Table of Contents

<<4-2-113 —- 4-2-115>>

4-2-114 वृद्धाच् छः

प्रथमावृत्तिः

TBD.

काशिका

गोत्रे इति न अनुवर्तते। सामान्येन विधानम्। वृद्धात् प्रातिपदिकात् छः प्रत्ययो भवति शैषिकः। अणो ऽपवादः। गार्गीयः। वात्सीयः। शालीयः। मालीयः। अव्ययतीररूप्यौत्तरपदौदीच्यग्राम. कौपधविधीन् तु परत्वाद् बाधते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1080 शालीयः. मालीयः. तदीयः. (वा नामधेयस्य वृद्धसंज्ञा वक्तव्या). देवदत्तीयः, दैवदत्तः..

बालमनोरमा

1320 भवतष्ठक्छसौ। भावत्क इति। `इसुसुक्तान्तात्कः'। ननु भवच्छब्दाच्छस्य ईयादेशे सति भत्वेन पदत्वस्य बाधात्कथं जश्त्वमित्यत आह–जश्त्वमिति। `सिति चे'ति पदत्वेन भत्वस्य बाधादिति भावः। ननु `भावत' इति कथमण्प्रत्ययः, `त्यदादीनि चे'ति भवच्छब्दस्य वृद्धतया छस्यैव युक्तत्वादित्यत आह–वृद्धादित्यनुवृत्तेः शत्रन्तादणेवेति। त्यदादिषु `भातेर्डवतु'रिति डवत्वन्तस्यैव पाठादिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.