TBD.
दधः इति दधतिः कृतद्विर्वचनो निर्दिश्यते। तस्य झलन्तस्य बशः स्थाने भषादेशो भवति तकारथकारयोः परतः, चकारात् स्ध्वोश्च परतः। धत्तः। धत्थः। धत्से। धद्ध्वम्। वचनसामर्थ्यादातो लोपस्य स्थानिवद्भावो न भवति। अभ्यासजश्त्वस्य च असिद्धत्वम्। तथोः इति किम्? आनन्तर्यात् स्ध्वोरेव विज्ञायेत। चकारः तयोरनुवृत्त्यर्थः। झषन्तस्य इत्येव, दधाति।
TBD.
628 द्विरुक्तस्य झषन्तस्य धाञो बशो भष् स्यात्तयोः स्ध्वोश्च परतः. धत्तः. दधति. दधासि. धत्थः. धत्थ. धत्ते. दधाते. दधते. धत्से. धद्ध्वे. घ्वसोरेद्धावभ्यास लोपश्च. धेहि. अदधात्, अधत्त. दध्यात्, दधीत. धेयात्, धासीष्ट. अधात्, अधित. अधास्यत्. अधास्यत.. णिजिर् शौचपोषणयोः.. 11.. (इर इत्संज्ञा वाच्या)..
331 दधस्तथोश्च। धाधातोः कृतद्वित्वस्य दधा इत्यस्य `दधः' इति षष्ठ\उfffद्न्तम्। `एकाचो बशः' इत्यतो झषन्तस्य बशो भष् इत्यनुवर्तते। त थ् अनयोद्र्वन्द्वात् सप्तमीद्विवचनम्। तकारादकार उच्चारणार्थः। तकारथकारयोरिति लभ्यते। चकारात्स्ध्वोरिति समुच्चीयते। सकारे ध्वशब्दे चेति लभ्यते। तदाह- - द्विरुक्तस्येत्यादिना। तथा च अभ्यासे दकारस्य धकारः, तकारपरकत्वात्। ननु `श्नाभ्यस्तयो'रित्याल्लोपः। धत्थधत्त इति। धस्य चर्त्वेन त इति भावः। दधतीति। `अदभ्यस्ता'दित्यदादेशे `श्नाभ्यस्तयो'रित्याल्लोपः। धत्थ इति। थकारपरकत्वाद्भष्। धत्थ। दधामि। दध्व इति। परनिमित्ताऽभावान्न भष्। दध्मः। धत्ते इति। दधाते दधते। धत्से इति। सकारपरकत्वाद्भषिति भावः। दधाथे। धद्ध्वे इति। दध् ध्वे इति स्थिते ध्वशब्दपरकत्वाद्भषिति भावः। दधे दध्वहे दध्महे। दधौ। दधे। धाता। धास्यति धास्यते। दधातु–धत्तात् दधतु। धेहीति। `ध्वसो'रित्येत्त्वाभ्यासलोपाविति बावः। धत्तात् धत्तम् धत्त। दधानि दधाव दधाम। धत्ताम् दधाताम् दधताम्। धत्स्व दधाथाम् धद्ध्वम्। दधै दधावहै दधामहै। अदधात् अदधात् अधत्त। दध्यात् दधीत। धेयात् धासीष्ट। अधात्। अधितेति। `स्थाध्वोरिच्चे'ति इत्त्व#ए `ह्यस्वादङ्गा'दिति सिचो लोप इति भावः। अधास्यत् अधास्यत। णिजिर् धातुः। अनिडयं णोपदेशः। इरित्। इकारस्य प्रत्येकमित्त्वाऽभावान्न नुम्। इकारस्य स्वरितत्वप्रतिज्ञाबलादात्मगे फले आत्मनेपदं भवत्येव। तस्मादयमप्युभयुपदी। एवं विजिरपि ज्ञेयः। निजां त्रयाणाम्। निजां त्रयाणाम्। निजामिति बहुवचनात्तदादीनां ग्रहणम्। `अत्र लोपः' इत्यतोऽभ्यासस्येत्यनुवर्तते। तदाह– णिजिरित्यादिना। नेनेक्तीति। श्लौ द्वित्वे हलादिशेषे उत्तरखण्डस्य तिपमाश्रित्य गुणे पूर्वखण्डस्यानेन गुणे चोः कुत्वमिति भावः। अभ्यस्तत्वाददादेशं मत्वा आह– नेनिजतीति। नेनेक्षि नेनिक्थः नेनिक्थ। नेनेज्मि नेनिज्मः। नेनिक्ते नेनिजाते नेनिजते। नेनिक्षे नेनिजाथे नेनिध्वे। नेनिजे नेनिजवहे नेनिज्महे। निनेज निनिजतुः निनिजुः। निनेजिथ निनिजथुः निनिज। निनेज निनिजिव निनिजिम। निनिजे निनिजाते निनिजिरे। निनिजिषे निनिजाथे निनिजिध्वे। निनिजे निनिजिवहे निनिजिमहे। नेक्ता। नेक्ष्यति। नेनेक्तु नेनिक्तात् नेनिक्ताम् नेनिजतु। नेनिग्धीति। अपित्त्वेन ङित्त्वान्न गुणः। हेर्धिः। नेनिक्तात् नेनिक्तम् नेनिक्त। `आडुत्तमस्य' इति पित्त्वेन अङित्त्वाल्लघूपधगुमे प्राप्ते
287 दधस्तथोश्च। `दध' इति कृतद्विर्वचनाभ्यासकार्यो धाञेव गृह्रते न तु दध धारण इत्ययमिति व्याचष्टे— द्विरुक्तस्येति। झषन्तस्य किम् ?। दधाति। नन्वेवं `धत्ते' इत्यादावपि न स्यादाल्लोपस्य स्थानिवत्त्वेनाऽझषन्तत्वादत आह– वचनसामथ्र्यादिति।
415) दधस्तथोश्च 8-2-38
