TBD.
पूर्वत्र असिद्धम् इत्यधिकारो ऽयम् आ अध्यायपरिसमाप्तेः। यदित ऊर्ध्वम् अनुक्रमिष्यामः पूर्वत्र असिद्धम् इत्येवं तद् वेदितव्यम्। तत्र येयं सपादसप्ताध्यायी अनुक्रान्ता, एतस्याम् अयं पादोनो ऽध्यायो ऽसिद्धो भवति। इत उत्तरं च उत्तर उत्तरो योगः पूर्वत्र पूर्वत्र असिद्धो भवति असिद्धवद् भवति। सिद्धकार्यम् न करोति इत्यर्थः। तदेतदसिद्धत्ववचनम् आदेशलक्षणप्रतिषेधार्थम्, उत्सर्गलक्षणभावार्थं च। अस्मा उद्धर, द्वा अत्र, द्वा आनय, असा आदित्यः इत्यत्र व्यलोपस्य शसिद्धत्वात्, आद् गुणः 6-1-87 इति, अकः सवर्णे दीर्घः 6-1-101 इति च न भवति। अमुष्मै, अमुष्मात्, अमुष्मिनिति उत्वस्य असिद्धत्वात् स्मायादयो भवन्ति। शुष्किका शुष्कजङ्घा च क्षामिमानौजढत्तथा। मतोर्वत्त्वे झलां जश्त्वे गुडलिण्मान् निदर्शनम्। शुष्किका इत्यत्र शुषः कः 8-2-51 इत्यस्य असिद्धत्वादुदीचामातः स्थाने यकपूर्वायाः 7-3-46 इत्येतन् न भवति। शुष्कजङ्घा इति न कोपधायाः 6-3-37 इति पुंवद्भावप्रतिषेधो न भवति। क्षामिमानिति क्षामस्य अपत्यं क्षामिः, क्षामो वा अस्य अस्ति इति क्षामी, क्षामिः क्षामी वा यस्य अस्ति इति क्षामिमान्। क्षायो मः इत्यस्य असिद्धत्वान् मादुपधायाश्च इति वत्वं न भवति। औजढतिति वहेर्निष्ठायामूढः, तमाख्यतिति णिच्, तदन्ताल् लुङ्, चङि 6-1-11 इति द्विर्वचने कर्तव्ये ढत्वधत्वष्टुत्वढलोपानाम् असिद्धत्वाण् णौ च यः टिलोपः, तस्य स्थानिवद्भावात् थ इत्येतद् द्विरुच्यते। अनग्लोपे इति प्रतिषेधात् सन्वदित्त्वं न अस्ति, तेन औजढतिति भवति। औजिढतित्येतत् तु क्तिन्नन्तस्य उढिशब्दस्य भवति। गुडलिण्मानिति गुडलिहो ऽस्य सन्ति इति मतुप्, तत्र ढत्वजश्त्वयोरसिद्धत्वात् झयः 8-2-10 इति वत्वं न भवति। ये ऽत्र षष्थीनिर्देशाः, सप्तमीनिर्देशाः, पञ्चमीनिर्देशाश्च, तेषां षष्ठी स्थानेयोगा 1-1-49, तस्मिन्निति निर्दिष्टे पूर्वस्य 1-1-60, तस्मादित्युत्तरस्य इति च कर्तव्ये न असिद्धत्व भवति, कार्यकालं हि संज्ञापरिभाषम् इति पूर्वत्वमासां परिभाषाणां न अस्ति इति। विप्रतिषेधे परम् इत्येषा च परिभाषा येन पूर्वेण लक्षणेन सह स्पर्धते, परं लक्षणं तत्प्रति तस्य असिद्धत्वान् न प्रवर्तते। तथा च विस्फोर्यम्, अगोर्यम् इति गुणः परेण हलि च 8-2-77 इति दीर्घत्वेन न बाध्यते। अपवादस्य तु परस्य अपि उत्सर्गे कर्तव्ये वचनप्रामण्यादसिद्धत्वं न भवति। तेन दोग्धा, दोग्धुम् इत्यत्र घत्वस्य असिद्धत्वाद् हो ढः 8-2-31 इति न भवति।
TBD.
