TBD.
धातोरादेः इत्यनुवर्तते। धातोरादेर् णकारस्य नकार आदेशो भवति। णीञ् नयति। णम नमति। णह नह्यति। धात्वादेः इत्येव, अणति। सुब्धातोरयम् अपि नेष्यते, णकारम् इच्छति णकारीयति। उपसर्गादसमासे ऽपि णोपदेशस्य 8-4-14 इत्यत्र णत्वविधेर् व्यवस्थार्थं णादयो धात्वः केचिदुपदिष्यन्ते। के पुनस् ते? ये तथा पठ्यन्ते। अथवा लक्षणं क्रियते, सर्वे णादयो णोपदेशाः, नृतीनन्दिनर्दिनक्कनाटिनाथृनाधृवर्जम्।
TBD.
460 धात्वादेर्णस्य नः. णोपदेशास्त्वनर्द्नाटिनाथ्नाध्नन्दनक्कनॄनृतः..
130 णो नः। `ण' इति षष्ठ\उfffद्न्तं। `धात्वादेः षः सः' इत्यतोऽनुवर्तनादाह— धातोरादेरिति। तेन अणतीत्यादौ न नत्वम्। नः स्यादिति। नकारः स्यादित्यर्थः। नदतीति। `मेघादि'रिति शेषः। `णो नः' इति नत्वस्याऽनैमित्तकतया लिण्निमित्तादेशादित्वाऽभावादेत्त्वाभ्यासलोपौ स्त एव, नेदतुरित्यादि। अथ `नृत्?ननर्द्?नन्दनक्क्?नाट्नाथृनानृ?वर्ज णोपदेशाः' इति भाष्यं श्लोकार्धेन सङ्गृह्णाति– णोपदेशास्त्विति। `नर्द शब्दे'। `नट अवस्यन्दने' चुरादिः। नाथृ नाधृ याञ्चादौ, द्वितीयचतुर्थान्तौ। `टु नदि समृद्धौ'। `नक्क नाशने'। नृ? नये'। `नृती गात्रविक्षेपे' एभ्योऽष्टभ्योऽन्ये णकारादिधातव इदानीं नकारादित्वेन दृश्यमाना अपि नत्वसंपन्ननकारादितयाणोपदेशाः प्रत्येतव्या इत्यर्थः। `नाटी'ति ण्यन्तस्य प्रयोजनमाह– नाटेरिति। घटादिरिति। `नटनृत्ता'विति घटादिपठित इत्यर्थः। तत्फलं घटादौ वक्ष्यते। मतान्तरमाह– तवर्गेति। तवर्गचतुर्थान्तनाधधातोर्नृ?नन्द्योश्च णोपदेशेषु पर्युदासाऽभावमङ्गीकृत्य तेषामपि णोपदेशत्वमाहुरित्यर्थः। अत्र मते पञ्चभ्यो भिन्ना णोपदेशा इति फलितम्। भाष्यविरोधोऽत्रारुचिबीजम्।
104 णो नः। धातोरिति। `धात्वादेः षः सः इत्यतोऽनुवर्तनाद्धात्वादेरित्येव। नेह– अणति। णोपदेशान्पर्युदासमुखेनाह– णोपदेशास्त्विति। `नर्द शब्दे'। `नट अवस्यन्दने'। चुरादिः। यस्तु नट नृत्ताविति घटादिः स नेह गृह्रते, नाटीति दीर्घनिर्देशात्। `नाथृ नाधृ याच्ञादौ'। `टुनदि समृद्धौ'। `नक्क नाशने'। `नृ? नये'। `नृती गात्रविक्षेपे'। एभ्योऽष्टाभ्यो भिन्ना इत्यर्थः। तवर्गेति। तेषां मते तु पञ्चब्यो भिन्ना णोपदेशाः।
323) णो नः 6-1-65
वृत्तिः धात्वादेर्णस्य नः । There is the substitution of नकारः in the place of the initial णकारः of a धातुः in the धातु-पाठः।
Note: णोपदेशास्तु अनर्द् – नाटि – नाथ् – नाध् – नन्द् – नक्क् – नॄ – नृतः ।
A धातुः is called णोपदेशः if it has an initial णकारः in the धातु-पाठः। Among those verbal roots that are found to begin with a नकार: at the time of usage in the language, only the following eight verbal roots are नोपदेशा: – begin with a नकार: in the धातुपाठ:। (All others are णोपदेशा: – begin with a णकार: in the धातुपाठ:।)
“नर्द् – नाटि – नाथ् – नाध् – नन्द् – नक्क – नॄ – नृत्”