Table of Contents

<<3-4-112 —- 3-4-114>>

3-4-113 तिङ्शित्सार्वधातुकम्

प्रथमावृत्तिः

TBD.

काशिका

तिङः शितश्च प्रययाः सार्वधातुकसंज्ञा भवन्ति। भवति। नयति। स्वपिति। रोदिति। पचमानः। यजमानः। सार्वधातुकप्रदेशाः सार्वधातुके यक् 3-1-67 इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

388 तिङः शितश्च धात्वधिकारोक्ता एतत्संज्ञाः स्युः..

बालमनोरमा

16 तत्र सार्वधातुककार्यं वक्ष्यन्सार्वधातुकंसंज्ञामाह– तिङ्?शित्। धातोरित्यधिकृतं। तदाह–धात्वधिकारोक्ता इति। तेन `हरी'नित्यत्र शसः सार्वधातुकत्वं न, `अन्यथा तिङ्?शित्सार्वधातुक'मिति शसः सार्वधातुकत्वात्सार्वधातुकमपिदिति ङित्त्वे `घेर्ङिती'ति गुणः स्यात्।

तत्त्वबोधिनी

13 धात्वदिकारोक्ता इति कम् ?। हरीन्। शसः `सार्वधातुकमपि'दिति ङित्त्वे `घेर्ङिती'ति गुणः स्यात्, लिहः श्रिय इत्यादिशसन्तेषु `सार्वधातुके य'गिति यक्क स्यात्। केचित्तु वारिणी इत्यत्र नुमि कृतेऽपि लघूपधगुणः स्यादित्याहुः। तन्न। क्ङितीति निषेधात्, इगन्तत्वप्रयुक्तस्य नुमो गुणप्रयोजकत्वे सन्निपातपरिभाषाविरोधाच्च।

Satishji's सूत्र-सूचिः

289) तिङ्शित्सार्वधातुकम् 3-4-113

वृत्तिः तिङः शितश्च धात्वधिकारोक्ता एतत्संज्ञाः स्युः। The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

गीतासु उदाहरणम् verse 4-7
भवति – धातु: “भू” (भू सत्तायाम्)
The विवक्षा here is वर्तमान-काले, प्रथम-पुरुष-एकवचनम्, कर्तरि प्रयोग:।
भू + लँट् 3-4-69, 3-2-123 = भू + ल् 1-3-2, 1-3-3 = भू + तिप् 3-4-78. तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113

Continued below.