Table of Contents

<<1-3-6 —- 1-3-8>>

1-3-7 दुटू

प्रथमावृत्तिः

TBD.

काशिका

चवर्गटवर्गौ प्रत्ययस्यादी इत्सञ्जौ भवतः। गोत्रे कुञ्जाऽदिभ्यश्च्फः 4-1-98 कौञ्जायनः। छस्य ईयादेशं वक्ष्यति। जस् ब्राह्मणाः झस्य अन्ताऽदेशं वक्ष्यति। शण्डिकाऽदिभ्यो ञ्यः 4-3-92) शाण्डिक्यः। तवर्गः, चरेष्टः (*3,2.16 कुरुचरी, मद्रचरी। ठस्य इकादेशं वक्ष्यति। सप्तम्यां जनेर् डः 3-2-97 उपसरजः, मन्दुरजः। ढस्य एयादेशं वक्ष्यति। अन्नाण्णं 4-4-85 आन्नः। पृथग्योगकरणम् अस्य विधेरनित्यत्वज्ञापनार्थम्। तेन वित्तश्चुञ्चुप्चणपौ 5-2-26 केशचुञ्चुः, केशचणः। अवात् कुटारच् च 5-2-30, नते नासिकायाः संज्ञायां टिटञ्नाट्ज्भ्रटचः 5-2-31) अवटीतः। आदिः इत्येव। कर्मणि घटो ऽठच् (*5,2.35 कर्मठः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

129 प्रत्ययाद्यौ चुटू इतौ स्तः..

बालमनोरमा

188 देवदत्तहन्तृंहतन्यायस्तु नात्र प्रवर्तत इति स्वादिसन्धौ मनोरथ इत्यत्र प्रञ्चितम्। राम जस् इति स्थिते–चुटू। `उपदेशेऽजनुनासिक इत्' इत्यतः `इ' दित्यनुवर्तते। तच्च द्विवचनान्ततया विपरिणम्यते। `आदिर्ञिटुडवः' इत्यत `आदि'ग्रहणमनुवर्त्त्य द्विवचनान्ततया विपरिणम्यते। `षः प्रत्ययस्ये'त्यनुवर्तते। तदाह–प्रत्ययाद्यावित्यादिना। इति जस्येति। इत्संज्ञायां तस्य लोप' इति लोपः। जकारस्तु जसश्शीत्यादौ शसो निवृत्त्यर्थः।

तत्त्वबोधिनी

157 युटू। `आदिर्ञिटुडवः' इत्यत `आदिः,' `षः प्रत्ययस्य' इत्यतः `प्रत्ययस्ये'ति चानुवर्तते, तदाह-प्रत्ययाद्याविति। प्रत्ययाद्यविति किम् ?। वाचाटः। `तेन वित्तश्चुञ्चुप्चणपौ' इत्यत्र प्रत्ययादौ यकारो लुप्तनिर्दिष्टस्तेन चस्य नेत्संज्ञेति वक्ष्यति।

Satishji's सूत्र-सूचिः

48) चुटू 1-3-7

वृत्ति: प्रत्ययाद्यौ चुटू इतौ स्तः । When a letter of the च-class (च्, छ्, ज्, झ्, ञ्) or the ट्-class (ट्, ठ्, ड्, ढ्, ण्) occurs at the beginning of a प्रत्यय: then it is designated as an इत्.

गीतासु उदाहरणम् – श्लोकः bg1-1

पाण्डव + जस् The letter ज् at the beginning of the affix जस् is an इत् (marker.)