वृत्तिः द्विरुक्तस्य झषन्तस्य धाञो बशो भष् स्यात्तथो: स्ध्वोश्च परतः । A letter of the बश्-प्रत्याहारः of the reduplicated verbal root √धा (जुहोत्यादि-गणः, डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) ending in a letter of the झष्-प्रत्याहारः, is substituted by a letter of the भष्-प्रत्याहारः, when followed by an affix beginning with a तकारः, थकारः, सकारः or the term “ध्व”।
उदाहरणम् – धत्तः √धा (जुहोत्यादि-गणः, डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११), लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, द्विवचनम्।
The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः। Since this धातु: has ञकारः as an इत्, as per 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, it is उभयपदी।
Let us consider the case where it takes a परस्मैपद-प्रत्यय:।
धा + लँट् 3-2-123 = धा + ल् 1-3-2, 1-3-3
= धा + तस् 3-4-78, 1-4-101, 1-4-102, 1-4-108. तस् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= धा + शप् + तस् 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= धा + तस् 2-4-75 = धा + धा + तस् 6-1-10
= ध + धा + तस् 7-4-59
= ध + ध् + तस् 6-4-112 (Note: Since the सार्वधातुक-प्रत्यय: “तस्” is अपित्, by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-112 to apply)
= द + ध् + तस् 8-4-54
= ध + ध् + तस् 8-2-38. Note: Normally, as per 8-2-1, the दकारादेश: done by 8-4-54 should not be visible to 8-2-38. But then 8-2-38 would become useless – the conditions required for its application would never occur. So by the fact that पाणिनि: has composed (वचनसामर्थ्यात्) 8-2-38, it has to be given a chance to apply and hence it is allowed to see the operation done by 8-4-54. Also note that 8-2-40 झषस्तथोर्धोऽधः could not apply here because it contains the exclusion “अध:”। It doesn’t apply in the case of
this धातु:।
= ध + ध् + तः 8-2-66, 8-3-15
= ध + त् + तः 8-4-55 = धत्तः।
416) वार्तिकम् – इर इत्सञ्ज्ञा वाच्या । “इर्” should get the इत्-सञ्ज्ञा ।
By this वार्तिकम्, the term “इर्” gets the इत्-सञ्ज्ञा in verbal roots such as √निज् (णिजिँर् शौचपोषणयोः ३. १२), √विज् (विजिँर् पृथग्भावे ३. १३) etc. The इकारः and रेफः could have got इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and
1-3-3 हलन्त्यम् respectively. But doing that would make a verbal root such as √निज् (णिजिँर् शौचपोषणयोः ३. १२) an इदित् (that which has इकारः as इत्)। By 7-1-58 इदितो नुम् धातोः, a धातुः which has इकारः as an इत् gets the नुँम्-आगमः। In order to stop the नुँम्-आगमः, this वार्तिकम् declares the entire term “इर्” of a verbal root as a single इत्।
उदाहरणम् – √निज् (जुहोत्यादि-गणः, णिजिँर् शौचपोषणयोः, ३. १२)
The “इर्” in णिजिँर् gets the इत्-सञ्ज्ञा by the वार्तिकम् – इर इत्सञ्ज्ञा वाच्या and takes लोप: by 1-3-9 तस्य लोपः। The beginning णकारः is replaced by a नकारः by 6-1-65 णो नः, so only “निज्” remains.
The इकार: in the “इर्” of “णिजिँर्” has a स्वरित-स्वर: in the धातु-पाठ:। Therefore by 1-3-72, this धातु: is उभयपदी। In the example below it has taken a परस्मैपद-प्रत्यय:।