TBD.
श्ना इत्येतस्य अभ्यस्तानां च अङ्गानाम् आकारस्य लोपो भवति सार्वधातुके क्ङिति परतः। लुनते। लुनताम्। अलुनत। अभ्यस्तानाम् मिमते। मिमताम्। अमिमत। संजिहते। संजिहताम्। समजिहत। श्नाभ्यस् तयोः इति किम्? यान्ति। वान्ति। आतः इति किम्? बिभ्रति। क्ङिति इत्येव, अलुनात्। अजहात्। आद्ग्रहणं स्पष्टार्थम्।
TBD.
622 अनयोरातो लोपः क्ङिति सार्वधातुके. जहति. जहौ. हाता. हास्यति. जहातु, जहितात्, जहीतात्..
313 श्नभ्यस्तयोरातः। `गमहने'त्यतो लोपः क्ङितीत्यनुवर्तते। `अत उ'दित्यतः सार्वधातुके इति। तदाह–अनयोरिति। स्नाप्रत्ययस्य, अभ्यस्तस्य चेत्यर्थः। दरिद्रतीति। जक्षित्यादित्वादभ्यस्तत्वात् `अदभ्यास्ता'दिति झस्य अदादेशे आकारलोपः। दरिद्रासि दरिद्रिथः। दरिद्रिथ। दरिद्रामि दरिद्रिवः दरिद्रिमः। लिट\उfffदाह– अनेकाच्त्वादामिति। इदं च `कास्प्रत्यया'दिति सूत्रभाष्ये स्पष्टम्। दरिद्रांचकारेति। आमि सवर्णदीर्घः। कैयटमतमाह– आत इति। `आत औ णलःर' इत्त्र प्रथमातिक्रमे कारणाऽभावादोकार एव विधातुमुचितः। वृद्धौ स्तयां तावतैव ययौ इत्यादिसिद्धेः। तस्मादौकराविधानं दरिद्राधातोर्णलि `दरिद्रातेराद्र्धधातुके लोपो वक्तव्यः' इत्याल्लोपे `ददरिद्रौ' इत्यौकारश्रवणार्थं संपद्यते। ओकारविधाने तु आल्लोपे सति वृद्धेसंभवाद्दरिद्रातेर्लिटि आम्नेति विज्ञायते। आमि सति णल एवाऽप्रसक्तेरित्यर्थः। इदं च `वस्वेकाजाद्धसा'मिति सूत्रभाष्ये द्वनितं, कैयटेन स्पष्टीकृतम्। तन्निर्मूलमेवेति। ददरिद्र। ददरिद्रौ ददरिद्रिव ददरिद्रिम। आद्र्धधातुके विवक्षिते इति। `आतो लोप इटि'चे त्याल्लोपो दरिद्रातेर्भवन् क्ङिति अक्ङिति च अजादावाद्र्धातुके भवति। स च आद्र्धधातुके विवक्षिते ततः प्रागेव भवतीति वक्तव्यमित्यर्थः। तेन दरिद्रातीति दरिद्रः। आल्लोपे कृते पचाद्यच् सिध्यति। आद्र्धधातुके परे आल्लोपप्रवृत्तौ तु `श्याद्वद्यधे'त्यादन्तलक्षमो णप्रत्ययः स्यात्। ततश्च कृते णप्रत्यये आल्लोपं बाधित्वा `आतो युक् चिण्कृतोरिति युकि `दरिद्राय' इति स्यात्। आद्र्धधातुके विवक्षिते ततः प्रागेव आल्लोपे तु कृते आदन्तत्वाऽभावाण्णप्रत्ययाऽभावे पचाद्यच्प्रत्ययो निर्बाधः। तदिदं भाष्ये स्पष्टम्। लुङि वेति। लुङि आल्लोपो वा वक्तव्य इत्यर्थः। `अद्यतन्यां वेति वक्तव्य'मिति वार्तिकार्थसङ्ग्रहोऽयम्। अद्यतन्यामित्यनेन अद्यतनभूतार्थकविहितलुङ्?