Table of Contents

<<8-4-54 —- 8-4-56>>

8-4-55 खरि च

प्रथमावृत्तिः

TBD.

काशिका

खरि च परतो झलां चरादेशो भवति। जश्ग्रहणं न अनुवर्तते, पूर्वसूत्रे च अनुकृष्तत्वात्। भेत्ता। भेत्तुम्। भेत्तव्यम्। युयुत्सते। आरिप्सते। आलिप्सते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

74 खरि झलां चरः. इत्युदो दस्य तः. उत्थानम्. उत्तम्भनम्..

बालमनोरमा

122 केनेत्यत आह–खरि च। `झलाञ्जश्झशी'त्यतो झलामिति , `अभ्यासे चर्चे'त्यतश्चरिति चानुवर्तते। तदाह–खरि पर इत्यादिना। इति जकारस्येति। स्थानत आन्तंक्यादिति भावः। ततः छत्वं नतु प्रागुत्यपि बोध्यम्। छत्वस्य चुत्वचर्त्वे प्रत्यसिद्धत्वात्। हलो यमामिति सूत्रस्थभाष्यसंमतसूत्रक्रमे तु चुत्वेन जकारे कृते शस्य छत्वं ततो जकारस्य चत्र्वम्। नतु छत्वात् प्राक् चत्र्वम्, चर्त्वं प्रतिछत्वस्याऽसिद्धत्वात्। तच्छिव इति। स चासौ शिवश्चेति, तस्य शिव इति वा विग्रहः। `चोः कृ'रिति कुत्वं तु न, श्चुत्वस्याऽसिद्धत्वात्। `शश्छोऽटी'ति सूत्रेऽटीति विहाय अमीति वक्तव्यमित्यर्थः। `शश्छोऽमी'ति सूत्रं पठनीयमिति यावत्। तच् श्लोकेनेति। स चासौ श्लोकश्च,तस्य श्लोक इति वा विग्रहः। लकारस्य अड्बहिर्भूतत्वात्तत्परकस्य शकारस्य सूत्रपाठतः छत्वे अप्राप्ते वार्तिकमिदम्। वाक्श्च्योततीति। अत्र तु कुत्वं भवत्येव, चकारस्य स्वाभाविकतया श्चुत्वनिष्पन्नत्वाऽभावेन असिद्धत्वाभावात्। अत्र चकारस्य अम्बर्हिर्भूतत्वात्तत्परकशकारस्यात्र न छत्वम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

25) खरि च 8-4-55

वृत्ति: खरि च परतो झलां चरादेशो भवति । A झल् letter is replaced by a चर् letter when a खर् letter follows.

गीतासु उदाहरणम् – श्लोकः bg2-17

कश्चित् + कर्तुम् = कश्चिद् + कर्तुम् = कश्चित् + कर्तुम्