Table of Contents

<<8-2-38 —- 8-2-40>>

8-2-39 झलां जशो ऽन्ते

प्रथमावृत्तिः

TBD.

काशिका

झलां जशः आदेशा भवन्ति पदस्यान्ते वर्तमानानाम्। वागत्र। श्वलिडत्र। अग्निचिदत्र। त्रिष्टुबत्र। अन्तग्रहणं झलि इत्येतस्य निवृत्त्यर्थम्। वस्ता। वस्तव्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

67 पदान्ते झलां जशः स्युः. वागीशः..

बालमनोरमा

84 अथ पररूपाऽभावपक्षे पटत्पटत्-इतीत्यत्र तकारस्य दकारं विधत्ते-झलां जशोन्ते। पदस्येत्यधिकृतं। तदाह–पदान्त इति। पटत्पटदितीति। स्थानसाम्यात्तकारस्य दकारो जशिति भावः। अत्राच्छब्दस्य पररूपनिषेधाऽभावे तकारमात्रस्य पररूपैकादेशविकल्पविधौ तस्य पररूपाभावपक्षेऽच्छब्दस्य पूर्वसूत्रेण पररूपापत्तौ पटत्पटितीति स्यादिति ध्येयम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

24) झलां जशोऽन्ते 8-2-39

वृत्ति: झलां जश आदेशा भवन्ति पदस्यान्ते वर्तमानानाम् । When a झल् letter occurs at the end of a पदम् it is replaced by a जश् letter.

गीतासु उदाहरणम् – श्लोकः bg2-34

मरणात् + अतिरिच्यते = मरणाद् + अतिरिच्यते