Table of Contents

<<8-4-53 —- 8-4-55>>

8-4-54 अभ्यासे चर्च

प्रथमावृत्तिः

TBD.

काशिका

अभ्यासे वर्तमानानां झलां चरादेशो भवति, चकाराज् जश्च। चिखनिषति। चिच्छित्सति। टिठकारयिषति। तिष्ठासति। पिफकारयिषति। बुभूषति। जिघत्सति। ढुढौकिषते। प्रकृतिचरां प्रकृतिचरो भवन्ति। चिचीषति। टिटीकिषते। तितनिषति। प्रकृतिजशां प्रकृतिजशो भवन्ति। जिजनिषते। बुबुधे। ददौ। डिड्ये।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

401 अभ्यासे झलां चरः स्युर्जशश्च. झशां जशः खयां चर इति विवेकः. बभूव. बभुवतुः. बभूवुः..

बालमनोरमा

31 भ भूव् अ इति स्थिते – अभ्यासे चर्च। `झलां जश् झशि' इत्यस्माज्झलामित्यनुवर्तते। चकारेण जश् समुच्चीयते। तदाह — अभ्यासे झलामित्यादिना। झलश्चतुर्विंशतिः। तत्र शषसाः शरः। तेषामभ्यासे लोपो वक्ष्यते — ‘शर्पूर्वाः खयः' इति। हकारस्य त्वभ्यासे `कुहोश्चुः'इति चुत्वं वक्ष्यते। एवं च झल्षु झयो विंशतिरिहाऽभ्यासगताः स्थानिनो लभ्यन्ते। तेषां मध्ये कस्य चरः, कस्य जश इत्याशङ्कायामाह – झशां जश इति। वर्गाणां तृतीयचतुर्था झशः, तेषां जशः = जबगडदा इत्यर्थः। यद्यद्वर्ग्याः स्थानिनस्तत्तद्वर्ग्या आदेशा इत्यपि बोध्यम्। खयां चर इति। वर्गाणां प्रथमद्वितीयाः खयः, तेषां चरः चटतकपा इत्यर्थः। अत्रापि यद्यद्वर्ग्याः स्थानिनस्तत्तद्वग्र्या आदेशा इत्यपि बोध्यम्। तत्रापीति। तेष्वपि वर्ग्येषु प्रकृत्या = स्वभावेन जशामेव सतां प्कृत्या स्वभावेन जश एव सन्तस्तत्तद्वर्ग्या आदेशाः स्युः। एवं प्रकृत्या स्वभावेन चरामेव सतां प्रकृत्या स्वभावेन चर एव सन्तस्तत्तद्वर्ग्या आदेशाः स्युरित्यर्थः। पर्जन्यवल्लक्षणप्रवृत्तेरिति भावः। कुत इयं व्यवस्थेत्यत आह – आन्तरतम्यात्। झशां जशां च घोषसंवारनादप्रयत्नसाम्यम्। खयां चरां च श्वासाघोषविवारप्रयत्नसाम्यम्। तत्तद्वर्ग्याणां तत्तद्वद्वर्ग्या आदेशा इत्यत्र तु स्थानसाम्यं नियामकं बोध्यम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

400) अभ्यासे चर्च 8-4-54
वृत्तिः अभ्‍यासे झलां चरः स्‍युर्जशश्‍च । In a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the झल्-प्रत्याहारः is substituted by a letter of the चर्-प्रत्याहारः or जश्-प्रत्याहारः। The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः।

उदाहरणम् – continued from above

झु + हो + ति = जुहोति 8-4-54, 1-1-50