TBD.
णेः इति निवृत्तम्। शेषात् कर्तरि परस्मैपदे प्रप्ते स्वरितेतो ये धातवो ञितश्च तेभ्यः आत्मनेपदं भवति, कर्तारं चेत् क्रियाफलम् अभिप्रैति। क्रियायाः फलं क्रियाफलं प्रधानभूतम्, यदर्थम् असौ क्रिया आरभ्यते तच् चेत् कर्तुर् लकारवाच्यस्य भवति। यजते। पचते। ञितः खल्वपि सुनुते। कुरुते। स्वर्गादि प्रधानफलम् इह कर्तारम् अभिप्रैति। कर्त्रभिप्राये इति किम्? यजन्ति याजकाः। पचन्ति पाचकाः। कुर्वन्ति कर्मकराः। यद्यपि दक्षिणा भृतिश्च कर्तुः फल्मिहास्ति तथा अपि न तदर्थः क्रियारम्भः।
TBD.
381 स्वरितेतो ञितश्च धातोरात्मनेपदं स्यात्कर्तृगामिनि क्रियाफले..
8 स्वरितञितः। स्वरितश्च ञ् च स्वरितञौ, तौ इतौ यस्य तस्मादिति बहुव्रीहिः। इच्छब्दः प्रत्येकं सम्बध्यते। तदाह– स्वरितेतो ञितश्चेति। धातोरित्यनन्तरं `लस्य स्थाने'इति शेषः। कर्तारमभिप्रैति गच्छतीति `कत्र्रभिप्रायम्'। कर्मण्यण्। तदाह– कर्तृगामिनीति। एवं च `होता याज्यया यजती'त्यादौ यागफलस्य स्वर्गस्य यजमानगामित्वेन होतृगामित्वाऽभावान्नात्मनेपदम्। तथा `वेतनेन यज्ञदत्तभृतो देवदत्तः पचती'त्यत्रापि पाकफलस्य भोजनस्य पक्तृगामित्वाऽभावान्नात्मनेपदम्। दक्षिणादिलाभस्तु न फलम्। लोकतो वेदतो वा यदुद्देशेन क्रियाप्रवृत्तिस्तस्यैवात्र क्रियाफलशब्देन। विवक्षित्वात्। कर्तृगामिफलकक्रियावृत्तेर्धातोरित्यर्थः। आत्मनेपदं तु धात्वर्थफलस्य कर्तृगामित्वं द्योतयतीत्यलम्।
8 पूर्ववदिच्छब्दः प्रत्येकं संबध्यते। कर्तारमभिप्रैति गच्छतीति कत्र्रभिप्रायम्। `कर्मण्यण्'। धातोरिति। धातोर्लस्येत्यर्थः। लकारधात्वोराक्षेपः पूर्ववद्बोध्यः।
282) स्वरितञितः कर्त्रभिप्राये क्रियाफले 1-3-72
वृत्तिः स्वरितेतो ञितश्च धातोरात्मनेपदं स्यात्कर्तृगामिनि क्रियाफले । When the fruit of the action accrues to the agent (कर्ता), the आत्मनेपद-प्रत्यया: follow the धातुः which is distinguished in the धातु-पाठः by an इत् that has the स्वरित-स्वर: or by ञकारः as an इत्।