TBD.
इदितो धातोर् नुमागमो भवति। कुडि कुण्डिता। कुण्डितुम्। कुण्डितव्यम्। कुण्डा। हुडि हुण्डिता। हुण्डितुम्। हुण्दितव्यम्। हुण्डा। इदितः इति किम्? पचति। पठति। अयं धातूपदेशावस्थायाम् एव नुगाममो भवति कुण्डा, गुण्डा इति, गुरोश्च हलः 3-3-103) इत्यकारप्रत्ययो यथा स्यात्। तथा हि धिन्विकृण्व्योर च (*3,1.80 इति प्रत्ययविधावेव नुमनुषक्तयोर् ग्रहणम्। धातुग्रहणम् च इह क्रियते धातूपदेशकाल एव नुमागमो यथा स्यातित्येवम् अर्थम्। तासिसिचोरिदित्कार्यं न अस्ति इत्युच्चारणार्थो निरनुनासिक इकारः पठ्यते। अमंस्त इत्येवम् आदौ हि हनः सिच् 1-2-24 इति कित्वविधानसामर्थ्यात् नकारलोपो न भवति। मन्ता इत्यत्र अपि असिद्धवदत्राऽ भात् 6-4-22 इति टिलोपस्य असिद्धत्वान् नलोपो न भवति। इह कस्मान् न भवति, भेत्ता, धेत्ता इति? इरितां समुदायस्येत्संज्ञा इति इदित्वं न अस्ति। अवयवशो ऽपि इत्संज्ञायां सत्यां गोः पादान्ते 7-1-57 इतो ऽन्तग्रहणम् अनुवर्तयितव्यम्, तेनान्तेदितो धातवो गृह्यन्ते।
TBD.
465 नन्दति. ननन्द. नन्दिता. नन्दिष्यति. नन्दतु. अनन्दत्. नन्देत्. नन्द्यात्. अनन्दीत्. अनन्दिष्यत्. अर्च पूजायाम्.. 9.. अर्चति..
106 इदितः। इत् = ह्यस्व इकारः, इत् = इत्संज्ञको यस्य स इदित्, तस्येति विग्रहः। इत्संकेदनतधातोरित्यर्थः। तेन चक्षिङादौ न दोषः। नुमि मकार इत्। उकार उच्चारणार्थः। मित्त्वादन्त्यादचः परः। स्कुन्दत इति। `नश्चापदान्तस्ये'त्यनुस्वारः परसवर्णः। चुस्कुन्द इति। लिटि द्वित्वे `शर्पूर्वाः खयः' इत्यभ्यासे ककारः शिष्यते। `कुहोश्चु'रिति तस्य कुत्वेन चकारः। \उfffदिआदीति। \उfffदौत्यं–\उfffदौत्यकरणम्। अकर्मक इति। \उfffदौत्यस्य धात्वर्थेनोपसङ्ग्रहादिति भावः। ततश्च `\उfffदान्दयति देवदत्तं यज्ञदत्त' इत्यादौ `गतिबुद्धिप्रत्यवसाने'त्यादिनाऽकर्मककार्यं द्वितीया भवति। \उfffदोतीभवनं वा \उfffदौत्यम्। \उfffदिआन्दत इति। \उfffदोतीभवतीत्यर्थः। इदित्वान्नुम्। अनुस्वारपरसवर्णौ। तत्कारणभूतो व्यापारः– प्रणामादिरभिवादनम्। वन्दत इति। इदित्त्वान्नुम्। भदीति। कल्याणं–शुभक्रिया। सुखं–सुखीभावः। भन्दत इति। इदित्त्वान्नुम् बभन्द इति। अभ्यासे भकारस्य जश्भावेन बकारः। मदीति। मोदः- - सन्तोषः। मदः–गर्वः। मन्दत इति। इदित्त्वान्नुम्। ममन्द इति। नुमि सति संयुक्तहल्मध्यस्थत्वादेत्त्वाभ्यासलोपौ नेति भावः। स्पदीति। अकर्मकः। स्पन्दत इति। इदित्त्वान्नुम्। पस्पन्द इति। `शर्पूर्वाः खयः' इत्यभ्यासे पकारः शिष्यते। क्लिदीति। परिदेवनशब्दं व्याचष्टे– शोक इति। स्मृत्वा क्लेशः– शोकः। तदाह- - सकर्मक इति। क्लिन्दते चैत्रमिति। अतीतं चैत्रं स्मृत्वा क्लिश्नातीत्यर्थः। इदित्त्वान्नुम्। चिक्लिन्द इति। अभ्यासे ककारस्य चुत्वेन चकार इति भावः। मुदेति। हर्षः– तुष्टिः। मोदत इति। शपि लघूपधगुणः। मुमुद इति। `असंयोगल्लिट्कि'दिति कित्वान्न गुणः। ददेति। न ममेति त्यागो दानं, न तु द्रव्यत्यागः। तथा सति धात्वर्थौपसङ्ग्रहादकर्मकत्वापत्तेः।
81 मदि स्तुति। मोदः - संतोषः।मदो- गर्वः। स्वप्नः- आलस्यम्।
326) इदितो नुम् धातोः 7-1-58
वृत्तिः इदितो धातोर्नुमागमो भवति । A धातुः which has इकारः as an इत् gets the “नुँम्”-आगमः।
उदाहरणम् – Consider the धातु: “टुनदिँ समृद्धौ”।
The “टु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5. The इकारः at the end gets इत्-सञ्ज्ञा by 1-3-2. Therefore this धातुः is an इदित्।
Both the “टु” and the “इ” take लोप: by 1-3-9 तस्य लोपः।
नद् 1-3-5, 1-3-2, 1-3-9 = न नुँम् द् 7-1-58, 1-1-47 = न न् द् 1-3-2, 1-3-3, 1-3-9, 8-3-24, 8-4-58.