Table of Contents

<<8-2-36 —- 8-2-38>>

8-2-37 एकाचो बशो भष् झषन्तस्य स्ध्वोः

प्रथमावृत्तिः

TBD.

काशिका

धातोरवयवो य एकाच् झषन्तः तदवयवस्य बशः स्थाने भषादेशो भवति झलि सकारे ध्वशब्दे च परतः पदान्ते च। अत्र चत्वरो बशः स्थानिनो भषादेशाश्चत्वार एव, तत्र सङ्ख्यातानुदेशे प्राप्ते डकारस्य स्थानिनो ऽभावात् ढकारादेशो न भवति? आन्तर्यतो व्यवस्था विज्ञास्यते। बुध भोत्स्यन्ते। अभुद्ध्वम्। अर्थभुत्। गुह निघोक्ष्यते। न्यघूढ्वम्। पर्णघुट्। दुह धोक्ष्यते। अधुग्ध्वम्। गोधुक्। अजर्घाः गुधेः यङ्लुगन्तस्य लङि सिपि लभूपधगुणे कृते सिपो हल्ङ्यादिलोपे च धातोः अवयवस्य एकाचो बशः स्थाने भष्भावः, ततो धकारस्य जश्त्वम्, दश्च 8-2-75 इति रुत्वम्, रो रि 8-3-14) इति पूर्वरेफस्य लोपः, ढ्रलोपे पूर्वस्य दीर्घो ऽणः (*6,3.111 इति दीर्घत्वम्। गदर्भयतेः अप्रत्ययः गर्धप्। एकाचः इति किम्? दामलिहम् इच्छति दामलिह्यति, दामलिह्यतेरप्रत्ययः, दामलिट्। असति ह्येकाज्ग्रहणे धातोः इत्येतद् बशो विशेषणं स्यात्। बशः इति किम्? क्रुध क्रोत्स्यति। झषन्तस्य इति किम्? दास्यति। स्ध्वोः इति किम्? बोद्धा। वोद्धुम्। बोद्धव्यम्। धकारस्य बकारोपसृष्टस्य ग्रहणं किम्? दादद्धि। दध धारणे इत्येतस्य यङ्लुकि लोटि हुझल्भ्यो हेर्धिः 6-4-101 इति धिभावे सत्येतद् भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

254 धात्ववयवस्यैकाचो झषन्तस्य बशो भष् से ध्वे पदान्ते च. धुक्, धुग्. दुहौ. दुहः. धुग्भ्याम्. धुक्षु..

बालमनोरमा

एकाचो वशो। स् च् ध्व् च स्ध्वौ, तयोरिति विग्रहः। ``बश' इति स्थानषष्ठी। एकाच' इत्यवयवषष्ठी। एकोऽच् यस्येति विग्रहः। झषन्तस्येत्यस्य शब्दस्येति विशेष्यम्। एकाच्कस्य झषन्तशब्देनान्वेति। पदस्येत्यधिकृतं `स्कोः संयोगाद्योः' इत्यतोऽन्ते चेत्यनुवर्तते। तदाह–धातोरवयव इत्यादिना। ननु संभवति सामानाधिकरण्ये वैयधिकरण्याश्रयणस्या।ञन्याय्यत्वादेकाच् झषन्तो यो धातुस्तदवयवस्य बश इत्येवान्वय उचित इत्यत आह–एकाचो धातोरित्यादि। गर्दभयतीति। `तत्करोति तदाचष्टे' इति णिजन्तस्य `सनाद्यन्ताः' इति दातुत्वात्तिबादि। ततः क्विबिति। गर्दभि इति ण्यन्तात्कर्तरि क्विबित्यर्थः। कपावितौ। वेर्लोपः। णिलोप इति। `णेरनिटीत्यनेने'ति शेषः। गर्धबिति। गर्दभित्यस्मात्सुः। हल्ङ्यादिलोपः। `एकाचो बशः' इति दस्य धः। `वावसाने' इति चत्र्वम्। `एकाचो धातोर्झषन्तस्ये'त्यन्वये गर्दभित्यस्य सुब्धातोरनेकाच्त्वाद्दकारस्य भष्भावो न स्यात्। धात्ववयवस्य झषन्तस्येत्यन्वये तु दभिति एकाचो झषन्तस्य धात्वयवत्वात्तदवयवस्य दस्य भष्भावो निर्बाध इति भावः। अत्र प्राचीनैर्झलीत्यनुवर्तितम्। तदयुक्तमित्याह–झलीति निवृत्तमिति। स#आमथ्र्यादिति। `झली'त्यनुवृत्तौ तद्वैयथ्र्यादिति भावः। ननु झलीत्यस्यानुवृत्तिरेवास्तु। स्ध्वोरित्येव न क्रियतामित्यत आह–तेनेति। झलीत्यननुवर्तनेनेत्यर्थः। दुग्घमिति। दुहेः क्तः। कित्त्वान्न सघूपधगुणः। `दादेः'ति हस्य धः। `झषस्तथोर्धोऽधः' इति तकारस्य धः। `झलां जश् झशी'ति घस्य गः। दुग्धमिति रूपम्। दोग्धेति। दुहेस्तृच्। लघूपधगुणः। `दादेः' इति हस्य घः। `झषस्तथोः' इति तकारस्य धः। `ऋदुशनस्' इत्यनङ्। `सर्वनामस्थाने च' इति दीर्घः। हल्ङ्यादिलोपः। ` न लोपः' इति नकारलोपः, `दोग्धा' इति रूपम्। झलीत्यनुवृत्तौ इहोभयत्रापि घत्वे कृते भष्भावः स्यादिति भावः। ननु दुहेः क्विबन्तात्सोर्लोपे`दादेः' इति घत्वे कृते दुघिति झषन्तमेकाच्कम्। तस्य धातुत्वाद्धात्ववयवत्वाऽभावात्कथमिह दकारस्य भष्भावेन धकारः स्यादित्यत आह– व्यपदेशिद्भावेनेति। विशिष्टोऽपदेशो व्यपदेशः=मुख्यव्यवहारः, सोऽस्यास्तीति व्यपदेशी, तेन तुल्यं व्यपदेशिवत्। धातावेव धात्वयवयत्वव्यवहारो गौणः, `राहोश्शिरः' इत्यादिवदिति भावः। इदं च `आद्यन्तवदेकस्मि'न्निति सूत्रे भाष्ये स्पष्टम्। धुक्दुगिति। क्विपः प्राक् प्रवृत्ताया धातुसंज्ञाया अनपायात् `दादेः' इति धत्वे कृते झषन्तत्वाद्भष्भावे चत्र्वविकल्प इति भावः। दुहौ दुहः। दुहम् दुहौ दुहः। दुहा। भ्यामादौ `दादेः' इति घत्वे कृते स्वादिष्विति पदत्वात् पदान्तत्वप्रयुक्तो भष्भावः। `झलां जशो।ञन्ते' इति जश्त्वम्। धुग्भिः। दुहे धुग्भ्याम् धुग्भ्यः। दुहः दुहोः दुहाम्। दुह् सु इति स्थिते प्रक्रियां दर्शयति– षत्वेति। घत्वे कृते भष्भावे `झलां जशोऽन्ते' इति जश्त्वेन गकारः। तस्य `खरि चे'ति चत्र्वस्याऽसिद्धत्वात् `आदेशप्रत्यययोः' इति षत्वे कृते चर्त्वे धुक्षु इति रूपमिति भावः। `द्रुह जिघांसायाम्,' `मुह वैचित्त्ये' `ष्णुह उद्गिरणे' `ष्णिह प्रीतौ' एभ्यः क्विबन्तेभ्यः सोर्लोपे द्रुहेर्दादित्वाड्ढत्वं बाधित्वा नित्यं घत्वे प्राप्ते इतरेषामदादित्वादप्राप्ते घत्वे इदमारभ्यते।