विभक्तिर्विवक्षिता, भाष्ये तस्या एवोदाहरमात्। सनि ण्वुलि ल्युटि च नेति। एतेषु दरिद्रातेराल्लोपो नेति वक्तव्यमित्यर्थः। ण्वुलि यथा– दरिद्रायकः। आतो युक्। ल्युटि यथा– दरिद्राणः। अनादेशे कृते आल्लोपाऽभावात्सवर्णदीर्घः। सनि यथा– दिदरिद्रासति। अनन्तरस्येति न्यायादस्य वार्तिकप्राप्तस्यैव लोपस्याऽयं निषेधः। तेन `तनिपतिदरिद्राणानुपसङ्ख्यान'मिति दरिद्रातेः सन इट्पक्षे `आतो लोप इटि चे'त्याल्लोपो भवत्येव— दिदरिद्रिषति। तासि इटि उदाह्मतव#आर्तिकेन आल्लोपः। `आतो लोप इटिचे' त्यस्य संभवेऽपि न्यायत्वादत्र वार्तिकोपन्यासः। दरिद्रिष्यति। दरिद्रातु–दरिद्रितात् दरिद्रिताम् दरिद्रतु। दरिद्रितम् दरिद्रित। दरिद्राणि दरिद्राव दरिद्राम। लड\उfffदाह— अदरिद्रादिति। इत्त्वं मत्वा आह– अदरिद्रितामिति। अदरिद्रुरिति। जक्षित्यादित्वेन अभ्यस्तत्वाज्जुसिति भावः। अदरिद्राः अदरिद्रितम् अदरिद्रित।अदरिद्राम् अदरिद्रव अदरिद्रिम। दरिद्रियादिति। विधिलिङि सार्वधातुकत्वादित्त्वमिति भावः। आशीर्लङ्याह- - दरिद्र\उfffदादिति। आतो लोप इति भावः। लुङि आतो लोपपक्षे आह– अदरिद्रीदिति। अदरिद्रिष्टामित्यादि। आल्लोपाऽभावपक्षे त्वाह– इट्सकाविति। अदरिद्रिष्यत्। चकासृ दीप्ताविति। ऋदित्। सेट्। चकास्ति चकास्त इतिसिद्धवत्कृत्याह– झस्य अदिति। जक्षित्यादित्वेन अभ्यस्तत्वादिति भावः। चकासतीति। चकास्सि चकास्थः चकास्थ। चकास्मि चकास्वः चकास्मः। चकासांचकारेति। अनेकाच्त्वादामिति भावः। चकासिता।चकासिष्यति। चकास्तु [चकास्तात्] चिकास्ताम् चकासतु। हेर्धिभावे चकास् धि इति स्थिते `धिचे'ति सलोप इति सिद्धन्तः। तत्र मतान्तरमाह—सिच एवेत्येके इति। `धिचे'ति लोपः सिच एवेत्येके मन्यन्ते इत्यर्थः। `धिसकारे सिचो लोपश्चकाद्धीति प्रयोजन'मिति वार्तिकादिति तदाशयः। अस्मिन्पक्षे सकारस्य जश्त्वेन दकारः। तदाह- - चकाद्धीति। `एके' इत्यस्वरसोद्भावनम्।तद्बीजं तु `धिसकारे सिचो लोपः इति वार्तिकं प्रत्याख्याय सकारमात्रस्य `धि चे' ति लोपस्याभ्युपगमः।तदाह– चकाधीत्येव भाष्यमिति। चकास्तात् चटकास्तम् चकास्त। चकासानि चकासाव चकासाम। लङि अ चकास् त् इति स्थिते–
273 श्नभ्यस्त।क्रीणन्ति।