Table of Contents

<<7-4-58 —- 7-4-60>>

7-4-59 ह्रस्वः

प्रथमावृत्तिः

TBD.

काशिका

ह्रस्वो भवति अभ्यासस्य। दुढौकिषते। तुत्रौकिषते। डुढौके। तुत्रौके। अडुढौकत्। अतुत्रौकत्। अभ्यासस्य अनचि। अभ्यासस्य यदुच्यते अनचि तद् भवति इति वक्तव्यम्। चराचरः। चलाचलः। पतापतः। वदावदः। हलादिः शेषो न भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

399 अभ्यासत्याचो ह्रस्वः स्यात्..

बालमनोरमा

29 भू भूव् अ इति स्थिते–ह्यस्वः। `अत्र लोपोऽभ्यासस्ये'त्यतोऽभ्यासस्येत्यनुवर्तते। ह्यस्वश्रवणादचश्चेति परिभाषया अच इत्युपस्थितम्। तदाह– अभ्यासस्याऽच इति। भु भूव् अ इति स्थितम्। यद्यपि `भवतेर' इति वक्ष्यमाणाऽकारविधिनैव सिद्धमिदं तथापि लुलावेत्याद्यर्थमावश्यकमिदमत्रैव न्याय्यत्वादुपन्यस्तम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

403) ह्रस्वः 7-4-59
वृत्तिः अभ्‍यासस्याचो ह्रस्‍वः स्‍यात् । The अच् (vowel) of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः) is substituted by a short vowel.

उदाहरणम् – बिभीतः/बिभितः (√भी जुहोत्यादि-गणः, ञिभी भये, धातु-पाठः #३. २) लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, द्विवचनम्।

भी + लँट् 3-2-123 = भी + ल् 1-3-2, 1-3-3
= भी + तस् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तस् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भी + शप् + तस् 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भी + तस् 2-4-75 = भी + भी + तस् 6-1-10
= भि भी + तस् 7-4-59
Since the प्रत्यय: “तस्” is a सार्वधातुक-प्रत्यय: that is अपित् (does not have पकार: as an इत्), it becomes ङित्-वत् (as if it has ङकार: as an इत्) by 1-2-4. Hence 1-1-5 ग्क्ङिति च prevents the गुणादेश: which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।

उदाहरणम् – continued below