Home » शिशुपालवधम् (Page 2)

Category Archives: शिशुपालवधम्

आकुमारम् nNs

Today we will look at the form आकुमारम् nNs from शिशुपालवधम् 13.68.

हरिराकुमारमखिलाभिधानवित्स्वजनस्य वार्तमयमन्वयुङ्क्त च ।
महतीमपि श्रियमवाप्य विस्मयः सुजनो न विस्मरति जातु किंचन ।। १३-६८ ।।

टीका
हरिरिति ।। किञ्चेति चार्थः । अखिलान्यभिधानानि नामानि वेत्तीत्यखिलाभिधानवित्सकलनामप्रपञ्चाभिज्ञः । ‘नामरूपे व्याकरवाणि’ इति श्रुतेरिति भावः । ‘आख्याह्वे अभिधानं च नामधेयं च नाम च’ इत्यमरः । अयं हरिः कृष्णः कुमारमारभ्येत्याकुमारम् । ‘2-1-13 आङ् मर्यादाभिविध्योः’ इत्यभिधानादव्ययीभावः । स्वजनस्य बन्धुजनस्य । ‘बन्धुस्वस्वजनाः समाः’ इत्यमरः । वार्तमनामयम् । आरोग्यमित्यर्थः । ‘वार्तं फल्गुन्यरोगे च’ इत्यमरः । ‘ब्राह्मणं कुशलं पृच्छेत् क्षत्रबन्धुमनामयम्’ इति मनुस्मरणात् (2-127)। अन्वयुङ्क्तापृच्छत् । ‘प्रश्नोऽनुयोगः पृच्छा च’ इत्यमरः । युजेः कर्तरि लङ् । तथा हि – महतीं श्रियं सम्पदमवाप्यापि विस्मयो निरहङ्कारः सुजनः अत एव जातु कदाचिदपि किञ्चन किमपि न विस्मरतिसुजनः सम्पन्नोऽप्यहङ्कारं न करोतीति भाव । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ।।

Translation – And this Śrī Kṛṣṇa, who knows all the names, inquired about the well being of his kinsmen starting from the young. (For) an unassuming noble person never forgets anything even after acquiring enormous wealth.

लौकिक-विग्रह: –
(1) कुमारमारभ्य = आकुमारम्  । Starting from the young (upwards.)

अलौकिक-विग्रह: –
(2) कुमार ङसिँ + आङ् । By 2-1-13 आङ् मर्यादाभिविध्योः – The indeclinable ‘आङ्’ – when used in the meaning of मर्यादा ‘up to (but excluding) a limit’ or अभिविधि: ‘up to (and including) a limit’ – optionally compounds with a पदम् ending in a fifth case affix to yield a अव्ययीभाव: compound.
Note: विना तेनेति मर्यादा – ‘up to (but excluding) a limit’ is termed as मर्यादा। सह तेनेत्यभिविधि: – ‘up to (and including) a limit’ is termed as अभिविधि:। In the current context ‘आङ्’ is used in the sense of अभिविधिः।

Note: As per 1-4-89 आङ् मर्यादावचने, ‘आङ्’ has the designation कर्मप्रवचनीय: here. Hence as per 2-3-10 पञ्चम्यपाङ्परिभिः, a fifth case affix (’ङसिँ’) is used following the प्रातिपदिकम् ‘कुमार’ co-occurring with the कर्मप्रवचनीय: ‘आङ्’।

(3) आङ् + कुमार ङसिँ । By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word ending in a nominative case in a सूत्रम् which prescribes a compound gets the designation ‘उपसर्जन’। Here the term ‘आङ्’ in the सूत्रम् 2-1-13 ends in the nominative case. Therefore ‘आङ्’ gets the designation ‘उपसर्जन’ by 1-2-43. Hence ‘आङ्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.
Note: ‘ आङ् + कुमार ङसिँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) आङ् + कुमार । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) आकुमार । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्1-3-9 तस्य लोपः।

(6) आकुमार + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

(7) आकुमार + अम् । By 2-4-83 नाव्ययीभावादतोऽम्त्वपञ्चम्याः – This सूत्रम् has two parts – (a) नाव्ययीभावादत: – following a अव्ययीभावः compound ending (ref. 1-1-72) in the letter ‘अ’ a सुँप् affix does not take the लुक् elision (which would have been done by 2-4-82 अव्ययादाप्सुपः) and (b) अम्त्वपञ्चम्याः – following a अव्ययीभावः compound ending (ref. 1-1-72) in the letter ‘अ’ a सुँप् affix – other than a fifth case affix – is substituted by अम्।
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of the affix ‘अम्’ from getting इत्-सञ्ज्ञा।

(8) आकुमारम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Which वार्तिकम् is used to form the feminine प्रातिपदिकम् ‘श्री’ (used in the form श्रियम् (द्वितीया-एकवचनम्) in the verse)?

2. Where has the सूत्रम् 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ been used in the verse?

3. Which कृत् affix is used to form the masculine प्रातिपदिकम् ‘प्रश्न’ (used in the commentary)?

4. How would you say this in Sanskrit?
“Strive till you succeed.” Paraphrase to “Strive till (there is) success.” Form a अव्ययीभाव: compound for ’till success.’ Use the verbal root √यत् (यतीँ प्रयत्ने १. ३०) for ‘to strive’ and the feminine प्रातिपदिकम् ‘सिद्धि’ for ‘success.’

5. How would you say this in Sanskrit?
“I will stay here till sunrise.” Form a अव्ययीभाव: compound for ’till sunrise.’ Use the (compound) masculine प्रातिपदिकम् ‘सूर्योदय’ for ‘sunrise.’

6. How would you say this in Sanskrit?
“Some people are blind from birth while some others become blind after birth.” Form a अव्ययीभाव: compound for ‘from birth.’

Easy questions:

1. Can you spot the affix श्नम् in the verse?

2. Where has the सूत्रम् 3-4-89 मेर्निः been used in the commentary?

बहिर्विकारम् nAs

Today we will look at the form बहिर्विकारम् nAs from शिशुपालवधम् verse 1-33.

उदासितारं निगृहीतमानसैर्गृहीतमध्यात्मदृशा कथञ्चन ।
बहिर्विकारं प्रकृतेः पृथग्विदुः पुरातनं त्वां पुरुषं पुराविदः ।। १-३३ ।।

टीका –
उदासितारमिति । पुराविदः पूर्वज्ञाः कपिलादयस्त्वां निगृहीतमानसैरन्तर्निबद्धचित्तैर्योगिभिः । आत्मनि अधि इत्यध्यात्मम् । विभक्त्यर्थेऽव्ययीभावः । ‘5-4-108 अनश्च’ इति समासान्तष्टच् । अध्यात्मं या दृक् ज्ञानं तया अध्यात्मदृशा प्रत्यग्दृष्ट्या कथञ्चन गृहीतं साक्षात्कृतम् । केन रूपेण गृहीतमित्यत आह – उदासितारमुदासीनम् । प्रकृतौ स्वार्थप्रवृत्तायामपि स्वयमप्राकृतत्वादस्पृष्टमित्यर्थः । आसेस्तृच् । विकारेभ्यो बहिः बहिर्विकारम् । महदादिभ्यः पृथग्भूतमित्यर्थः । ‘2-1-12 अपपरिबहिरञ्चवः पञ्चम्या’ इत्यव्ययीभावः । किञ्च प्रकृतेस्त्रैगुण्यात्मनो मूलकारणात्पृथग्भिन्नम् । ‘प्रकृतिः पञ्चभूतेषु प्रधाने मूलकारणे’ इति यादवः । पुरा भवं पुरातनमादिम् । ‘4-3-23 सायंचिरम्-‘ इत्यादिना ट्यु प्रत्ययः । पुरुषं पुरुषपदवाच्यं विज्ञानघनं विदुर्विदन्ति । ‘3-4-83 विदो लटो वा’ इति झेरुसादेशः । यथाहुः – ‘मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः ।।’ इति । ‘अजामेकां लोहितशुक्लकृष्णाम्’ इत्यादिश्रुतिश्च । सोऽपि त्वमेव ‘तत्त्वमसि’ इत्यादिवाक्यैरैक्यश्रवणात् । तस्मात्त्वमेव साक्षात्करणीय इति सुष्ठूक्तमिति भावः ।

