TBD.
सकारान्तस्य पदस्य सजुषित्येतस्य च रुः भवति। सकारान्तस्य अग्निरत्र। वायुरत्र। सजुषः सजूरृतुभिः। सजूर्देवेभिः। जुषेः क्विपि सपूर्वस्य रुपम् एतत्।
TBD.
105 पदान्तस्य सस्य सजुषश्च रुः स्यात्..
161 ससजुषो रुः। ससजुषो रु रिति छेदः। `रो रि'इति रेफलोपः। सश्च सजूश्च ससजुषौ, तयोरिति विग्रहः। रुविधौ उकार इत्। तत्फलं त्वनुपदमेव वक्ष्यते। `स' इति सकारो विविक्षितः। अकार उच्चारणार्थः। पदस्येत्यधिकृतं सकारेण सजुष्शह्देन च विशेष्यते। ततस्त दन्तविधिः। सकारान्तं सजुष्?शब्दान्तं च यत् पदं तस्य रुः स्यादित्यर्थः। सच `अलोऽन्त्ये'त्यन्त्यस्य भवति। तत्फलितमाह-पदान्तस्य सस्येति। सजुष्?शब्दस्य चेति। सजुष्शब्दान्तं यत् पदं तदन्तस्य षकारस्येत्यर्थः। ततश्च सजुषौ सजुष इत्यत्र षकारस्य न रुत्वम्, पदान्तत्वाभावात्। `सजुष्?शब्दान्तं यत् पदं तदन्तस्य षकारस्येत्यर्थः। ततस्च सजुषौ सजुष इत्यत्र षकारस्य न रुत्वम्, पदान्तत्वाभावात्। `सजुष्शब्दान्तं यत्पद'मिति तदन्तविधिना परमसजूरित्यत्र नाव्याप्तिः। न च सजूरित्यत्राव्याप्तिः शङ्क्या, व्यपदेशिवद्भावेन तदन्तत्वात्। `व्यपदेशिवद्भावो।ञप्रातिपदिकेन' इति `ग्रहणवता प्रातिपदिकेन तदन्तविधिर्न' इति च पारिभाषाद्वयं `प्रत्ययग्रहणे यस्मा'दितिविषयं, नतु येन विधिरितिविषयमिति `असमासे निष्कादिभ्यः' इति सूत्रे भाष्ये स्पष्टम्। ननु शिवसिति सकारस्य `झलाञ्जशोन्ते' इति जश्त्वेन दकारः स्यात्, जश्त्वं प्रति रुत्वस्य परत्वेऽपि असिद्धत्वादित्यत आह–जश्त्वापवाद इति। तथा च रुत्वस्य निरवकाशत्वान्नासिदधत्वमिति भावः। तदुक्तं भाष्ये `पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्ये'ति , `अपवादो वचनप्रामाण्यादि'ति च।
132 ससजुषो रुः। `पदस्ये'त्यनुवृतं ससजूभ्र्यां विशेष्यते, विशेषणेन तदन्तविधिः। न च सजूःशब्दांशे `ग्रहणवता प्रतिपदिकेन तदन्तविधिर्ने'ति निषेधः शङ्क्यः, तस्य प्रत्ययविधिविषयकत्वात्। सान्तं सजुष्शब्दान्तं च यत्पदं तस्य रुः स्यात्स चाऽलोन्त्यस्य। एवं स्थिते फलितमाह-पदान्तस्य सस्येति। सजुष्शब्दस्येति। तदन्तस्य पदस्येत्यर्थः। तेन `सुजुषौ' `सजुष' इत्यत्रापि नातिव्याप्तिः। नच `सजू'रित्यत्राऽव्याप्तिः, `व्यपदेशिवद्भावोऽप्रातिदिकेने'ति निषेधादिति वाच्यं, तस्यापि प्रत्ययविधिविषयकत्वात्। अतएव `व्यपदेशिवद्भावोऽप्रातिपदिकेने'ति `ग्रहणवते'ति च परिभाषाद्वयमपि प्रत्ययविधिविषयकमिति `दिव उ'त्सूत्रे हरदत्तेनोक्तम्। कैयटहरदत्ताभ्यामिति तु मनोरमायां स्थितम्। तत्र कैयटेनानुक्तत्वात्कैयटग्रहणं प्रमादपतिततमिति नव्याः। केचित्तु `दिव उ'त्सूत्रं यस्मिन्निति बहुव्रीहिरयं, सूत्रसमुदायश्चान्यपदार्थः। तथाच `दिव उ'त्सूत्रशब्देन `द्वन्द्वे चे'ति सूत्रस्यापि क्रोटीकारात्तत्र च कैयटेनोक्तत्वान्नोक्तदोष इति कुकविकृतिवत्क्लेशेन मनोरमां समर्थयन्ते।
7) ससजुषो रु: 8-2-66
वृत्ति: सकारान्तस्य पदस्य सजुष् इत्येतस्य च रुर्भवति । (We will ignore the term सजुष् because it is used very rarely.) When a सकारः occurs at the end of a पदम्, it is substituted by रुँ (which is the रेफः – letter “र्” – with a distinguishing marker “उँ”)।
गीतासु उदाहरणम् – श्लोकः bg11-5
शतशस् + अथ = शतशरु + अथ = शतशउ + अथ (6-1-113) = शतशॊ + अथ = शतशॊऽथ