Table of Contents

<<3-2-122 —- 3-2-124>>

3-2-123 वर्तमाने लट्

प्रथमावृत्तिः

TBD.

काशिका

आरब्धो ऽपरिसमाप्तश्च वर्तमानः। तस्मिन् वर्तमाने ऽर्थे वर्तमनाद् धातोः लट् प्रत्ययो भवति। पचति। पठति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

376 वर्तमान क्रिया वृत्तेर्धातोर्लट् स्यात्. अटावितौ. उच्चारण सामर्थ्याल्लस्य नेत्वम्. भू सत्तायाम्.. 1.. कर्तृ विवक्षायां भू ल् इति स्थिते —.

बालमनोरमा

2 वर्तमाने लट्। `धातो'रिति सूत्रमा तृतीयाध्यायसमाप्तेरधिकृतम्। `वर्तमाने' इति तत्रान्वेति। वर्तमानेऽर्थे विद्यमानाद्धातोर्लडिति लभ्यते। फलितमाह- - वर्तमानक्रियावृत्तेरिति। धात्वर्थक्रियाया वर्तमानत्वं तु वर्तमानकालवृत्तित्वम्। कालस्य तु वर्तमानत्वम्–अतीतानागतभिन्नकालत्वम्। `भूतभविष्यतोः प्रतिद्वन्द्वी वर्तमानः काल' इति भाष्यम्। वर्तमानत्वं च न प्रत्ययार्थभूतकत्र्रादिविशेषणम्। अतीतपाकादिक्रिये कर्तरि वर्तमाने पचतीत्याद्यापत्तेः, किंतु धात्वर्थविशेषणमेव वर्तमानत्वम्। लट् तु तस्य द्योतक एव। अटाविताविति। न च अकार उच्चारणार्थ एवास्त्विति वाच्यं, लिडादि वैलक्षण्याय तस्यावश्यकत्वात्। तथा च तस्य इत्संज्ञां विना निवृत्त्युपायाऽभावादित्संज्ञैवादर्तव्येति भावः।

तत्त्वबोधिनी

2 वर्तमाने लट्। वर्तमान इत्येतत्प्रकृत्यर्थविशेषणमित्याह- - वर्तमानक्रियावृत्तेर्धातोरिति। धातोरिति सूत्रमा तृतीयाध्यायान्तमदिक्रियत इति भावः। लट् स्यादिति। तस्य वाच्यत्वमनुपदमेव स्फुटीभविष्यति। वर्तमानकालस्तु न तद्वाच्यः, किंतु द्योत्य एव। लङादिष्वपि भूतादिकालो यथायथं द्योत्य एवेत्यवगन्तव्यम्। वस्तुतस्तु वाच्यत्वाभ्युपगमोऽपि सुगम इति विध्यादिसूत्रे वक्ष्यामः॥ अटाविताविति। `अकार उच्चारणार्थ' इति तु नोक्तं, लिडादिवैलक्ष्ण्यसंपादनाय तस्यावश्यवक्तव्यत्वात्।

Satishji's सूत्र-सूचिः

277) वर्तमाने लट् 3-2-123

वृत्तिः वर्तमानक्रियावृत्तेर्धातोर्लट् स्‍यात् । The affix लँट् comes after a धातुः when denoting an action in the present tense.