Translation – Those who know the past know you as the one who is outside of transformations, separate form primordial nature, the indifferent ancient person who is somehow grasped by a vision that is turned (inwards) to the self by those (yogīs) who have controlled the mind.

लौकिक-विग्रह: –
(1) विकारेभ्यो बहिः = बहिर्विकारम् = outside of transformations

अलौकिक-विग्रह: –
(2) विकार भ्यस् + बहिस् । By 2-1-12 अपपरिबहिरञ्चवः पञ्चम्या – The indeclinables ‘अप’, ‘परि’, ‘बहिस्’ as well as those ending in the verbal root √अञ्च् (अञ्चुँ गतिपूजनयोः १. २१५) optionally compound with a पदम् ending in a fifth case affix to yield a अव्ययीभाव: compound.
Note: The सूत्रम् 5-3-30 अञ्चेर्लुक् is used to form indeclinables ending in the verbal root √अञ्च् (अञ्चुँ गतिपूजनयोः १. २१५).

(3) बहिस् + विकार भ्यस् । By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word ending in a nominative case in a सूत्रम् which prescribes a compound gets the designation ‘उपसर्जन’। Here the term ‘अपपरिबहिरञ्चवः’ in the सूत्रम् 2-1-12 ends in the nominative case. Therefore ‘बहिस्’ gets the designation ‘उपसर्जन’ by 1-2-43. Hence ‘बहिस्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.
Note: ‘बहिस् + विकार भ्यस्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) बहिस् + विकार । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) बहिर्विकार । By 8-2-66 ससजुषो रुः। अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

Note: Here ‘बहिर्विकार’ is an adjective to ‘त्वाम्’। Therefore it is used in the accusative case.

(6) बहिर्विकार + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

(7) बहिर्विकार + अम् । By 2-4-83 नाव्ययीभावादतोऽम्त्वपञ्चम्याः – This सूत्रम् has two parts – (a) नाव्ययीभावादत: – following a अव्ययीभावः compound ending (ref. 1-1-72) in the letter ‘अ’ a सुँप् affix does not take the लुक् elision (which would have been done by 2-4-82 अव्ययादाप्सुपः) and (b) अम्त्वपञ्चम्याः – following a अव्ययीभावः compound ending (ref. 1-1-72) in the letter ‘अ’ a सुँप् affix – other than a fifth case affix – is substituted by अम्।
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of the affix ‘अम्’ from getting इत्-सञ्ज्ञा।

(8) बहिर्विकारम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Commenting on the सूत्रम् 2-1-12 अपपरिबहिरञ्चवः पञ्चम्या (used in step 2) the तत्त्वबोधिनी says – अपपरियोगे ‘पञ्चम्यपाङ्परिभि:’ इति पञ्चमी विहिता, अञ्चूत्तरपदयोगेऽपि ‘अन्यारात्’ इत्यादिना विहितैव। तेनात्र ‘पञ्चम्या’ इति ग्रहणं ‘बहिर्योगे पञ्चमी भवति’ इति ज्ञापनार्थम्। Please explain.

2. The सूत्रम् 2-1-12 अपपरिबहिरञ्चवः पञ्चम्या is the first सूत्रम् in which अधिकार:?

3. Which कृत् affix is used to derive the form उदासितारम् (प्रातिपदिकम् ‘उदासितृ’, पुंलिङ्गे द्वितीया-एकवचनम्)?

4. Which सूत्रम् prescribes the elongation (of the augment इट्) in the form गृहीतम् (प्रातिपदिकम् ‘गृहीत’, पुंलिङ्गे द्वितीया-एकवचनम्)?

5. Where has the सूत्रम् 7-2-83 ईदासः been used in the commentary?

6. How would you say this in Sanskrit?
“The Sannyāsī lives outside the village.”

Easy questions:

1. Which सूत्रम् prescribes the substitution ‘उस्’ in the form विदु: used in the verse?

2. What is the alternate form for विदु:?

अन्वहम् nNs

Today we will look at the form अन्वहम् nNs from शिशुपालवधम् verse 3-37.

यस्याश्चलद्वारिधिवारिवीचिच्छटोच्छलच्छङ्खकुलाकुलेन ।
वप्रेण पर्यन्तचरोडुचक्र: सुमेरुवप्रोऽन्वहमन्वकारि ।। ३-३७ ।।

टीका –
यस्या इति ।। चलन्तीनां वारिधिवारिवीचीनां छटासु परम्परासूच्छलद्भिरुत्पतद्भिः शङ्खानां कुलैराकुलेन सङ्कीर्णेन यस्याः पुरो वप्रेण प्राकारेण पर्यन्ते चरतीति तत्तादृशमुडुचक्रं नक्षत्रमण्डलं यस्य सः सुमेरोर्वप्रः सानुः । ‘सानुप्राकारयोर्वप्रम्’ इत्युभयत्रापि सज्जनः । अहन्यहनीत्यन्वहम् । ‘2-1-6 अव्ययं विभक्ति-‘ इत्यादिना यथार्थेऽव्ययीभावः । ‘5-4-108 अनश्च’ ‘5-4-109 नपुंसकादन्यतरस्याम्‌’ इति समासान्तष्टच् । अन्वकार्यनुकृतः । तत्साम्यं प्रापित इत्यर्थः । मेरूपमानाद्वप्रस्य यत्तुल्यमौन्नत्यं व्यज्यते ।

Translation – Mount Meru’s peak – around which the circular array of stars moves – was imitated day after day by that (Dwārkā) city’s rampart which was scattered by the multitude of conch-shells bouncing on the series of moving waves of ocean water.

लौकिक-विग्रह: –
(1) अहन्यहनि = अन्वहम् = day after day = every day.

