Table of Contents

<<7-3-83 —- 7-3-85>>

7-3-84 सार्वधातुकाऽर्धधातुकयोः

प्रथमावृत्तिः

TBD.

काशिका

सार्वधातुके आर्धधातुके च प्रत्यये परतः इगन्तस्य अङ्गस्य गुणो भवति। तरति। नयति। भवति। आर्धधातुके कर्ता। चेता। स्तोता। सार्वधातुकार्धधातुकयोः इति किम्? अग्नित्वम्। अग्निकाम्यति। यदि हि प्रत्यये सङि इति वा उच्येत, इह अपि स्यात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

390 अनयोः परयोरिगन्ताङ्गस्य गुणः. अवादेशः. भवति. भवतः ॥ भू + लँट्, तिपि, शपि > भू + अ + ति 7-3-84 इति गुणे, अवादेशे > भव् अ ति > भवति । भू + लट्, तस्, शपि > भू + अ + तस् गुणे, अवादेशे > भवतस् रुत्वविसर्गौ > भवतः ।<next 7-1-3>

बालमनोरमा

18 भू-अ-ति-इति स्थिते–सार्वधातुकाऽर्धधातुकयोः गुणः । `इको गुणवृद्धी 1-1-3 इति परिभाषया `इक' इत्युपस्थितेन अङ्गस्येत्यधिकृतं विशेष्यते। तदन्तविधिः। `मिदेर्गुण' इत्यस्माद्गुण इत्यनुवर्तते। तदाह–अनयोरित्यादिना। तथा च ऊकारस्य गुण ओकारः। अवादेश इति। `ओकारस्येटति शेषः। तथा च परिनिष्ठितं रूपमाह– भवतीति। भवत इति। कर्तृद्वित्वविवक्षायां भूधातोर्लस्तसादेशे च कृते–झोऽन्तः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

292) सार्वधातुकार्धधातुकयोः 7-3-84

वृत्तिः अनयोः परयोरिगन्‍ताङ्गस्‍य गुणः। An अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

Example continued from above
The अङ्गम् “भू” is followed by शप्-प्रत्यय: which is a शित्। It gets सार्वधातुक-सञ्ज्ञा by 3-4-113.

भो + शप् + तिप् 7-3-84, 1-1-3, 1-1-52 = भो + अ + ति 1-3-3, 1-3-8 = भवति 6-1-78