Table of Contents

<<3-4-77 —- 3-4-79>>

3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्ताऽतांझथासाथाम्ध्वमिड्वहिमहिङ्

प्रथमावृत्तिः

TBD.

काशिका

लस्य तिबाद्य आदेशा भवन्ति। तिप्सिप्मिपां पकारः स्वरार्थः। इटष्टकारः इटो ऽत् 3-4-106 इति विशेषणार्थः, तिबादिभिरादेशैस् तुल्यत्वान् न देशविध्यर्थः। महिङो ङकारः तिङिति प्रत्याहारग्रहणार्थः। पचति, पचतः, पचन्ति। पचसि, पचथः, पचथ। पचामि, पचावः, पचामः। पचते, पचेते, पचन्ते। पचसे, पचेथे, पचध्वे। पचे, पचावहे, पचामहे। एवम् अन्येष्वपि लकरेषु उदाहार्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

377 एतेऽष्टादश लादेशाः स्युः..

बालमनोरमा

5 तिप्तस्। तिप्, तस्, झि, सिप्, थस्, थ, मिप्, वस्, मस्, त , आताम्, झ,थास्, आथाम्, ध्वम्, इड्, वहि, महिङ्। एषां समाहारद्वन्द्वात्प्रथमैकवचनम्। लस्येति स्थानषष्ठ\उfffद्न्तमधिकृतम्। तेन आदेश इति लभ्यते। फलितमाह– एत इति। तसादौ रुत्वाऽभाव आर्षः। तिबादौ पकारानुबन्धयोजनं तु द्वेष्टीत्यादौ सार्वधातुकमपदिति ङित्त्वनिवृत्त्यर्थम्। तदुदाहरणेषु स्पष्टीभविष्यति।

तत्त्वबोधिनी

5 समाहारे द्वन्द्वः। इटष्टकार आगमलिङ्गं न भवति, सप्तदशभिरादेशैः समभिव्याहारात्। किंतु `इटोऽ'दिति विशेषणार्थः। `एर'दित्युच्यमाने एधेवहि एधेमहीत्यत्रापि स्यात्, वर्णग्रहणे प्रत्ययग्रहणाऽर्थवद्ग्रहणपरिभाषयोरप्रवृत्तेः। केचित्तु- - `इटोऽ'दित्यत्र लिङ इत्यनुवर्तनाल्लिङ्गादेशस्येवर्णस्येति सामानाधिकरण्येन व्याख्याने एधेवहि एधेमहीत्यादावतिप्रसङ्गो नास्त्येव। न हि तत्र इकामात्रमादेशो भवति। तेन `इटोऽ'दित्यत्र टकारः स्पष्टप्रतिपत्त्यर्थ एवेत्याहुः। तच्चिन्त्यम्। वहि– महीत्यस्यापि स्थानिवत्त्वेन लिङ्त्वात्। महिङो ङकारस्तिङ् तङिति प्रत्यानिषेधो न, तथा च वृश्चतेः पृच्छतेश्च कर्मणि रलिटि वव्रश्चिमहे पप्रच्छिमहे इत्यत्र `ग्रहिज्ये'ति संप्रसारणं न।

Satishji's सूत्र-सूचिः

278) तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् 3-4-78

वृत्तिः एतेऽष्‍टादश लादेशाः स्‍युः। In place of “ल्” (which stands for the ten tenses and moods) the (eighteen) substitutions (तिप्-तस्-झि)-(सिप्-थस्-थ)-(मिप्-वस्-मस्)-(त-आताम्-झ)-(थास्-आथाम्-ध्वम्)-(इट्-वहि-महिङ्) are used.