अलौकिक-विग्रह: –
(2) अहन् ङि + अनु । By 2-1-6 अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु – A अव्ययम्‌ (indeclinable) used in any one of the following meanings invariably compounds with a (syntactically related) term ending in a सुँप् affix to yield a अव्ययीभाव: compound –
(i) विभक्ति: – a case affix
(ii) समीपम्‌ – close by
(iii) समृद्धि: (ऋद्धेराधिक्यम्‌) – prosperity
(iv) व्यृद्धि: (विगता ऋद्धि:) – adversity
(v) अर्थाभाव: – absence of something
(vi) अत्यय: (ध्वंस:) – disappearance (passing away)
(vii) असम्प्रति – presently inappropriate
(viii) शब्दप्रादुर्भाव: – manifestation of a sound
(ix) पश्चाद् – following
(x) यथा (योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्था:) – appropriateness, repetition, non-transgression of something, similarity
(xi) आनुपूर्व्यम्‌ – in orderly succession
(xii) यौगपद्यम्‌ – simultaneity
(xiii) सादृश्यम्‌ – similarity/resemblance. Note: यथार्थत्वेनैव सिद्धे पुन: सादृश्यग्रहणं गुणभूतेऽपि सादृश्ये यथा स्यादित्येवमर्थम्‌ – सादृश्यम्‌ is mentioned here again (even though it is already given as one of the meanings of यथा in (x) above) in order to allow compounding even when सादृश्यम्‌ is used in a secondary (adjectival) sense
(xiv) सम्पत्ति: (अनुरूप आत्मभाव:) – befitting state
(xv) साकल्यम्‌ – totality/completeness
(xvi) अन्त: – termination/end

(3) अनु + अहन् ङि । By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word ending in a nominative case in a सूत्रम् which prescribes a compound gets the designation ‘उपसर्जन’। Here the term ‘अव्ययम्’ in the सूत्रम् 2-1-6 ends in the nominative case. Therefore the अव्ययम् ‘अनु’ gets the designation ‘उपसर्जन’ by 1-2-43. Hence ‘अनु’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.
Note: ‘अनु + अहन् ङि’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) अनु + अहन् । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) अन्वहन् । By 6-1-77 इको यणचि

(6) अन्वहन् + टच् । By 5-4-108 अनश्च – Following a अव्ययीभाव: compound ending in ‘अन्’ the तद्धित: affix टच् is prescribed and this affix becomes the ending member of the compound.
Note: The term अन: is qualifying अव्ययीभावात्। Hence as per 1-1-72 येन विधिस्तदन्तस्य, we get the meaning अन्नन्तादव्ययीभावात्‌।
Note: If a अव्ययीभाव: compound ends in a neuter प्रातिपदिकम् ending in ‘अन्’ then the next सूत्रम् 5-4-109 नपुंसकादन्यतरस्याम्‌ only optionally prescribes the affix टच् following such a compound.

See question 1.

(7) अन्वहन् + अ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्1-3-9 तस्य लोपः।
Note: The अङ्गम् ‘ अन्वहन्’ has the designation ‘भ’ here by 1-4-18 यचि भम्। This allows 6-4-144 to apply in the next step.

(8) अन्वह् + अ = अन्वह । By 6-4-144 नस्तद्धिते – The ‘टि’ portion (ref. 1-1-64 अचोऽन्त्यादि टि) of a अङ्गम् (base) is elided provided the अङ्गम् –
i) has the designation ‘भ’ (ref. 1-4-18 यचि भम्)
ii) ends in the letter ‘न्’ and
iii) is followed by a तद्धित: affix
Note: The ‘अन्’ part of the अङ्गम् ‘अन्वहन्’ has the designation ‘टि’ by the सूत्रम् 1-1-64 अचोऽन्त्यादि टि – That part of a group of sounds which begins with the last vowel of the group (and goes to the end of the group) gets the designation ‘टि’।

(9) अन्वह + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

(10) अन्वह + अम् । By 2-4-83 नाव्ययीभावादतोऽम्त्वपञ्चम्याः – This सूत्रम् has two parts – (a) नाव्ययीभावादत: – following a अव्ययीभावः compound ending (ref. 1-1-72) in the letter ‘अ’ a सुँप् affix does not take the लुक् elision (which would have been done by 2-4-82 अव्ययादाप्सुपः) and (b) अम्त्वपञ्चम्याः – following a अव्ययीभावः compound ending (ref. 1-1-72) in the letter ‘अ’ a सुँप् affix – other than a fifth case affix – is substituted by अम्।
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of the affix ‘अम्’ from getting इत्-सञ्ज्ञा।

(11) अन्वहम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. What is the optional final form in this example when the तद्धित: affix टच् (which is optionally prescribed by the सूत्रम् 5-4-109 नपुंसकादन्यतरस्याम्‌) is not applied in step 6?

2. Which कृत् affix is used to form the compound ‘वारिधि’ (used as part of the compound चलद्वारिधिवारिवीचिच्छटोच्छलच्छङ्खकुलाकुलेन in the verse)?

3. Which सूत्रम् prescribes the augment नुँम् in the form चलन्तीनाम् (स्त्रीलिङ्ग-प्रातिपदिकम् ‘चलन्ती’, षष्ठी-बहुवचनम्) used in the commentary?

4. In which word in the commentary has the affix णिच् been elided?

5. Where has the सूत्रम् 8-2-42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः been used in the commentary?

6. How would you say this in Sanskrit?
“I go to the temple every day.”

Easy questions:

1. Where has the सूत्रम् 3-1-66 चिण् भावकर्मणोः been used in the verse?

2. Can you spot the affix यक् in the commentary?

अनुदेहम् nNs

Today we will look at the form अनुदेहम् nNs from शिशुपालवधम् verse 9-73.

अनुदेहमागतवतः प्रतिमां परिणायकस्य गुरुमुद्वहता । मुकुरेण वेपथुभृतोऽतिभरात् कथमप्यपाति न वधूकरतः ।। ९-७३ ।।

टीका
अनुदेहमिति । अनुदेहं देहस्य पश्चात् । ‘2-1-6 अव्ययं विभक्ति – ‘ इत्यादिना पश्चादर्थेऽव्ययीभावः । आगतवतः परिणायकस्य परिणेतुः । वोढुरित्यर्थः । नयतेर्ण्वुल् प्रत्ययः । ‘8-4-14 उपसर्गादसमासेऽपि णोपदेशस्य’ इति णत्वम् । गुरुं पूज्यां, भारवतीं च प्रतिमां प्रतिबिम्बमुद्वहता पश्चात्स्थितस्यापि तदाभिमुख्यादिति भावः। मुकुरेण दर्पणेन कर्त्रा । ‘दर्पणे मुकुरादर्शौ’ इत्यमरः । वेपथुभृतो नवोढतया भयशृङ्गाराभ्यां कम्पमानात् । अतिमात्रो भरो यस्य तस्मादतिभरात् । प्रतिबिम्बगुरुमुकुरधारणादिति भावः। वध्वा नवोढायाः करतः पाणितलात् । पञ्चम्यास्तसिल् । कथमपि नापाति न पतितम् । महता प्रयत्नेन धारित इत्यर्थः। भावे लुङ् । एषा च मुग्धा । अत्र वधूकरस्य भारासम्बन्धेऽपि सम्बन्धोक्तेरतिशयोक्तिः । गुरुमिति श्लेषोत्थापितेति सङ्करः ।।

Translation – “The mirror which was bearing the weighty/venerable reflection of the groom – who had come behind the (bride’s) person – somehow did not fall from the bride’s heavy hand which was trembling.” (92)
Note: The Sanskrit sentence मुकुरेण न अपाति is passive. Its literal translation is ‘It was not fallen by the mirror.’ That is a clumsy construction in English. Hence the above translation is in the active – ‘The mirror did not fall.’

लौकिक-विग्रह: –
(1) देहस्य पश्चात् = अनुदेहम् = Following/behind the body.