31 सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा, त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धम्. हर इह, हरयिह. विष्ण इह, विष्णविह..
<< 8-4-68 – 1-1-10 >>
१२ अधिकारोऽयम्, तेन सपादसप्ताध्यायी प्रति त्रिपाद्यसिद्धा । त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धं स्यात् । बाह्यप्रयत्नस्त्वेकादशधा । विवार संवार श्वासो नादो घोषोऽघोषोऽल्पप्राणो महाप्राण उदात्तोऽनुदात्त स्वरितश्चेति । खयां यमा खयः =क=पौ विसर्ग शर एव च । एते श्वासानुप्रदाना अघोषाश्च विवृण्वते । कण्ठमन्ये तु घोषाअ स्युः संवृता नादभागिन । अयुग्मा वर्गयमगा यणश्चाल्पासव स्मृता ॥ वर्गेष्वाद्यानां चतुर्णां पञ्चमे परे मध्द्ये यमो नाम पूर्वसदृशो वर्णः प्रातिशाख्ये प्रसिद्धः । पलिक्की, चख्ख्नतु, अग्ग्नि, घ्न्नतीत्यत्र क्रमेण कखगघेभ्यः परे तत्सदृशा एव यमा । तत्र वर्गाणां प्रथमद्वितीया खय, तथा तेषामेव यमाः, जिह्वामूलीयोपध्मानीयौ विसर्गः शषसाश्चेत्येतेषां विवार श्वासोऽघोषश्च । अन्येषां तु संवारो नादो घोषश्च । वर्गाणां प्रथमतृतीयपञ्चमा प्रथमतृतीययमौ यरलवाश्चाल्पप्राणाः । अन्ये (द्वितीयचतुर्थौ शलश्च) महाप्राणा इत्यर्थः । बाह्यप्रयत्नाश्च यद्यपि सवर्णसज्ञायामनुपयुक्ताः, त्तथाप्यान्तरतम्यपरिक्षायामुपयोक्ष्यन्त इति बोध्यम् । कादयो मावसाना स्पर्शाः । यरलवा अन्तस्था । शषसहा ऊष्माणः । अचः स्वराः । =क=प इति कपाभ्यां प्रागर्ध विसर्गसदृशौ जिह्वामूलीयोपध्मानीयौ । अं अः इत्यचः परावनुस्वारविसर्गौ । इति (स्थान) यत्नविवेकः । ’ऋऌवर्णयोर्मिथ सावर्ण्यं वाच्यम्’ (वा० १५०) । अकारहकारयोरिकारशकारयोः ऋकारषकारयोः ऌकारसकारयोश्च मिथः सावर्ण्ये प्राप्ते । ॥
14 तथाविधं सूत्रमाह-पूर्वत्रासिद्धम्। पाणिनिप्रणीता अष्टाध्यायी। तत्र अष्टमाध्याये द्वितीयपादस्येदमादिमं सूत्रम्। इतः प्राक्तनं कृत्स्नं सूत्रजालं `सपादसप्ताध्यायी'ति व्यवह्यियते। उपरितनं तु कृत्स्नं सूत्रजालं त्रिपादीति व्यवह्यियत इति स्थितिः। तत्र यदीदं सूत्रं स्वतन्त्रविधिः स्यात्, तदा इतः पूर्वस्मिन् शास्त्रे प्रवर्तमाने उपरितनं शास्त्रमसिद्धं स्यादित्यर्थो लभ्येत। ततश्च सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धेति पर्यवस्येत्। एवं सति त्रिपाद्यामपि पूर्वं शास्त्रं प्रति परं शास्त्रमसिद्धमित्यर्थो न लभ्येत। तथा सति किमु उक्तं किम्वुक्तमित्यत्र `मोऽनुस्वारः' इति शास्त्रं त्रैपादिकं प्रति `मय उञो वो वा' इति वत्वशास्त्रं त्रैपादिकं नासिद्धं स्यादित्यत आह-अधि- कारोऽयमिति। अधिक्रियते उपरितनसूत्रजालशेषत्वेन पठ\उfffद्त इत्यधिकारः। कर्मणि घञ्। `घञजबन्ताः पुंसि' इति पुंस्त्वम्॥ अयमिति तदपेक्षया पुंलिङ्गनिर्देशः। इदं सूत्रमुपरितनसूत्रेष्वनुवृत्त्यर्थमेव, न तु स्वतन्त्रविधिरिति यावत्। `मय उञो वो वा' इति सूत्रे पूर्वत्रासिद्धमित्यनुवत्र्तते। ततश्च `मयः परस्य वकारो वो वा स्यात्। इदं श#आस्त्रं पूर्वत्रासिद्ध'मिति तदेकवाक्यं संपद्यते। तत्र च अनुवृत्तपूर्वशब्देनैतः प्राक्तनं त्रिपादीस्थं सपादसप्ताध्यायीस्थं च कृत्स्नं सूत्रजालं विवक्षितमिति `मोऽनुस्वारः' इति त्रैपादिकं शास्त्रं प्रति `मय उञो वो वा' इति शास्त्रस्याऽसिद्धत्वं निर्बाधमित्याह-तेनेति। अदिकारत्वेनेत्यर्थः। परं शास्त्रमसिद्धमिति। असिद्धत्वं चाऽत्र नात्यन्ताऽसत्त्वम्। किंतु पूर्वशास्त्रदृष्ठ\उfffदेत्यनुपदेमेवोक्तम्। `परं शास्त्र'मित्यनेन प्रक्रियाकौमुद्यादिग्रन्थोक्तं कार्यासिद्धत्वमप्रामाणिकमिति ध्वनितम्। कार्याऽसिद्धत्वं पूर्वपक्षयित्वा शास्त्रासिद्धत्वस्यैवात्र सूत्रे, `असिद्धवदत्राभात्' दिति सूत्रे च भाष्ये सिद्धान्तितत्वात्। शास्त्रसिद्धत्वकार्याऽसिद्धत्वयोः फलभेदस्तु शब्देन्दुशेखरे व्यक्तः। अस्माभिश्च स्वादिसन्धौ `मनोरथ' इत्यत्र मूलव्याख्यावसरे , हलन्तशब्दाधिकारे च अदःशब्दप्रक्रियाव्याख्यावसरे प्रपञ्चयिष्यते। तदेवम् `अ अ' इति संवृतविधेः स्वप्राक्तनीं कृत्स्नामष्टाध्यायीं प्रत्यसिद्धत्वात् प्रक्रियादसायामवर्णस्य ह्यस्वस्य विवृतत्वमेव। परिनिष्ठितदशायामेव संवृतत्वमिति स्थितम्। यद्यपि परिनिष्ठ#इतदशायां संवृतविधिः क्वचिदप्यस्मिन् शास्त्रे नोपयुज्यते, तथापि परिनिष्ठिते संवृतविंधिबलात्संवृतत्वेन ज्ञाने सत्येव प्रयोगार्हतेति कल्प्यम्, विवृतसंवृतयोरुच्चारणभेदो वा कल्प्य इत्यलं बहुना। अथ बाह्रप्रयत्नान् प्रपञ्चयति- -बाह्रप्रयत्नस्त्विति। प्रशब्दोऽत्र चिन्त्यः, प्रशब्दबलेन आभ्यन्तरयत्नस्यैव प्रयत्नशब्दवाच्यताया तुल्यास्यसूत्रे उक्तत्वात्, यत्नो द्विधेत्युपक्रमाच्च। अविवक्षितार्थो वाऽत्र प्रशब्दः। उदात्तानुदात्तस्वरितशब्दा धर्मपराः। कस्य को बाह्रयत्न इत्याकाङ्क्षायां तद्व्यवस्थां श्लोकद्वयेन संगृह्णाति– `यम' शब्दो व्याख्यास्यते। \उfffदाआसोऽनुप्रदानो येषां ते \उfffदाआसानुप्रदानाः=\उfffदाआसाख्यबाह्रयत्नवन्तः। विवृण्वते कण्ठमिति। विवार एषां यत्न इति भावः। संवृताः=संवाराख्ययत्नवन्तः। नादभागिनः=नादाख्ययत्नभाजः। अयुग्मा वर्गयमगा इति। कादिपञ्चकं टादिपञ्चकं तादिपञ्चकं पादिपञ्चकमिति पञ्च वर्गाः। वर्गगता यमगताश्च अयुग्माः=प्रथमतृतीयपञ्चमवर्णा इत्यर्थः। अल्पासवः=अल्पप्राणाः।