Table of Contents

<<8-3-14 —- 8-3-16>>

8-3-15 खरवसानयोर् विसर्जनीयः

प्रथमावृत्तिः

TBD.

काशिका

रः इति वर्तते। रेफान्तस्य पदस्य खरि परतो ऽवसाने च विसर्जनीयादेशो भवति। वृक्षश्छादयति। प्लक्षश्छादयति। वृक्षस्तरति। प्लक्षस्तरति। अवसाने वृक्षः। प्लक्षः। खरवसानयोः इति किम्? अग्निर् नयति। वायुर् नयति। इह नृकुट्यां भवः नार्कुटः, नृपतेरपत्यं नार्पत्यः इति वृद्धेर् बहिरङ्गलक्षणत्वात् तदाश्रयस्य रेफस्य असिद्धं बहिरङ्गम् इति असिद्धत्वाद् विसर्जनीयो न भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

93 खरि अवसाने च पदान्तसाय रेफस्य विसर्गः. (संपुंकानां सो वक्तव्यः). संस्स्कर्ता, संस्स्कर्ता..

बालमनोरमा

77 इति रेफस्येति। उपाच्र्छतीत्यत्र आरित्येकादेशस्य पूर्वन्तवत्त्वेन रेफस्य पदान्तत्वे सति विसर्गे प्राप्ते इत्युत्तरेणान्वयः। कथं विसर्गप्राप्तिरित्यत आह- -खरवसानयोः। `रो री'त्यतो र इति षष्ठ\उfffद्न्तमनुवर्तते। तच्च पदस्येत्यधिकृतस्य विसेषणम्। येन विधिरिति रेफान्तस्येति लभ्यते। खरि अवसाने च परतो रेफान्तस्य पदस्य विसर्जनीयः स्यादित्यर्थः। अलोऽन्त्यस्येत्यन्त्यस्य भवति। अभावरूपस्य चावसानस्य बुद्धिकृतं परत्वम्। फलितमाह–खर्यवसाने चेति। पदान्त इति। `विद्यमानस्ये'ति शेषः। यदि तु अन्त्यवर्णस्य अवसानसंज्ञा तदा अवसानं इत्यत्र योजना विरामोऽवसानमित्यत्रोक्ता। इति विसर्ग इति। उपाच्र्छतीत्यादवनेन विसर्गे प्राप्ते तत्परिहार उच्यत इत्यर्थः। अन्तवदिति। अन्तवत्त्वेन पदान्तत्वं प्राप्तस्य रेफस्य विसर्गो न भवतीत्यर्थः। कुत इत्यत आह–उभयथर्क्ष्विति। अन्यथा तत्रापि विसर्गनिर्देशः स्यादिति भावः। नन्वत्र धाताविति व्यर्थम् , उपसर्गग्रहणादेव धातावित्यस्य सिद्धेः, क्रियायोगे सत्येव उपसर्गसंज्ञाविधानात्। नच उपगत ऋकार उपर्कार इत्यत्र क्रियायोगस्य सत्त्वादुपसर्गत्वाच्च वृद्धिप्राप्तौ तन्निवृत्त्यर्थमिह धातुग्रहणमिति वाच्यं, यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञा इति परिभाषया गम्यमानगमनक्रियां प्रत्येव उपसर्गत्वात्, प्रकृते च ऋकारादिनिमित्तकोपसर्गत्वस्यैव विवक्षितत्वादित्याशङ्क्याह– उपसर्गेणैवेत्यादिना। उपसर्गग्रहणेनैव धातोराक्षेपे= अन्यथानुपपत्तिरूपार्तापत्तितो लाभे सति, पुनर्धाताविति वचनं पुनर्विधानार्थमित्यन्वयः। कथं पुनर्विधानलाभ इत्यत आह–योगविभागेनेति। योगशब्दः सूत्रशब्दपर्यायः। उपसर्गादृतीति धाताविति च सूत्रं विभज्यते। तत्र उपसर्गादृतीति पूर्वसूत्रे धातावित्यर्थाल्लभ्यमादाय उक्तार्थलाभः। धातावित्युत्तरसूत्रेऽपि उपसर्गादृतीति पूर्वसूत्रमनुवर्त्तंते। तथाच पूर्वसूत्रसमानार्थकमेतत्सूत्रं संपद्यत इति पुनर्विधानलाभ इत्यर्थः। किमर्थमिदं पुनर्विधानमित्यत आह-तेनेति। पुनर्विधानेनेत्यर्थः।

तत्त्वबोधिनी

64 न विसर्ग इति। एतच्च `सुखार्त'इत्यादावपि बोध्यम्।

Satishji's सूत्र-सूचिः

19) खरवसानयोर्विसर्जनीय: 8-3-15

वृत्ति: रेफान्तस्य पदस्य खरि परतोऽवसाने च विसर्जनीयादेशो भवति। The letter “र्” at the end of a पदम् changes to a विसर्ग: when it is either followed by a “खर्” letter or when nothing follows.

गीतासु उदाहरणम् – श्लोकः bg9-13

महात्मानस् + तु = महात्मानरु + तु = महात्मान: + तु = महात्मानस् + तु (8-3-34)