अलौकिक-विग्रह: –
(2) देह ङस् + अनु । By 2-1-6 अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु – A अव्ययम्‌ (indeclinable) used in any one of the following meanings invariably compounds with a (syntactically related) term ending in a सुँप् affix to yield a अव्ययीभाव: compound –
(i) विभक्ति: – a case affix
(ii) समीपम्‌ – close by
(iii) समृद्धि: (ऋद्धेराधिक्यम्‌) – prosperity
(iv) व्यृद्धि: (विगता ऋद्धि:) – adversity
(v) अर्थाभाव: – absence of something
(vi) अत्यय: (ध्वंस:) – disappearance (passing away)
(vii) असम्प्रति – presently inappropriate
(viii) शब्दप्रादुर्भाव: – manifestation of a sound
(ix) पश्चाद् – following
(x) यथा (योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्था:) – appropriateness, repetition, non-transgression of something, similarity
(xi) आनुपूर्व्यम्‌ – in orderly succession
(xii) यौगपद्यम्‌ – simultaneity
(xiii) सादृश्यम्‌ – similarity/resemblance. Note: यथार्थत्वेनैव सिद्धे पुन: सादृश्यग्रहणं गुणभूतेऽपि सादृश्ये यथा स्यादित्येवमर्थम्‌ – सादृश्यम्‌ is mentioned here again (even though it is already given as one of the meanings of यथा in (x) above) in order to allow compounding even when सादृश्यम्‌ is used in a secondary (adjectival) sense
(xiv) सम्पत्ति: (अनुरूप आत्मभाव:) – befitting state
(xv) साकल्यम्‌ – totality/completeness
(xvi) अन्त: – termination/end

(3) अनु + देह ङस् । By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word ending in a nominative case in a सूत्रम् which prescribes a compound gets the designation ‘उपसर्जन’। Here the term ‘अव्ययम्’ in the सूत्रम् 2-1-6 ends in the nominative case. Therefore the अव्ययम् ‘अनु’ gets the designation ‘उपसर्जन’ by 1-2-43. Hence ‘अनु’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.
Note: ‘अनु + देह ङस्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) अनु + देह = अनुदेह । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) अनुदेह + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

(6) अनुदेह + अम् । By 2-4-83 नाव्ययीभावादतोऽम्त्वपञ्चम्याः – This सूत्रम् has two parts – (a) नाव्ययीभावादत: – following a अव्ययीभावः compound ending (ref. 1-1-72) in the letter ‘अ’ a सुँप् affix does not take the लुक् elision (which would have been done by 2-4-82 अव्ययादाप्सुपः) and (b) अम्त्वपञ्चम्याः – following a अव्ययीभावः compound ending (ref. 1-1-72) in the letter ‘अ’ a सुँप् affix – other than a fifth case affix – is substituted by अम्।
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of the affix ‘अम्’ from getting इत्-सञ्ज्ञा।

(7) अनुदेहम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Can you spot the affix क्तवतुँ in the verse?

2. Which कृत् affix is used to derive the प्रातिपदिकम् ‘वेपथु’ (used in the compound वेपथुभृत: in the verse)?

3. Which सूत्रम् prescribes the substitution ‘ण्’ in the form परिणायकस्य (प्रातिपदिकम् ‘परिणायक’, पुंलिङ्गे षष्ठी-एकवचनम्)?

4. In which sense has a third case affix been used in the form मुकुरेण?
i. कर्तरि
ii. करणे
iii. हेतौ
iv. None of the above

5. Where has the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे been used in the verse?

6. How would you say this in Sanskrit?
“You (plural) go ahead. I’ll follow you.” Paraphrase to “You (plural) go ahead. I’ll come behind (your) footsteps.” Construct a अव्ययीभाव: compound for ‘behind (your) footsteps’ (पदानां पश्चात्)।

Easy questions:

1. Can you spot the substitution ‘चिण्’ (in place of ‘च्लि’) in the verse?

2. In which two words in the commentary has the सूत्रम् 6-1-111 ऋत उत्‌ been used?

अनुनदि ind

Today we will look at the form अनुनदि ind from शिशुपालवधम् verse 7-24.

श्रुतिपथमधुराणि सारसानामनुनदि शुश्रुविरे रुतानि ताभिः ।
विदधति जनतामनःशरव्यव्यधपटुमन्मथचापनादशङ्काम् ।। ७-२४ ।।

टीका –
श्रुतिपथेति ।। अनुनदि नदीनां समीपे । समीपार्थेऽव्ययीभावः । ‘2-4-18 अव्ययीभावश्च’ इति नपुंसकत्वे ह्रस्वत्वम् । ताभिः स्त्रीभिः जनानां समूहो जनता । ‘4-2-43 ग्रामजन-‘ इत्यादिना सामूहिकस्तल्प्रत्ययः । तस्या मनांस्वेव शरव्यं लक्ष्यम् । ‘लक्ष्यं शरव्यं च’ इत्यमरः । तस्य व्यधो वेधः । ‘3-3-61 व्यधजपोरनुपसर्गे’ इत्यप्प्रत्ययः । तत्र पटुः समर्थो यो मन्मथचापनादः । स इति शङ्कां भ्रमं विदधति विदधानानि । ‘7-1-79 वा नपुंसकस्य’ इति वैकल्पिको नुम्प्रतिषेधः । श्रुतिपथमधुराणि । श्राव्याणीत्यर्थः । सारसानां रुतानि शुश्रुविरे श्रुतानि । सारसरुतश्रवणान्मन्मथोद्दीपनमासीदित्यर्थः । अत्र सारसरुते मन्मथचापनादभ्रमाद् भ्रान्तिमदलङ्कारः । ‘कविसम्मतसादृश्याद्विधेये पिहितात्मनि । आरोप्यमाणानुभवो यत्र स भ्रान्तिमान् मतः ।।’ इति लक्षणात् ।। २४ ।।

Translation – “In the vicinity of the rivers were heard by those women the notes of cranes/swans which were delightful to the ear and were (as if) creating a doubt that they were the sounds of cupid’s bow expert at piercing their target in the form of people’s minds.” (92)

लौकिक-विग्रह: –
(1) नदीनां समीपम्‌ = अनुनदि = The vicinity of the rivers.

अलौकिक-विग्रह: –
(2) नदी आम् + अनु । By 2-1-6 अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु – A अव्ययम्‌ (indeclinable) used in any one of the following meanings invariably compounds with a (syntactically related) term ending in a सुँप् affix to yield a अव्ययीभाव: compound –
(i) विभक्ति: – a case affix
(ii) समीपम्‌ – close by
(iii) समृद्धि: (ऋद्धेराधिक्यम्‌) – prosperity
(iv) व्यृद्धि: (विगता ऋद्धि:) – adversity
(v) अर्थाभाव: – absence of something
(vi) अत्यय: (ध्वंस:) – disappearance (passing away)
(vii) असम्प्रति – presently inappropriate
(viii) शब्दप्रादुर्भाव: – manifestation of a sound
(ix) पश्चाद् – following
(x) यथा (योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्था:) – appropriateness, repetition, non-transgression of something, similarity
(xi) आनुपूर्व्यम्‌ – in orderly succession
(xii) यौगपद्यम्‌ – simultaneity
(xiii) सादृश्यम्‌ – similarity/resemblance. Note: यथार्थत्वेनैव सिद्धे पुन: सादृश्यग्रहणं गुणभूतेऽपि सादृश्ये यथा स्यादित्येवमर्थम्‌ – सादृश्यम्‌ is mentioned here again (even though it is already given as one of the meanings of यथा in (x) above) in order to allow compounding even when सादृश्यम्‌ is used in a secondary (adjectival) sense
(xiv) सम्पत्ति: (अनुरूप आत्मभाव:) – befitting state
(xv) साकल्यम्‌ – totality/completeness
(xvi) अन्त: – termination/end

See question 2.