तत्त्वबोधिनी

286 एकाचो बशो। झलीति निवृत्तमिति। `धुग्भ्यां' `धुक्ष्वि'त्यादौ `पदान्ते'इत्येव भष्भावसिद्धेरिति भावः। प्राचा तु `प्रातिपदिकस्य'तु झलि पदान्ते चे'त् व्याख्यातम्। तत्प्रामादिकमेव। `अधोक्' `अधोग्'इत्याद्यसिद्द्यापत्तेः। प्रातिपदिकग्रहणस्याऽप्रकृतत्वाच्च। ननु `धातोरवयव'इति वैयधिकरण्येनाऽन्वये क्विन्तस्य दुह्#ः `दादे'रिति घत्वेन झषन्तत्वेऽपि भष्भावो न स्यात्, `दु'घिति समुदायस्य यः पूर्ववयवो `दु'घिति समुदायस्य यः पूर्वावयवो `दु'इत्येकाच् तस्य झषन्तत्वाऽभावात्। `उघ्'इत्युत्तरावयवे तु बशोऽभावादित्यत आह— व्यपदेशिवद्भावेनेति। न च धात्ववयवो धातुरित्येव व्यपदिश्यतां, तथाच `गर्ध'बिति सिध्येदिति वाच्यम्, अर्थवतां हि व्यपदेशिवद्बावः, न चावयवोऽर्थवानिति तस्य धातुत्वव्यपदेशाऽसंबवात्। भष्भाव इति। क्विपः प्राक्प्रवृत्ताया धातुसंज्ञाया निरपवादत्वेनावस्थितत्वात् `दादेर्धातो'रिति घत्वे कृते झषन्तत्वादिति भावः। धुगिति। `दुह प्रपूरणे'क्विप्।

Satishji's सूत्र-सूचिः

172) एकाचो बशो भष् झषन्तस्य स्ध्वोः 8-2-37

वृत्ति: धात्ववयवस्यैकाचो झषन्तस्य बशो भष् स्यात्, से ध्वे पदान्ते च। The part of a धातु, which ends in a झष् letter and has only one vowel, gets its बश् letter replaced by the corresponding भष् letter when followed by a सकारः, the term “ध्व्” or at the end of a पदम्।

Example continued:

इष्टकामदुघ् = इष्टकामधुघ् 8-2-37 =इष्टकामधुग्, इष्टकामधुक् 8-2-39, 8-4-56  = इष्टकामदुह् + भ्याम् 4-1-2 =इष्टकामदुघ् + भ्याम् 8-2-32 =इष्टकामधुघ् + भ्याम् 8-2-37 =इष्टकामधुग्भ्याम् 8-2-39

इष्टकामदुह् + सुप् 4-1-2 = इष्टकामदुघ् + सु 1-3-3, 8-2-32 = इष्टकामधुघ् + सु 8-2-37 = इष्टकामधुग् + सु 8-2-39 = इष्टकामधुग् षु 8-3-59 = इष्टकामधुक्षु 8-4-55