Table of Contents

<<8-2-39 —- 8-2-41>>

8-2-40 झषस् तथोर् धो ऽधः

प्रथमावृत्तिः

TBD.

काशिका

झष उत्तरयोः तकारथकारयोः स्थाने धकारः आदेशो भवति, दधातिं वर्जयित्वा। लब्धा। लब्धुम्। लब्धव्यम्। अलब्ध। अलब्धाः। दुह दोग्धा। दोग्धुम्। दोग्धव्यम्। अदुग्ध। अदुग्धाः। लिह लेढा। लेढुम्। लेढव्यम्। अलीढ। अलीढाः। बुध बोद्धा। बोद्धुम्। बोद्धव्यम्। अबुद्ध। अबुद्धाः। अधः इति किम्? धत्तः। धत्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

551 झषः परस्योस्तथोर्धः स्यान्न तु दधातेः..

बालमनोरमा

124 झषस्तथोः। झष इति पञ्चमी। तश्च थ् चेति द्वन्द्वः। तकारादकार उच्चारणार्थः। तकारथकायोरिति लभ्यते। `धः' इति प्रथमैकवचनम्। अकार उच्चारणार्थः। धकार इति लभ्यते। `अध' इति षष्ठ\उfffद्न्तम्। धाधातुभिन्नस्येति लभ्यते। तदाह–झषः परयोरिति। जश्त्वमिति। सिसेध् ध इति स्थिते `झलां जस् झशी'ति प्रथमधकारस्य दकारे सिषेद्धेति रूपमित्यर्थः। सिषिदिव–सिषिध्व। सिषिधिम–सिषिध्म। क्रादिनियमस्तु नेड्वशीति प्रक्रमाननञ्प्रापितस्यैवाऽभावस्य निवर्तको, नतु विभाषादप्रापितस्यापि, अनन्तरस्येति न्यायात्। इट्पक्षे आह– सिषेधिथेति। सेद्धेति। लृट् तास् इडभावः। डा टिलोपः गुणः। धत्वं जश्त्वम्। सेद्धार इत्यादि। सेधितेति। इट्पक्षे रूपम्। सेत्स्यति सेधिष्यतीति। लृटि स्यः। इड्विकल्पः। असैत्सीदिति। लुङस्तिप्। इकारलोपः। च्लिः। सिच्। इडभावः। `अस्तिसिचः' इति ईट्। वदव्रजेति वृद्धिः। धकारस्य चत्र्वम्।

तत्त्वबोधिनी

99 `अध' इति किम् ?। धत्तः। असैत्सीदिति। `अस्तिसिचः'इति ईडागमः। `वदव्जे'ति वृद्धि। ततश्चत्र्वम्।

Satishji's सूत्र-सूचिः

390) झषस्तथोर्धोऽधः 8-2-40
वृत्तिः झषः परयोस्तथोर्धः स्‍यान्न तु दधातेः। A तकारः or थकारः gets धकारः as the replacement, when preceded by a letter of the झष्-प्रत्याहारः with the exception of the धकारः belonging to the धातुः √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११)।

उदाहरणम् – दोग्धि (√दुह्, अदादि-गणः, दुहँ प्रपूरणे, धातु-पाठः #२. ४) लँट्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

The इत् letter (अकार:) of the धातुः √दुह् has a स्वरित-स्वरः। Therefore, as per 1-3-72, this धातुः √दुह् can take either परस्मैपद-प्रत्यया: or आत्मनेपद-प्रत्यया:।

Let us consider the case where it takes a परस्मैपद-प्रत्यय:।

दुह् + लँट् 3-2-123 = दुह् + ल् 1-3-2, 1-3-3
= दुह् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= दुह् + ति 1-3-3 = दुह् + शप् + ति 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= दुह् + ति 2-4-72 = दोह् + ति 7-3-86 = दोघ् + ति 8-2-32 = दोघ् + धि 8-2-40
= दोग्धि 8-4-53

उदाहरणम् – धोक्षि (√दुह्, अदादि-गणः, दुहँ प्रपूरणे, धातु-पाठः #२. ४) लँट्, कर्तरि-प्रयोगः, मध्यम-पुरुषः, एकवचनम्।

दुह् + लँट् 3-2-123 = दुह् + ल् 1-3-2, 1-3-3
= दुह् + सिप् 3-4-78, 1-4-101, 1-4-102, 1-4-105, सिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= दुह् + सि 1-3-3 = दुह् + शप् + सि 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= दुह् + सि 2-4-72 = दोह् + सि 7-3-86 = दोघ् + सि 8-2-32 = धोघ् + सि 8-2-37
= धोघ् + षि 8-3-59 = धोक् + षि 8-4-55
= धोक्षि