\र्\नथ श्लोकद्वयं व्याख्यास्यन् यमशब्दं तावत्सामान्यतो व्याचष्टे–वर्गेष्वित्यादिना। `आद्यानां चतुर्णा'मिति निर्धारणे षष्ठी। `एकैकस्मा'दित्यव्याहार्यम्। तेन `अन्यारादितरर्ते' इति परशब्दयोगे पञ्चमीप्रसङ्गादाद्यानां चतुर्णामिति षष्ठ\उfffद्नुपपन्नेति निरस्तम्। यमो नामेति। नामशब्द इतिपर्यायः। तदयमर्थः–कादिचादिटादितादिपादिपञ्चकात्मकेषु वर्णेषु एकैकस्य वर्गस्य आद्यानां चतुर्णां मध्ये एकैकस्मात्पञ्चमे वर्णे परे मध्ये पूर्ववर्णसदृशो वर्णो यम इति प्रातिशाख्ये प्रसिद्ध इति। अथ यमानुदाह्मत्य दर्शयति– पलिक्क्नीत्यादिना तत्सदृशा एव यमा इत्यन्तेन। एवं वर्गान्तरयमानामप्युदाहरणं याच्च्ञेत्यादि द्रष्टव्यम्। तदेवं यमशब्दं सामान्यतो व्याख्याय श्लोकद्वयं व्याचष्टे–तत्रेत्यादिना। तत्र `खय' इत्यस्य व्याख्या–वर्गाणां प्रथमद्वितीयाः खय इति। `खयां यमा' इत्यस्य विवरणं–तथा तेषामेव यमा इति। `क पौ' इत्यस्य विवरणं– जिह्वामूलीयोपध्यमानीयाविति। विसर्गशब्दः प्रसिद्धत्वात् स णवोपात्तः। `शर' इत्यस्य विवरणं–शषसा इति। `एते \उfffदाआसानुप्रदाना अघोषाश्च विवृण्वते कण्ठ'मित्येतद्व्याचष्टे-एतेषां विवारः \उfffदाआसोऽघोषश्चेति। `अन्ये तु घोषाः स्युः संवृता नादभागिन' इत्येतद्व्याचष्टे-अन्येषां तु संवारो नादो घोषश्चेति। `अयुग्मा वर्गयमगा' इत्येतद्व्याचष्टे–वर्गाणां प्रथमतृतीयपञ्चमाः प्रथमतृतीययमाविति। पञ्चमानां यमाऽभावादिति बावः। `यणश्चाल्पासवः स्मृता' इत्येतद्व्याचष्टे–यरलवाश्चाल्पप्राणा #इति। ननु श्लोकद्वये महाप्राण एतेषामिति नोक्तम्। अतो न्यूनतेत्याशङ्क्य तदपि परिशेषादुक्तप्रायमित्याह–अन्ये महाप्राणा इति। वर्गाणां द्वितीयचतुर्थाः शलश्च महाप्राणाः ' इति। बाह्रयत्नप्रपञ्चनं व्यर्थं, तुल्यास्यसूत्रे प्रयत्नशब्दस्य आभ्यन्तरयत्नमात्रपरत्वादित्याशङ्कते–बाह्रप्रयत्नाश्चेति। `यद्यपी'ति समुदायः शङ्काद्योतकः। परिहरति-तथापीति। सवर्णसंज्ञाप्रस्तावे बाह्रयत्नानामुपयोगाभावेऽपि `स्थानेऽन्तरतमः' इति वक्ष्यमाणान्तरतम्य्विचारे तेषामुपयोगसत्त्वान्न वैयथ्र्यम्। इह तत्प्रपञ्चनं तुल्यास्यसूत्रे आभ्यन्तरत्वविशेषणव्यावर्त्त्यत्वेनोपस्थितत्वात्प्रासङ्गिकमिति भावः। उदात्तादित्रयस्य तु अज्धर्मत्वस्य प्रसिद्धत्वादिह न