(3) अनु + नदी आम् । By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word ending in a nominative case in a सूत्रम् which prescribes a compound gets the designation ‘उपसर्जन’। Here the term ‘अव्ययम्’ in the सूत्रम् 2-1-6 ends in the nominative case. Therefore the अव्ययम् ‘अनु’ gets the designation ‘उपसर्जन’ by 1-2-43. Hence ‘अनु’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.
Note: ‘ अनु + नदी आम्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) अनुनदी । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।
Note: By 2-4-18 अव्ययीभावश्च – A अव्ययीभावः compound also is neuter in gender. This allows 1-2-47 to apply in the following step.

(5) अनुनदि । By 1-2-47 ह्रस्वो नपुंसके प्रातिपदिकस्य – In the neuter gender, the ending vowel (if any) of a प्रातिपदिकम् is shortened.

(6) अनुदि + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
Note: By 1-1-41 अव्ययीभावश्च – The compounds that are अव्ययीभाव-समासाः are also designated as indeclinables. This allows 2-4-82 to apply in the following step.

(7) अनुनदि । By 2-4-82 अव्ययादाप्सुपः – The feminine affix आप् and सुँप् affixes that are prescribed after an अव्ययम् take the लुक् elision.

Questions:

1. Which अधिकार-सूत्रम् exerts its influence on the सूत्रम् 2-1-6 अव्ययं विभक्तिसमीप…वचनेषु?
i) 2-1-3 प्राक् कडारात्‌ समासः
ii) 2-1-4 सह सुपा
iii) 2-1-5 अव्ययीभावः
iv) All of the above

2. Commenting on the सूत्रम् 2-1-6 अव्ययं विभक्तिसमीप…वचनेषु (used in step 2) the काशिका says – वचनग्रहणं प्रत्येकं सम्बध्यते। Please explain.

3. Where has the सूत्रम् 3-3-114 नपुंसके भावे क्तः been used in the verse?

4. Which कृत् affix is used to form the प्रातिपदिकम् ‘व्यध’ (used as part of the compound जनतामनःशरव्यव्यधपटुमन्मथचापनादशङ्काम्) in the verse?

5. Which सूत्रम् prescribes the affix ‘अ’ used to form the feminine प्रातिपदिकम् ‘शङ्का’ (used as part of the compound जनतामनःशरव्यव्यधपटुमन्मथचापनादशङ्काम्) in the verse?

6. How would you say this in Sanskrit?
“The gopīs stood in the vicinity of Lord Kṛṣṇa.”

Easy questions:

1. Which सूत्रम् prescribes the substitution ‘इरे’ in the form शुश्रुविरे?

2. What is the alternate form for the word विदधति used in the verse?

अम्बुदस्य mGs

Today we will look at the form अम्बुदस्य mGs from शिशुपालवधम् 14-46.

निर्गुणोऽपि विमुखो न भूपतेर्दानशौण्डमनसः पुरोऽभवत् ।
वर्षुकस्य किमपः कृतोन्नतेरम्बुदस्य परिहार्यमूषरम् ।। १४-४६ ।।

टीका
निर्गुण इति ।। दानशौण्डमनसो दानशूरचित्तस्य । बहुप्रदस्येत्यर्थः । ‘स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे । मत्ते शौण्डोत्कटक्षीबाः’ इत्यमरः । भूपतेः पुरोऽग्रे निर्गुणस्तपोविद्यादिगुणहीनोऽपि विमुखो निष्फलो नाभवत्, किन्तु पूर्णकाम एवाभवत् । भूरिदाने सर्वस्यापि पात्रत्वादिति भावः । अत एव तेनापात्रवर्षदोषोऽपि न करुणवृत्तेरित्याशयेन दृष्टान्तमाह – वर्षुकस्येति । अपो जलानि । ‘2-3-69 न लोकाव्ययनिष्ठाखलर्थतृनाम्‌’ इत्यादिना षष्ठीप्रतिषेधः । वर्षुकस्य वर्षणशीलस्य । ‘3-2-154 लषपतपदस्थाभूवृषहनकमगमशॄभ्य उकञ्’ इत्यादिना उकञ्प्रत्यये लघूपधगुणः। कृतोन्नतेः कृतोदयस्याम्बुदस्य । अम्बुदेनेत्यर्थः । ‘2-3-71 कृत्यानां कर्तरि वा’ इति षष्ठी । ‘स्यादूषः क्षारमृत्तिका’ इत्यमरः । तद्वत्क्षेत्रमूषरम् । ‘ऊषवानूषरो द्वावप्यन्यलिङ्गौ स्थलं स्थली’ इत्यमरः । ‘5-2-107 ऊषसुषिमुष्कमधो रः’ इति र-प्रत्ययः । परिहार्यं त्याज्यं किम् नेत्यर्थः । अत्र पर्जन्यभूपालयोर्वाक्यभेदेन बिम्बप्रतिबिम्बितया समानधर्माभिधानाद् दृष्टान्तालङ्कारः ।।

Translation – In front of the king (Yudhiṣṭhira), whose mind was skilled in charity, even a person devoid of good qualities was not disappointed. (Just like) for a cloud, which has risen high and is pouring down water, is a barren spot with saline soil to be forsaken? (Indeed no.)

अम्बुदस्य is पुंलिङ्गे षष्ठी-एकवचनम् of the प्रातिपदिकम् ‘अम्बुद’।

(1) अम्बुद + ङस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per the सूत्रम् 2-3-71 कृत्यानां कर्तरि वा – A sixth case affix (‘ङस्’, ‘ओस्’, ‘आम्’) is optionally used to denote कर्ता (the doer) of an action denoted by a word ending in a ‘कृत्य’ affix (prescribed in the अधिकार: of 3-1-95 कृत्याः।) Note: When the sixth case affix is not used, a third case affix is used as per 2-3-18 कर्तृकरणयोस्तृतीया।
In the present example ‘अम्बुद’ (‘cloud’) is the doer of the action (of abandoning) denoted by the word ‘परिहार्य’ (which ends in the affix ण्यत् prescribed by the सूत्रम् 3-1-124 ऋहलोर्ण्यत्‌।) Hence ‘अम्बुद’ optionally takes a sixth case affix.

(2) अम्बुदस्य । By 7-1-12 टाङसिङसामिनात्स्याः – Following a अङ्गम् ending in the letter ‘अ’, the affixes ‘टा’, ‘ङसिँ’ and ‘ङस्’ are replaced respectively by ‘इन’, ‘आत्’ and ‘स्य’। As per 1-1-55 अनेकाल्शित्सर्वस्य the entire affix ‘ङस्’ is replaced.

Questions:

1. Where has the सूत्रम् 2-3-71 कृत्यानां कर्तरि वा been used between verses 20-25 of Chapter Three of the गीता?

2. Commenting on the सूत्रम् 2-3-71 the सिद्धान्तकौमुदी says – अत्र योगो विभज्यते। कृत्यानाम्। उभयप्राप्ताविति नेति चानुवर्तते। तेन नेतव्या व्रजं गाव: कृष्णेन। तत: कर्तरि वा। Please explain.

