Table of Contents

<<6-4-63 —- 6-4-65>>

6-4-64 आतो लोप इटि च

प्रथमावृत्तिः

TBD.

काशिका

इट्यजादावार्धधातुके क्ङिति च आकारान्तस्य अङ्गस्य लोपो भवति। इटि पपिथ। तस्थिथ। किति पपतुः। पपुः। तस्थतुः। तस्थुः। गोदः। कम्बलदः। ङिति प्रदा। प्रधा। आर्धधातुके इत्येव, यान्ति। वान्ति। व्यत्यरे। व्यत्यले। रातेर् लातेश्च लङि इटि रूपम्। अचि इत्येव, ग्लायते। दासीय।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

491 अजाद्योरार्धधातुकयोः क्ङिदिटोः परयोरातो लोपः. पपतुः. पपुः. पपिथ, पपाथ. पपथुः. पप. पपौ. पपिव. पपिम. पाता. पास्यति. पिबतु. अपिबत्. पिबेत्..

बालमनोरमा

209 दधा–अतुसिति स्थिते– आतो लोपः। `आद्र्धदातुके' इत्यधिकृतम्। `दीङो यु'डित्यतोऽचि क्ङितीति चानुवर्तते। अचीत्याद्र्धधातुकविशेषणत्वात्तदादिविधिः। क्ङिति अजाद्याद्र्धधातुके इटि च आतो लोप इति लभ्यते। फलितमाह– अजाद्योरिति। इट आद्र्धधातुकत्वं तु तदवयवत्वाद्बोद्ध्यम्। क्ङितीति च इटो न विशेषणम्, इड्?ग्रहणसामथ्र्यात्। इडित्यनेन उत्तमपुरुषैकवचनम्, इडागमश्च गृह्रते। अजाद्योः किम् ?। ग्लैधातोः कर्मणि लटि यकि– ग्लायते। आद्र्धधातुकयोः किम् ?। यान्ति वान्ति। दधौ इत्यत्र तु क्ङित्त्वाऽभावान्नाल्लोपः। सति तस्मिन् औत्वं न स्यात्। ननु धा–अतुसिति स्थिते द्वित्वात्पर्तवादाल्लोपे सति एकाच्त्वाऽभावाद्द्वित्वं न स्यादित्याशङ्क्य परहरति– द्वित्वादित्यादिना। धेट्धातुरनिट्। भारद्वाजनियमात्थलि वेडित्याह– दधिथ दधाथेति। इट्पक्षे आल्लोपः। दधथुः। दध। दधौ इति सिद्धवत्कृत्याह- -दधिवेति। वसि आत्त्वे क्रादिनियमादिटि आल्लोप इति भावः। एवं दधिमेत्यपि ज्ञेयम्। धातेति। लुटि आत्त्वे तासादीति भावः। धास्यति। धयतु। अधयत्। धयेत्।

तत्त्वबोधिनी

181 आद्र्धधातुक इत्यनुवर्तते। `दीङो युडचि क्ङिती'त्यतोऽचि क्ङितीति च। तदेतत्फलितमाह—अजाद्योराद्र्धधातुकयोरिति। अजाद्योः किम् ?। ग्लायते। यक्- - जाग्लायते। यङ्–दासीय। डुदाञो लिङुत्तमैकवचनमिट्। आद्र्धधातुकयोः किम् ?। यान्ति। वान्ति। व्यतिरे। कर्मव्यतिहारे रा दाने धातोर्लङुत्तमैकवचनमिट्। [व्यतिरै। लट इट्] दधिश्चेति। एवं च अजाद्याद्र्धधातुकस्य कित्त्वेन दधिव दधिमेत्यादिष्वातो लोपसिद्धावपि दधिथ पपिथेत्यादि रूपसिद्धये सूत्रेऽस्मिन्निटीति ग्रहणमावश्यकमिति ज्ञेयम्। यदि तु इडागम एवात्र गृह्रते व्याख्यानात्तदाऽचि क्ङितीत्येतदाद्र्धधातुकस्यैव विशेषणं , न तूभयोः।

Satishji's सूत्र-सूचिः

वृत्तिः अजाद्योरार्धधातुकयोः क्ङिदिटोः परयोरातो लोपः। The ending आकार: of an अङ्गम् takes लोप: when followed by a vowel-beginning आर्धधातुक-प्रत्यय: that has either:
(i) a “इट्”-आगम: or
(ii) a ककार: or ङकार: as an इत्।

गीतासु उदाहरणम् – दध्मु: (ध्मा शब्दाग्निसंयोगयोः १. १०७६, लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्)। सौभद्रश्च महाबाहुः शङ्खान् दध्मु: पृथक्पृथक्‌ || 1-18||

ध्मा + लिँट् 3-2-115
= ध्मा + ल् 1-3-2, 1-3-3, 1-3-9
= ध्मा + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108. “झि” gets the आर्धधातुक-सञ्ज्ञा by 3-4-115.
= ध्मा + उस् 3-4-82, 1-1-55. 1-3-4 prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।
= ध्मा ध्मा + उस् 6-1-8. Note: As per 1-1-59, we apply 6-1-8 before applying 6-4-64.
= धा ध्मा + उस् 7-4-60
= ध ध्मा + उस् 7-4-59
= ध ध्म् + उस् 6-4-64. Note: As per 1-2-5, “उस्” is a कित्-प्रत्यय:। This allows 6-4-64 to apply.
= धध्मु: 8-2-66, 8-3-15
= दध्मु: 8-4-54