तद्व्यवस्थोक्ता। अथ स्पृष्टं प्रयतनं स्पर्शानामित्यादिसंदर्भे उपन्यस्तान् स्पर्शादिशब्दान् व्याचष्टे-कादञ इत्यादिना। क आदिर्येषां ते `कादयः'। मः अवसाने येषां ते `मावसानः'। इदं च लोकप्रसिद्धपाठपेक्षम्। \र्\निति स्थानयत्नविवेक इति। स्थानयत्निविवेचनं समाप्तमित्यर्थः। स्थानप्रयत्नेति प्रशब्दपाठस्तु चिन्त्यः, अविवक्षितार्थो वा `प्र'शब्द। ऋलृवर्णयोर्मूर्धदन्तात्मकभिन्नस्थानकत्वात्सवर्णसंज्ञायामप्राप्तायाम् `ऋकारलृकारयोः सवर्णविधिः' इति तद्विधायकं वार्तिकमर्थतः संगृह्र पठति- ऋलृवर्णयोर्मिथः। आ च आ च रलौ। ऋशब्दस्य च `आ' इति प्रथमैकवचनम्। ऋ लृ औ इति स्थिते लृकारस्य `ऋतो ङि सर्वनामस्थानयोः' इति गुणः, अकारः, `उरण्?परः'इति लपरत्वम्, ञकारस्य यणादेशो रेफः। रलौ च तौ वर्णौ च ऋलृवर्णौ। तयोर्मिथः परस्परं सावण्र्यं=सवर्णत्वं वक्तव्यं, तुल्यास्यसूत्रेण तदलाभादिति सूत्रकारः शिक्ष्यते (वार्तिककृता)। उक्तामुक्तदुरुक्तचिन्तनात्मकं हि वार्तिकम्। अकारहकारयोरिति। उभयोः कण्ठस्थानविवृतप्रयत्नसाम्यात्सावण्र्यं प्राप्तम्। अकारस्य कवर्गेण तु न सावण्र्यप्रसक्तिः, कण्ठस्थानसाम्ये सत्यपि विवृतस्पृष्टप्रयत्नभेदात्। विसर्जनीयस्य तु अकारोपरि शर्षु च पाठस्योपसङ्ख्यातत्वेन विवृतत्वेऽपि तेन अकारस्य न सवर्णसंज्ञा, प्रयोजनाऽभावात्। ततश्च अकारस्य हकारेण सावण्र्यं परिशिष्टत इति भावः। इकारशकारयोरिति। तालुस्थानविवृतप्रयत्नसाम्यादुभयोः सावण्र्यं प्राप्तम्। इकारस्य चवर्गेण यकारेण च न सावण्र्यप्रसक्तिः,इकारस्य विवृतत्वात् , चवर्गस्य स्पृष्टत्वात्, यकारस्य ईषत्स्पृष्टत्वाच्च। अत इकारस्य शकारेण सावण्र्यं परिशिष्यत इति भावः। ऋकारषकारयोरिति। मूर्धस्थानविवृतयत्नसाम्यादुभयोः सावण्र्यं प्राप्तम्। ऋकारस्य टवर्गेण रेफेण च न सावण्र्यप्रसक्तिः ऋकारस्य विवृतत्वात्, टवर्गस्य स्पृष्टत्वात् , रेफस्यैइषत्स्पृष्त्वाच्च। अत ऋकारषकारयोः सावण्र्यं परिशिष्टत इति भावः। लृकारसकारयोरिति। दन्तस्थानविवृतप्रयत्नसाम्यादुभयोः सावण्र्यं प्राप्तम्। लृकारस्य तवर्गेण लकारेण च न सावण्र्यप्रसक्तिः, लृकारस्य विवृतत्वात्, तवर्गस्य स्पृष्टत्वात्, लकारस्य ईषत्सपृष्टत्वाच्च। अतः लृकारस्य सकारेण सावण्र्यं परिशिष्यते।