3. Commenting on the सूत्रम् 2-3-71 the तत्त्वबोधिनी says – ‘कर्तृकर्मणो: -‘ इति नित्ये प्राप्ते विभाषेयम्। Please explain.

4. Where has the सूत्रम् 2-3-69 न लोकाव्ययनिष्ठाखलर्थतृनाम्‌ been used in the verse?

5. Consider the प्रातिपदिकम् ‘बहुप्रद’ used in the commentary. Can you find the सूत्रम् (which we have seen in a prior comment) that justifies the use of the affix ‘क’ in the derivation of ‘बहुप्रद’? Note that 3-2-3 आतोऽनुपसर्गे कः cannot be used here because the उपसर्ग: ‘प्र’ is present. Hint: The अनुवृत्ति: of ‘क’ goes from 3-2-3 आतोऽनुपसर्गे कः down to 3-2-7 समि ख्यः।

6. How would you say this in Sanskrit?
“All of us ought to study the Gīta.” Paraphrase to “The Gīta ought to be studied by all of us.” Use the verbal root √इ (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१) with the उपसर्ग: ‘अधि’ for ‘to study.’

Easy questions:

1. Which सूत्रम् prescribes the elision of the letter ‘इ’ in the form अभवत्?

2. In the verse can you spot a प्रातिपदिकम् which is used only in the plural (no singular or dual)?

आत्मजाय mDs

Today we will look at the form आत्मजाय mDs from शिशुपालवधम् 15-68.

गृहमागताय कृपया च कथमपि निसर्गदक्षिणाः । क्षान्तिमहितमनसो जननीस्वसुरात्मजाय चुकुपुर्न पाण्डवाः ।। १५-६८ ।।

टीकागृहमिति ।। निसर्गदक्षिणाः स्वभावतो दाक्षिण्यसंपन्नाः । परच्छन्दानुवर्तिन इत्यर्थः । ‘त्रिषु वाक्कुशलावामपरच्छन्दानुवर्तिषु । दक्षिणा’ इति वैजयन्ती । किंच क्षान्त्या क्षमया महितमनसः पूजितचित्ताः क्षमावन्तः पाण्डवाः । किंच गृहमागताय । अभ्यागतायेत्यर्थः किंच जननीस्वसुर्मातृष्वसुरात्मजाय शिशुपालाय कृपया च कथमपि । असह्यापराधेऽपीत्यर्थः । न चुकुपुः न चुक्रुधुः । सद्योवध्यस्यापि तस्याभ्यागतत्वान्मातृबन्धुत्वात्स्वयं क्षान्तत्वाद्दाक्षिण्यात्कृपया च कथमपि जिघांसां न चक्रुरित्यर्थः । ‘1-4-37 क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः’ इत्यादिना संप्रदानत्वाच्चतुर्थी । अत्राभ्यागतत्वादिविशेषणानां साभिप्रायत्वादकोपहेतुत्वाच्च परिकरः काव्यलिङ्गे सति सापेक्षत्वात्संकीर्यते ।।

Translation – The Pāṇdavas, who by nature dealt favorably towards others and whose mind was graced by forgiveness, out of compassion didn’t somehow get angry with their aunt’s (mother’s sister’s)  son (Śiśupāla) who had come to their home (as a guest.)

आत्मजाय is पुंलिङ्गे चतुर्थी-एकवचनम् of the प्रातिपदिकम् ‘आत्मज’।

‘आत्मज’ (son) gets the designation सम्‍प्रदानम् (recipient) by the सूत्रम् 1-4-37 क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः – When the verbal root √क्रुध् (क्रुधँ क्रोधे (कोपे) ४. ८६) or √द्रुह् (द्रुहँ जिघांसायाम् ४. ९४) or √ईर्ष्य् (ईर्ष्यँ ईर्ष्यार्थ: १. ५८८) or √असूय (derived by using 3-1-27 कण्ड्वादिभ्यो यक्) or a synonym of any one of these is employed, that कारकम् (participant in the action) against whom the ‘anger’ is directed gets the designation सम्‍प्रदानम् (recipient.)

(1) आत्मज + ङे । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per 2-3-13 चतुर्थी सम्प्रदाने – A fourth case affix (‘ङे’, ‘भ्याम्’, ‘भ्यस्’) is used to denote the सम्‍प्रदानम् (recipient) provided it has not been expressed otherwise.

(2) आत्मज + य । By 7-1-13 ङेर्यः – Following a प्रातिपदिकम् ending in the letter ‘अ’, the affix ‘ङे’ (चतुर्थी-एकवचनम्) is replaced by ‘य’।

(3) आत्मजाय । By 7-3-102 सुपि च – The ending letter ‘अ’ of a प्रातिपदिकम् is elongated if it is followed by a सुँप् affix beginning with a letter of the यञ्-प्रत्याहार:।

Questions:

1. Commenting on the सूत्रम् 1-4-37 क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः the सिद्धान्तकौमुदी says – यं प्रति कोप: किम्? भार्यामीर्ष्यति मैनामन्यो द्राक्षीदिति। Please explain.

2. Which सूत्रम् justifies the use of a third case in the form कृपया used in the verse?

3. Can you spot the affix ‘ड’ in the verse?

4. Where has the सूत्रम् 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये been used in the commentary?

5. From which verbal root is the feminine प्रातिपदिकम् ‘जिघांसा’ (used in the form जिघांसाम् in the commentary) derived?

6. How would you say this in Sanskrit?
“You get angry with me for no reason.” Paraphrase to “Without reason you get angry with me.”

Easy questions:

1. Which सूत्रम् prescribes the substitution ‘च्’ in the form चुकुपु:?

2. From which verbal root is संकीर्यते (used in the commentary) derived?

अलिविरुतैः mIp

Today we will look at the form अलिविरुतैः mIp from शिशुपालवधम् 8-23.

कान्तानां कुवलयमप्यपास्तमक्ष्णोः शोभाभिर्न मुखरुचाहमेकमेव । संहर्षादलिविरुतैरितीव गायल्लोलोर्मौ पयसि महोत्पलं ननर्त ।। ८-२३ ।।

टीका –
कान्तानामिति ।। लोलोर्मौ चपलोर्मणि । ‘तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य’ (7-1-74) इति विकल्पात्पुंवद्भावः । पयसि महोत्पलमरविन्दं कर्तृ । ‘अरविन्दं महोत्पलम्‘ इत्यमरः । कान्तानां मुखरुचाऽहमेकमेव नापास्तं, किन्तु तासामक्ष्णोः शोभाभिः कुवलयमप्यपास्तमिति संहर्षात्सन्तोषाद्धेतोरलिविरुतैर्गायत् । अलिरुतरूपं गानं कुर्वदिति रूपकम् । ‘इत्थंभूतलक्षणे’ (2-3-21) इति तृतीया । ननर्तेव । ‘न दुःखं पञ्चभिः सह’ इति न्यायान्नृत्यति स्म । अत्रोर्मिचलनहेतुके महोत्पलचलने अलिनादसंहर्षहेतुकसमाननृत्यत्वोत्प्रेक्षणात् क्रियानिमित्ता क्रियास्वरूपोत्प्रेक्षा वाच्या ।

Translation – ‘It is not only I that have been belittled by the luster of the faces of the lovely ladies, but even the water-lily has been belittled by the elegance of their eyes,’ thus elated the lotus with its singing characterized by the humming of the bees, as if danced on the rippling waves of water.

