत्। प्रियवशो वदः खच् (*3,2.38 प्रियंवदः, वशंवदः। ग्लाजिस्थश्च ग्स्नुः 3-2-139 ग्लास्नुः, जिष्णुः, भूष्णुः। भञ्जभासमिदो घुरच् 3-2-161) भुअङ्गुरम्। टाङसिङसाम् इनाऽत्स्याः (*7,1.12 वृक्षात्, वृक्शस्य। अतद्धिते इति किम्? चूढालः। लोमशः। कर्णिका।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

136 तद्धितवर्जप्रत्ययाद्या लशकवर्गा इतः स्युः..

बालमनोरमा

194 `राम शस्'-इति स्थिते, `न विभक्तौ तुस्मा' `इति सकारस्य नेत्वम्। तत्र शकारस्य अनन्त्यत्वाद्धलन्त्यमित्यस्याऽप्राप्तावाह-लशक्वतद्धिते। `लशकु' इति समाहारद्वन्द्वः। उपदेशेऽजनुनासिक इत्, `आदिर्ञिटुडवः, `षः प्रत्ययस्ये'त्यतः- इदिति , आदिरिति, प्रत्ययस्येति चानुवर्तते। अतद्धित इति षष्ठ\उfffद्र्थे सप्तमी। तद्धितभिन्नस्य प्रत्ययस्य आदिभूतं लकारशकारकवर्गम् इत्संज्ञं भवतीत्यर्थः। तदाह– तद्धितवर्जेति। अतद्धित इति किम् ?। `कर्णललाटात्कनलङ्कारे'। कर्णिका। अत्र ककारस्य तद्धितावयवत्वान्नेत्त्वम्। सति तस्मिन् `किति चे'त्यादिवृद्धिः स्यात्। एतेन प्रयोजनाऽभावादेव लशादितद्धितेषु नेत्त्वमित्यतद्धितग्रहणं व्यर्थमिति निरस्तम्। इति शस इति। शकारस्येत्संज्ञायां `तस्य लोप' इति लोपः। शकारोच्चारणं तु `जसः शी' `तस्माच्छसो नः' इत्यादौ विषयविभागार्थम्। राम असिति स्थिते, अकः सवर्णे दीर्घ इति बाधित्वा, अतो गुण इति प्राप्ते प्रथमयोरिति पूर्वसवर्णदीर्घे, रामास् इति स्थिते।

तत्त्वबोधिनी

162 लशक्व। `आदिर्ञिटुडवः' इत्यत `आदि'-रित्यनुवर्तते `षः प्रत्ययस्ये'त्यतः प्रत्ययस्येति। `अतद्धिते' इति पर्युदासाद्वा लभ्यत इत्याह–प्रत्ययाद्या इति। लश्त शश्च कुश्चेति समाहारद्वन्द्वे `लशक्वि'ति नपुंसकम्। तदितरेतरयोगद्वन्द्वेन विवृणोति-लशकवर्गा इति। अतद्धित इति कम् ?, `प्राणिस्थादातः-'इति लच्। चूडालः। `लोमादिभ्यः[शः']। लोमशः। अत्र प्रयोजनाऽभावादेव नेत्संज्ञेति नेदं प्रत्युदाहरणमिति नव्याः। `कर्णललाटा'दिति भवार्थे कन्। कर्णिका। सत्यां हीत्संज्ञायां `किति चे'ति वृद्धिः स्यात्। प्रत्ययाद्या इति किम् ?। `जल्पभिक्षे'ति वृडः षाकन्। वराकः। अत्र `क्ङिति चे'ति गुणो न स्यात्।

Satishji's सूत्र-सूचिः

55) लशक्वतद्धिते 1-3-8

वृत्ति: तद्धितवर्जितप्रत्ययाद्या लशकवर्गा इत: स्यु: । When the letter ल् or श् or any letter of the क-class (क्, ख्, ग्, घ्, ङ्) occurs at the beginning of a प्रत्यय:, which is not a तद्धित:, then it is designated as an इत्. Note: तद्धिता: प्रत्यया: are listed in the अष्टाध्यायी from 4-1-76 to the end of the fifth chapter.

गीतासु उदाहरणम् – श्लोकः bg1-26

आचार्य + शस् The letter श् at the beginning of the affix शस् (prescribed by 4-1-2) is an इत्