क्रीणते। पुनन्ति। पुनते। दधति दधते। क्ङिति किम् ?। क्रीणाति। पुनाति। दधाति। आतः किम् ?। बिभ्रति। ओ इत्येव सिद्धे इति। प्रथमत्यागे मानाऽभावादिति भावः। निर्मूलमेवेति। यत्तु व्याख्यातृभिः समथ्र्यते– `आमोऽभावे आतो लोपे कृते आदन्तत्वाऽभावादौत्वं नेति। तन्न। `आत औ णलः' इत्यत्र प्राथम्यादोकारे कर्तव्ये औकारविधानं दरिद्रातेराल्लोपेऽपि श्रवणार्थं सदामभावे लिङ्गमिति हरदत्तमाधवादिग्रन्थैः, स्वग्रन्थेन च विरोधात्। तत्कथमौत्वस्याऽप्रवृत्तिर्भवेत्यदप्युक्तम्- - ओकारौकारयोर्द्विमात्र्तवाऽविशएषादौकारविधानमिति तदपि स्थवीयः। तस्मिन्पक्षे आमो दुर्वारत्वप्रसङ्गात्। वाच्यः। विवक्षित इति। तेन दरिद्रातीति दरिद्र इति पचाद्यजेव भवति। परसप्तम्यां तु `श्याद्व्यधे'त्यादन्तलक्षणो णः स्यात्। सति तु तस्मिन् `आतो युक् चिण्कृतो'रिति युकि दरिद्राय इति स्यादिति भावः। सनि ण्वुलीति। एतेष्वालोपो नेत्यर्थः। दिदरिद्रासति। दरिद्रायकः। दरिद्राणम्। अदरिद्रुरिति। `सिजभ्यस्ते'ति झेर्जुस्। `लङः शाकटायनस्यैवे'त्यादन्तलक्षणो विकल्पस्तु न भवति, परत्वात् `स्नाभ्यस्तयो'त्याल्लोपे आकारान्तस्यैवाऽभावात्। `ई हल्यघो'रित्यात ईत्त्वमिह न शङ्क्यमेव। झेर्जुसि हलादिपरत्वाऽभावादिति भावः। ननु दरिद्रा झि इति स्थिते जुसः प्रागेव आल्लोपात्परत्वादपवादत्वाच्च ईत्वं स्यात्। मैवम्। अकृतव्यूहपरिभाषाया जागरूकत्वात्। ईत्त्वनिमित्तं हि हलादित्वं, तच्च विनासोन्मुखं, जुसो भावित्वात्। झस्य अदिति। `अदभ्यस्ता' दित्यनेन। तिप्यनस्तेः। पदान्तस्य किम् ?। चकास्ति। सस्येति किम्? ?। वशेर्लङि तिपि अवट्। तिपि किम् ?। क्विपि चकाः। अनस्तेः किम् ?। सर्वम्। इदम्। `आ' इति लङि तिपि अस्ते रूपम्। `बहुलं छन्दसी'ति ईट् न।
411) श्नाऽभ्यस्तयोरातः 6-4-112
वृत्तिः अनयोरातो लोपः क्ङिति सार्वधातुके । When followed by a सार्वधातुक-प्रत्ययः which is a कित् or a ङित्, the आकारः of the श्ना-प्रत्ययः or of a reduplicated root (अभ्यस्तम्) is elided.
उदाहरणम् – जहति (√हा, जुहोत्यादि-गणः, ओँहाक् त्यागे, धातु-पाठः #३.९), लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।
हा + लँट् 3-2-123 = हा + ल् 1-3-2, 1-3-3
= हा + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108, झि gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= हा + शप् + झि 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= हा + झि 2-4-75 = हा + हा + झि 6-1-10
= झा + हा + झि 7-4-62, 1-1-50
= झ + हा + झि 7-4-59
= झ + हा + अत् इ 7-1-4
= झहति 6-4-112 (Note: Since the सार्वधातुक-प्रत्यय: “अत् इ” is अपित्, by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-112 to apply.)
= जहति 8-4-54, 1-1-50