अलिविरुतैः is तृतीया-बहुवचनम् of the compound नपुंसकलिङ्ग-प्रातिपदिकम् ‘अलिविरुत’।

(1) अलिविरुत + भिस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per 2-3-21 इत्थंभूतलक्षणे – A third case affix (‘टा’, ‘भ्याम्’, ‘भिस्’) is used following a प्रातिपदिकम् (nominal stem) which denotes a characteristic mark indicating that someone/something is thus.

(2) अलिविरुत + ऐस् । By 7-1-9 अतो भिस ऐस् – Following a अङ्गम् ending in the letter ‘अ’, the affix ‘भिस्’ is replaced by ‘ऐस्’। As per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य the entire affix ‘भिस्’ is replaced by ‘ऐस्’। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘ऐस्’ from getting the इत्-सञ्ज्ञा।

(3) अलिविरुतैस् । By 6-1-88 वृद्धिरेचि

(4) अलिविरुतैः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Commenting on the example जटाभिस्तापस: (given in the सिद्धान्तकौमुदी under the सूत्रम् 2-3-21 इत्थंभूतलक्षणे) the तत्त्वबोधिनी says – जटाभिर्ज्ञाप्यं यत्तापसत्वं तद्विशिष्ट इत्यर्थः। Please explain.

2. Which सूत्रम् prescribes the affix ‘क्त’ to derive the प्रातिपदिकम् ‘विरुत’ (used as part of the compound अलिविरुतैः)?

3. Can you spot the substitution ‘शतृँ’ (in the place of ‘लँट्’) in the verses?

4. What prevents the affix ‘क्त’ from taking the augment इट् in the form अपास्तम्?

5. Where has the सूत्रम् 3-1-124 ऋहलोर्ण्यत्‌ been used in the commentary?

6. How would you say this in Sanskrit?
“Did you (sir) see the student with (his distinctive mark of) the water-pot?” Use the masculine/neuter प्रातिपदिकम् ‘कमण्डलु’ for ‘water-pot.’ Use the अव्ययम् ‘अपि’ to express interrogation.

Easy questions:

1. Where has the सूत्रम् 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः been used in the verses?

2. Can you spot the affix श्यन् in the commentary?

सुस्थिरंमन्यः mNs

Today we will look at the form सुस्थिरंमन्यः mNs from शिशुपालवधम् 2.32.

संपदा सुस्थिरंमन्यो भवति स्वल्पयापि यः ।
कृतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम् ।। २-३२ ।।

मल्लिनाथ-टीका
यः स्वल्पयापि संपदा सुस्थिरमात्मानं मन्यत इति सुस्थिरंमन्यः स्वस्थमानी भवति । “आत्ममाने खश्च” इति खश्प्रत्यये मुमागमः । तस्याल्पसंतुष्टस्य तां स्वल्पसंपदं कृतकृत्यस्तावतैव कृतार्थो विधिर्दैवमपि न वर्धयति अहमिति मन्ये । पौरुषहीनाद्दैवमपि जुगुप्सते, तत्प्रवृत्तेः परमर्द्धिप्राप्तिरिति भावः ।।

Translation – I feel that ‘For one who considers himself very stable with even a small amount of wealth, fate – having satisfied its object – does not increase that wealth of his.’

सुस्थिरमात्मानं मन्यते = सुस्थिरंमन्यः।

“मन्य” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √मन् (मनँ ज्ञाने ४. ७३).

The (compound) प्रातिपदिकम् “सुस्थिरंमन्य” is derived as follows:

(1) सुस्थिर + ङस् + मन् + खश् । By the 3-2-83 आत्ममाने खश्च – When in composition with a सुबन्तं पदम् (a पदम् which ends in a सुँप् affix), the verbal root √मन् (मनँ ज्ञाने ४. ७३) may take the the affix “खश्” – as well as the affix “णिनिँ” – provided the agent of the verbal root is also its object.

Note: In the सूत्रम् 3-2-83, the term सुपि (which comes as अनुवृत्ति: in to the सूत्रम् 3-2-83 from the सूत्रम् 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये) ends in the seventh (locative) case. Hence “सुस्थिर + ङस्” gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌

Note: The affix “ङस्” is used here as per 2-3-65 कर्तृकर्मणोः कृति – To express the agent or the object (of an action), a nominal stem takes a sixth case affix when the nominal stem is used in conjunction with a term which ends in a कृत् affix. (This is what is called as कृद्योगे षष्ठी)।

(2) सुस्थिर + ङस् + मन् + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: The affix खश् has सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्। This allows 3-1-69 दिवादिभ्यः श्यन् to apply in the next step.

(3) सुस्थिर + ङस् + मन् + श्यन् + अ । By 3-1-69 दिवादिभ्यः श्यन्, the श्यन्-प्रत्यय: is placed after the verbal roots belonging to the दिवादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌

(4) सुस्थिर + ङस् + मन् + य + अ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) सुस्थिर + ङस् + मन् + य । By 6-1-97 अतो गुणे

We form a compound between “सुस्थिर ङस्” (which is the उपपदम्) and “मन्य” by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation “उपपद” (in this case “सुस्थिर ङस्”) invariably compounds with a syntactically related term (in this case “मन्य”) as long as the compound does not end in a तिङ् affix.

In the compound, “सुस्थिर ङस्” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation “उपसर्जन” should be placed in the prior position. Note: Here “सुस्थिर ङस्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case “उपपदम्”) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation “उपसर्जन”।
“सुस्थिर ङस् + मन्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(6) सुस्थिर + मन्य । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(7) सुस्थिर मुँम् + मन्य । By 6-3-67 अरुर्द्विषदजन्तस्य मुम् – When followed by a उत्तरपदम् (latter member of a compound) which ends in a खित् (having खकार: as a इत्) affix, the पूर्वपदम् (prior member of a compound) takes the augment मुँम् provided the following two conditions are satisfied:
(i) the पूर्वपदम् is either “अरुस्”, “द्विषत्” or ends in a अच् (vowel)
(ii) the पूर्वपदम् is not a अव्ययम्।
As per 1-1-47 मिदचोऽन्त्यात्परः, the मुँम् augment joins after the last vowel (अकार:) of “सुस्थिर”।

(8) सुस्थिरम् + मन्य । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(9) सुस्थिरंमन्य । By 8-3-23 मोऽनुस्वारः

(10) सुस्थिरम्मन्य/सुस्थिरंमन्य । By 8-4-59 वा पदान्तस्य

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(11) सुस्थिरंमन्य + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(12) सुस्थिरंमन्य + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(13) सुस्थिरंमन्यः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the सूत्रम् 6-3-67 अरुर्द्विषदजन्तस्य मुम् (used in step 7) been used for the first time in the गीता?

2. Where else (besides in सुस्थिरंमन्यः) has the सूत्रम् 3-2-83 आत्ममाने खश्च been used in the commentary?

3. Which सूत्रम् is used to prescribe the affix  ‘सन्’ in the form जुगुप्सते?

4. Can you spot an affix ‘क्यप्’ in the verses?

5. Where has the सूत्रम् 6-4-64 आतो लोप इटि च been used in the first line of the commentary?

6. How would you say this in Sanskrit?
“I consider myself to be self-dependent.” Use the compound प्रातिपदिकम् “स्वस्थ” (used in the commentary) for “self-dependent.”