14 पूर्वत्रासिद्धम्। यद्ययं स्वतन्त्रो विधिः स्यात्तर्हि त्रिपादी पूर्वं प्रत्यसिद्धेत्येव लभ्येत, त्रैपादिकं तु पूर्वं प्रति परं नासिद्धं स्यात्, तथाच प्रशानित्यत्र `मो नो धातोः' इति नत्वस्य सिद्धत्वान्नलोपः स्यात्, नत्वविधेः संबुद्धौ चरितार्थत्वात्। तथाऽनङ्वानित्यत्र संयोगान्तलोपस्य सिद्धत्वान्नलोपः स्यात् , नुम्बनिधेस्तु संबुद्धौ चरितार्थत्वात्। तथाऽनङ्वानित्यत्र संयोगान्तलोपस्य सिद्धत्वान्नलोपः स्यात्, नुम्बिधेस्तु संबुद्धौ चरितार्थत्वाद्त आह-अदिकारोऽयमिति। त्रिपाद्यां विहितं कार्यमिति कार्याऽसिद्धिपक्षे अमू अमूमित्यादि न सिद्ध्येदिति भावः। यथा चैतन्न सिध्यति तथाऽदःशब्दव्याख्यावसरेऽस्माभिरुपपादयिष्यते। एकादशधेति। यद्यपि भाष्येऽष्टावुक्ताः, उदात्तादयस्तु नोक्ताः, तथापि कैयटोक्तिमनुसृत्यैकादशोक्ता इति बोध्यम्। खयां यमा इति। बालबोधनाय बाह्रप्रयत्नाः कैश्चित्सुगमोपायेनोपनिबद्धाः। तद्यथा-`खरो विवाराः \उfffदाआसा अघोषाश्च, हशः संवारा नादा घोषाश्च, वर्गाणां प्रथमतृतीयपञ्चमा यणश्चाल्पप्राणाः, वर्गाणां द्वितीयचतुर्थौ शलश्च महाप्राणाः' इति। \उfffदाआसानुप्रदाना इति। \उfffदाआसप्रयत्नका इत्यर्थः। विवृण्वते कण्ठमिति। विवार एषा प्रयत्न इति भावः। अन्येत्विति। हशो, हशां यमाः, अनुस्वारश्च। नादेति। नादभागिनः। नाश्प्रयत्नवन्त इत्यर्थः। अयुग्मा इति। प्रथमतृतीयपञ्चमा वर्गेष्वयुग्माः। वर्गयमगा इति। वर्गगा- यमगाश्चेत्यर्थः। अल्पेति। अल्पासवः=अल्पप्राणाः। `पुंसि भूम्न्यसवः प्राणाः' इत्यमरः। अनुपयुक्ता इति। अन्यथा कखगघादीनां परस्परं सावण्र्यं न स्यादिति भावः। आन्तरतम्यपरीक्षायामिति। परीक्षा च-`अघोषस्य महाप्राणस्य सस्य तादृश एव थकारः', `घोषवतो नादवतो महाप्राणस्य हस्य तादृशो वर्गचतुर्थ' इत्यादिना मूले एव स्फुटीभविष्यति। सादृश्यमुच्चारणे लेखने च बोध्यम्। कपाभ्यां प्रागिति। एतच्चोपलक्षणम्। खफाभ्यां प्रागित्यपि बोध्यम्। अर्धविसर्गेति। सादृश्यमुच्चारणे लेखने च बोध्यम्। ऋलृवर्णयोरिति। `ऋत्यकः' इति प्रकृतिभावः। विग्रहस्तु आ च लृवर्णश्च ऋलृवर्णौ, तयोरित्येके। मनोरमायां तु-आ च आ च रलौ, तौ च तौ वर्णौ चेत्यादिं स्थितम्। नाज्झलौ। आकारसहित इति। `कालसमयवेलासु' इत्यादिनिर्देशा आकारप्रश्लेषे लिङ्गम्। यणादिकमिति। शीतलशब्दे सवर्णदीर्घ आदिशब्दार्थः। इह `असेध' दित्यादौ `हो ढः' इति ढत्वं नेत्यपि सुवचम्। `इण' इति सस्य षत्वमपि नेति तु न सुवचम्, ढत्वं प्रति तस्याऽसिद्धत्वादिति दिक्। अन्यथेति। `नाज्झलौ' इत्यस्यानारम्भे। ग्रहणकशास्त्रबलादिति। अयं भावः,-दीर्घादीनामिव हकारादीनामप्यकारवाच्यत्वेऽभ्युपगते ह्रच्त्वं स्यात्, प्रत्याहारेषु तद्वाच्यवाच्ये निरूढलक्षणाभ्युपगमादिति।
TBD.