Easy questions:

1. Derive the form मन्ये from the verbal root √मन् (मनँ ज्ञाने ४. ७३). (Use 3-1-69 दिवादिभ्यः श्यन्)।

2. Where has the सूत्रम् 7-3-105 आङि चापः been used in the verses?

 

दन्दह्यते 3As-लँट्

Today we will look at the form दन्दह्यते 3As-लँट् from शिशुपालवधम् 2.11

न दूये सात्वतीसूनुर्यन्मह्यमपराध्यति ।
यत्तु दन्दह्यते लोकमदो दुःखाकरोति माम् ॥ 2-11 ॥

मल्लिनाथ-टीका
सत्वतोऽपत्यं स्त्री सात्वती नाम हरेः पितृष्वसा । “उत्सादिभ्योऽण्” । तस्याः सूनुश्वैद्यः । बन्धुरपि खलो न मृष्यत इति भावः । यन्मह्यमपराध्यति द्रुह्यतीति यावत् । ‘क्रुधद्रुह–‘ इत्यादिना चतुर्थी । तत इति शेषः । यत्तदोर्नित्यसम्बन्धात् । न दूये न परितप्ये । दूङो दैवादिकात् । कर्तरि लट् । उत्तमपुरुषैकवचनम् । किन्तु लोकं दन्दह्यते । गर्हितं यथा स्यादेवं दहतीति यावत् । ‘लुपसदचरजप–‘ इत्यादिना गर्हायां यङ् ‘जपजभदहदशभञ्जपशां च’ इत्यभ्यासस्य नुगागमः । अदो लोकदहनं मां दुःखाकरोति । दुःखमनुभावयतीत्यर्थः । ‘दुःखात्प्रातिलोम्य’ इति डाच्प्रत्ययः । अतश्चैद्य एवाभिघातव्यः, पार्थस्तु प्रार्थनयापि पश्चात्समाधेय इत्यर्थः ।

Translation – I am not pained by the fact that the son of Sātvatī bears malice towards me. But what makes me sad is that he despicably torments people.

दन्दह्यते is a form derived from the verbal root √दह् (भ्वादि-गणः, दहँ भस्मीकरणे धातु-पाठः #१. ११४६) in the sense of acting in a contemptible manner.

गर्हितं दहति = दन्दह्यते।

In the धातु-पाठः, the ending अकारः of “दहँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोपः by 1-3-9 तस्य लोपः

The यङन्त-धातुः “दन्दह्य” is derived as follows:

(1) दह् + यङ् । By 3-1-24 लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम् – Following the verbal root √लुप् (लुपॢँ छेदने ६. १६७), √सद् (षदॢँ विशरणगत्यवसादनेषु १. ९९०, षदॢँ विशरणगत्यवसादनेषु ६. १६३), √चर् (चरँ गत्यर्थ: १. ६४०), √जप् (जपँ व्यक्तायां वाचि | जपँ मानसे च १. ४६३), √जभ् (जभीँ गात्रविनामे १. ४५३), √दह् (दहँ भस्मीकरणे १. ११४६), √दश् (दन्शँ दशने १. ११४४) or √गॄ (गॄ निगरणे ६. १४६), the affix “यङ्” is prescribed only in the sense of “contempt for action” (and not in the sense of repetition or intensity.)

(2) दह् + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) दह्य् दह्य । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix सन्/यङ् which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(4) द दह्य । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(5) दं दह्य । By 7-4-86 जपजभदहदशभञ्जपशां च – When followed by either the affix “यङ्” or a लुक् elided affix “यङ्”, the reduplicate (अभ्यासः) of the following verbal roots √जप् (जपँ व्यक्तायां वाचि । जपँ मानसे च १. ४६३), √जभ् (जभीँ गात्रविनामे १. ४५३), √दह् (दहँ भस्मीकरणे १. ११४६), √दश् (दन्शँ दशने १. ११४४), √भञ्ज् (भञ्जोँ आमर्दने ७. १६) and √पश् (सौत्रो धातु:) takes the augment “नुक्”। As per 1-1-46 आद्यन्तौ टकितौ, the “नुक्”-आगम: attaches to the end of the reduplicate “द” (the अकारः)।

Note: नुकानुस्वारो लक्ष्यते – The augment “नुक्” prescribed in the section (from 7-4-85 to 7-4-87) stands for a अनुस्वारः।
Note: 7-4-83 दीर्घोऽकितः does not apply here because the कित् augment “नुक्” has been added to the अभ्यासः।

(6) दन्दह्य/दंदह्य । By 8-4-59 वा पदान्तस्य. Note: As per the वार्तिकम् (under 7-4-85) पदान्तवच्चेति वक्तव्यम् – The augment अनुस्वारः prescribed in the section (from 7-4-85 to 7-4-87) should be treated as if it is at the end of a पदम्। This allows 8-4-59 वा पदान्तस्य to apply here.

Note: ङिदन्तत्वादात्मनेपदम् । Since a यङन्त-धातुः ends in the affix “यङ्” which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् a यङन्त-धातुः takes आत्मनेपद-प्रत्ययाः।

The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्

(7) दन्दह्य + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(8) दन्दह्य + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) दन्दह्य + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “त” as the substitute for the लकारः।

(10) दन्दह्य + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(11) दन्दह्य + शप् + ते । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(12) दन्दह्य + अ + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(13) दन्दह्यते । By 6-1-97 अतो गुणे

Questions:

1. Where has the affix यङ् been used in a तिङन्तं पदम् in the गीता?

2. Commenting on the term भावगर्हायाम् used in the सूत्रम् 3-1-24 लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम् the काशिका says भावगर्हायामिति किम्? साधु जपति। Please explain.

3. Commenting further on the सूत्रम् 3-1-24 the काशिका says नित्यग्रहणं विषयनियमार्थमनुवर्तते। एतेभ्यो नित्यं भावगर्हायामेव भवति, न तु क्रियासमभिहारे। भृशं लुम्पति। Please explain.

4. As explained in the commentary, in the verse the विवक्षा for the form दूये is लँट्, कर्तरि प्रयोगः, उत्तम-पुरुषः, एकवचनम्। What would be the form if the विवक्षा were to be लँट्, कर्मणि प्रयोगः, उत्तम-पुरुषः, एकवचनम्?

5. How would you say this in Sanskrit?
“The ogresses appointed by Rāvaṇa despicably tormented Sītā.” Use the adjective प्रातिपदिकम् “नियुक्त” (feminine “नियुक्ता”) for “appointed.”

6. How would you say this in Sanskrit?
“Seeing (having seen) the Lord’s universal form, Arjuna was intensely terrified.” Use the अव्ययम् “दृष्ट्वा” for “having seen”, use the neuter प्रातिपदिकम् “विश्वरूप” for “universal form” and use the verbal root √भी (ञिभी भये ३. २) for “to be terrified.”

Easy questions:

1. Can you spot a सकारान्त-प्रातिपदिकम् in the verse?

2. Where has the सूत्रम् 7-3-113 याडापः been used in the commentary?

Recent Posts

December 2024
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics