Home » Texts » अष्टाध्यायी

अष्टाध्यायी

अष्टाध्यायी
Ashtadhyayi – searchable and editable.
(Original source is itx file from sanskritdocuments.org , available in their “major works” section)

1-1-1 वृद्धिरादैच् ।
1-1-2 अदेङ् गुणः ।
1-1-3 इको गुणवृद्धी ।
1-1-4 न धातुलोप आर्धधातुके ।
1-1-5 ग्क्ङिति च ।
1-1-6 दीधीवेवीटाम् ।
1-1-7 हलोऽनन्तराः संयोगः ।
1-1-8 मुखनासिकावचनोऽनुनासिकः ।
1-1-9 तुल्यास्यप्रयत्नं सवर्णम् ।
1-1-10 नाज्झलौ ।
1-1-11 ईदूदेद्द्विवचनं प्रगृह्यम् ।
1-1-12 अदसो मात् ।
1-1-13 शे ।
1-1-14 निपात एकाजनाङ् ।
1-1-15 ओत् ।
1-1-16 सम्बुद्धौ शाकल्यस्येतावनार्षे ।
1-1-17 उञः ।
1-1-18 ऊँ ।
1-1-19 ईदूतौ च सप्तम्यर्थे ।
1-1-20 दाधा घ्वदाप् ।
1-1-21 आद्यन्तवदेकस्मिन् ।
1-1-22 तरप्तमपौ घः ।
1-1-23 बहुगणवतुडति संख्या ।
1-1-24 ष्णान्ता {षट्} ।
1-1-25 डति च ।
1-1-26 क्तक्तवतू निष्ठा ।
1-1-27 सर्वादीनि सर्वनामानि ।
1-1-28 विभाषा दिक्समासे बहुव्रीहौ ।
1-1-29 न बहुव्रीहौ ।
1-1-30 तृतीयासमासे ।
1-1-31 द्वन्द्वे च ।
1-1-32 विभाषा जसि ।
1-1-33 प्रथमचरमतयाल्पार्धकतिपयनेमाश्च ।
1-1-34 पूर्वपरावरदक्षिणोत्तरापराधराणि
व्यवस्थायामसंज्ञायाम् ।
1-1-35 स्वमज्ञातिधनाख्यायाम् ।
1-1-36 अन्तरं बहिर्योगोपसंव्यानयोः ।
1-1-37 स्वरादिनिपातमव्ययम् ।
1-1-38 तद्धितश्चासर्वविभक्तिः ।
1-1-39 कृन्मेजन्तः ।
1-1-40 क्त्वातोसुन्कसुनः ।
1-1-41 अव्ययीभावश्च ।
1-1-42 शि सर्वनामस्थानम् ।
1-1-43 सुडनपुंसकस्य ।
1-1-44 न वेति विभाषा ।
1-1-45 इग्यणः सम्प्रसारणम् ।
1-1-46 आद्यन्तौ टकितौ ।
1-1-47 मिदचोऽन्त्यात्परः ।
1-1-48 एच इग्घ्रस्वादेशे ।
1-1-49 षष्ठी स्थानेयोगा ।
1-1-50 स्थानेऽन्तरतमः ।
1-1-51 उरण् रपरः ।
1-1-52 अलोऽन्त्यस्य ।
1-1-53 ङिच्च ।
1-1-54 आदेः परस्य ।
1-1-55 अनेकाल्शित्सर्वस्य ।
1-1-56 स्थानिवदादेशोऽनल्विधौ ।
1-1-57 अचः परस्मिन् पूर्वविधौ ।
1-1-58 न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु ।
1-1-59 द्विर्वचनेऽचि ।
1-1-60 अदर्शनं लोपः ।
1-1-61 प्रत्ययस्य लुक्‌श्लुलुपः ।
1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम् ।
1-1-63 न लुमताऽङ्गस्य ।
1-1-64 अचोऽन्त्यादि टि ।
1-1-65 अलोऽन्त्यात् पूर्व उपधा ।
1-1-66 तस्मिन्निति निर्दिष्टे पूर्वस्य ।
1-1-67 तस्मादित्युत्तरस्य ।
1-1-68 स्वं रूपं शब्दस्याशब्दसंज्ञा ।
1-1-69 अणुदित् सवर्णस्य चाप्रत्ययः ।
1-1-70 तपरस्तत्कालस्य ।
1-1-71 आदिरन्त्येन सहेता ।
1-1-72 येन विधिस्तदन्तस्य ।
1-1-73 वृद्धिर्यस्याचामादिस्तद् वृद्धम् ।
1-1-74 त्यदादीनि च ।
1-1-75 एङ् प्राचां देशे ।
1-2-1 गाङ्कुटादिभ्योऽञ्णिन्ङ् इत् ।
1-2-2 विज इट् ।
1-2-3 विभाषोर्णोः ।
1-2-4 सार्वधातुकमपित् ।
1-2-5 असंयोगाल्लिट् कित् ।
1-2-6 ईन्धिभवतिभ्यां च ।
1-2-7 मृडमृदगुधकुषक्लिशवदवसः क्त्वा ।
1-2-8 रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च ।
1-2-9 इको झल् ।
1-2-10 हलन्ताच्च ।
1-2-11 लिङ्सिचावात्मनेपदेषु ।
1-2-12 उश्च ।
1-2-13 वा गमः ।
1-2-14 हनः सिच् ।
1-2-15 यमो गन्धने ।
1-2-16 विभाषोपयमने ।
1-2-17 स्था घ्वोरिच्च ।
1-2-18 न क्त्वा सेट् ।
1-2-19 निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः ।
1-2-20 मृषस्तितिक्षायाम् ।
1-2-21 उदुपधाद्भावादिकर्मणोरन्यतरस्याम् ।
1-2-22 पूङः क्त्वा च ।
1-2-23 नोपधात्थफान्ताद्वा ।
1-2-24 वञ्चिलुञ्च्यृतश्च ।
1-2-25 तृषिमृषिकृशेः काश्यपस्य ।
1-2-26 रलो व्युपधाद्धलादेः संश्च ।
1-2-27 ऊकालोऽज्झ्रस्वदीर्घप्लुतः ।
1-2-28 अचश्च ।
1-2-29 उच्चैरुदात्तः ।
1-2-30 नीचैरनुदात्तः ।
1-2-31 समाहारः स्वरितः ।
1-2-32 तस्यादित उदात्तमर्धह्रस्वम् ।
1-2-33 एकश्रुति दूरात् सम्बुद्धौ ।
1-2-34 यज्ञकर्मण्यजपन्यूङ्खसामसु ।
1-2-35 उच्चैस्तरां वा वषट्कारः ।
1-2-36 विभाषा छन्दसि ।
1-2-37 न सुब्रह्मण्यायां स्वरितस्य तूदात्तः ।
1-2-38 देवब्रह्मणोरनुदात्तः ।
1-2-39 स्वरितात् संहितायामनुदात्तानाम् ।
1-2-40 उदात्तस्वरितपरस्य सन्नतरः ।
1-2-41 अपृक्त एकाल् प्रत्ययः ।
1-2-42 तत्पुरुषः समानाधिकरणः कर्मधारयः ।
1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् ।
1-2-44 एकविभक्ति चापूर्वनिपाते ।
1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् ।
1-2-46 कृत्तद्धितसमासाश्च ।
1-2-47 ह्रस्वो नपुंसके प्रातिपदिकस्य ।
1-2-48 गोस्त्रियोरुपसर्ज्जनस्य ।
1-2-49 लुक् तद्धितलुकि ।
1-2-50 इद्गोण्याः ।
1-2-51 लुपि युक्तवद्व्यक्तिवचने ।
1-2-52 विशेषणानां चाजातेः ।
1-2-53 तदशिष्यं संज्ञाप्रमाणत्वात् ।
1-2-54 लुब्योगाप्रख्यानात् ।
1-2-55 योगप्रमाणे च तदभावेऽदर्शनं स्यात् ।
1-2-56 प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् ।
1-2-57 कालोपसर्जने च तुल्यम् ।
1-2-58 जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम् ।
1-2-59 अस्मदो द्वायोश्च ।
1-2-60 फल्गुनीप्रोष्ठपदानां च नक्षत्रे ।
1-2-61 छन्दसि पुनर्वस्वोरेकवचनम् ।
1-2-62 विशाखयोश्च ।
1-2-63 तिष्यपुनर्वस्वोर्नक्षत्रद्वंद्वे बहुवचनस्य
द्विवचनं नित्यम् ।
1-2-64 सरूपाणामेकशेष एकविभक्तौ ।
1-2-65 वृद्धो यूना तल्लक्षणश्चेदेव विशेषः ।
1-2-66 स्त्री पुंवच्च ।
1-2-67 पुमान् स्त्रिया ।
1-2-68 भ्रातृपुत्रौ स्वसृदुहितृभ्याम् ।
1-2-69 नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् ।
1-2-70 पिता मात्रा ।
1-2-71 श्वशुरः श्वश्र्वा ।
1-2-72 त्यदादीनि सर्वैर्नित्यम् ।
1-2-73 ग्राम्यपशुसंघेषु अतरुणेषु स्त्री ।
1-3-1 भूवादयो धातवः ।
1-3-2 उपदेशेऽजनुनासिक इत् ।
1-3-3 हलन्त्यम् ।
1-3-4 न विभक्तौ तुस्माः ।
1-3-5 आदिर्ञिटुडवः ।
1-3-6 षः प्रत्ययस्य ।
1-3-7 चुटू ।
1-3-8 लशक्वतद्धिते ।
1-3-9 तस्य लोपः ।
1-3-10 यथासंख्यमनुदेशः समानाम् ।
1-3-11 स्वरितेनाधिकारः ।
1-3-12 अनुदात्तङित आत्मनेपदम् ।
1-3-13 भावकर्मणोः ।
1-3-14 कर्त्तरि कर्म्मव्यतिहारे ।
1-3-15 न गतिहिंसार्थेभ्यः ।
1-3-16 इतरेतरान्योन्योपपदाच्च ।
1-3-17 नेर्विशः ।
1-3-18 परिव्यवेभ्यः क्रियः ।
1-3-19 विपराभ्यां जेः ।
1-3-20 आङो दोऽनास्यविहरणे ।
1-3-21 क्रीडोऽनुसम्परिभ्यश्च ।
1-3-22 समवप्रविभ्यः स्थः ।
1-3-23 प्रकाशनस्थेयाख्ययोश्च ।
1-3-24 उदोऽनूर्द्ध्वकर्मणि ।
1-3-25 उपान्मन्त्रकरणे ।
1-3-26 अकर्मकाच्च ।
1-3-27 उद्विभ्यां तपः ।
1-3-28 आङो यमहनः ।
1-3-29 समो गम्यृच्छिप्रच्छिस्वरत्यर्तिश्रुविदिभ्यः ।
1-3-30 निसमुपविभ्यो ह्वः ।
1-3-31 स्पर्द्धायामाङः ।
1-3-32 गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः ।
1-3-33 अधेः प्रसहने ।
1-3-34 वेः शब्दकर्म्मणः ।
1-3-35 अकर्मकाच्च ।
1-3-36 सम्माननोत्सञ्जनाचार्यकरणज्ञानभ्ऋतिविगणनव्ययेषु नियः ।
1-3-37 कर्तृस्थे चाशरीरे कर्मणि ।
1-3-38 वृत्तिसर्गतायनेषु क्रमः ।
1-3-39 उपपराभ्याम् ।
1-3-40 आङ उद्गमने ।
1-3-41 वेः पादविहरणे ।
1-3-42 प्रोपाभ्यां समर्थाभ्याम् ।
1-3-43 अनुपसर्गाद्वा ।
1-3-44 अपह्नवे ज्ञः ।
1-3-45 अकर्मकाच्च ।
1-3-46 सम्प्रतिभ्यामनाध्याने ।
1-3-47 भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः ।
1-3-48 व्यक्तवाचां समुच्चारणे ।
1-3-49 अनोरकर्मकात् ।
1-3-50 विभाषा विप्रलापे ।
1-3-51 अवाद्ग्रः ।
1-3-52 समः प्रतिज्ञाने ।
1-3-53 उदश्चरः सकर्मकात् ।
1-3-54 समस्तृतीयायुक्तात् ।
1-3-55 दाणश्च सा चेच्चतुर्थ्यर्थे ।
1-3-56 उपाद्यमः स्वकरणे ।
1-3-57 ज्ञाश्रुस्मृदृशां सनः ।
1-3-58 नानोर्ज्ञः ।
1-3-59 प्रत्याङ्भ्यां श्रुवः ।
1-3-60 शदेः शितः ।
1-3-61 म्रियतेर्लुङ्‌लिङोश्च ।
1-3-62 पूर्ववत् सनः ।
1-3-63 आम्प्रत्ययवत् कृञोऽनुप्रयोगस्य ।
1-3-64 प्रोपाभ्यां युजेरयज्ञपात्रेषु ।
1-3-65 समः क्ष्णुवः ।
1-3-66 भुजोऽनवने ।
1-3-67 णेरणौ यत् कर्म णौ चेत् स कर्ताऽनाध्याने ।
1-3-68 भीस्म्योर्हेतुभये ।
1-3-69 गृधिवञ्च्योः प्रलम्भने ।
1-3-70 लियः सम्माननशालिनीकरणयोश्च ।
1-3-71 मिथ्योपपदात् कृञोऽभ्यासे ।
1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले ।
1-3-73 अपाद्वदः ।
1-3-74 णिचश्च ।
1-3-75 समुदाङ्भ्यो यमोऽग्रन्थे ।
1-3-76 अनुपसर्गाज्ज्ञः ।
1-3-77 विभाषोपपदेन प्रतीयमाने ।
1-3-78 शेषात् कर्तरि परस्मैपदम् ।
1-3-79 अनुपराभ्यां कृञः ।
1-3-80 अभिप्रत्यतिभ्यः क्षिपः ।
1-3-81 प्राद्वहः ।
1-3-82 परेर्मृषः ।
1-3-83 व्याङ्परिभ्यो रमः ।
1-3-84 उपाच्च ।
1-3-85 विभाषाऽकर्मकात् ।
1-3-86 बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः ।
1-3-87 निगरणचलनार्थेभ्यः ।
1-3-88 अणावकर्मकाच्चित्तवत्कर्तृकात् ।
1-3-89 न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः ।
1-3-90 वा क्यषः ।
1-3-91 द्युद्भ्यो लुङि ।
1-3-92 वृद्भ्यः स्यसनोः ।
1-3-93 लुटि च क्ऌपः ।
1-4-1 आ कडारादेका संज्ञा ।
1-4-2 विप्रतिषेधे परं कार्यम् ।
1-4-3 यू स्त्र्याख्यौ नदी ।
1-4-4 नेयङुवङ्स्थानावस्त्री ।
1-4-5 वाऽऽमि ।
1-4-6 ङिति ह्रस्वश्च ।
1-4-7 शेषो घ्यसखि ।
1-4-8 पतिः समास एव ।
1-4-9 षष्ठीयुक्तश्छन्दसि वा ।
1-4-10 ह्रस्वं लघु ।
1-4-11 संयोगे गुरु ।
1-4-12 दीर्घं च ।
1-4-13 यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् ।
1-4-14 सुप्तिङन्तं पदम् ।
1-4-15 नः क्ये ।
1-4-16 सिति च ।
1-4-17 स्वादिष्वसर्वनामस्थाने ।
1-4-18 यचि भम् ।
1-4-19 तसौ मत्वर्थे ।
1-4-20 अयस्मयादीनि च्छन्दसि ।
1-4-21 बहुषु बहुवचनम् ।
1-4-22 द्व्येकयोर्द्विवचनैकवचने ।
1-4-23 कारके ।
1-4-24 ध्रुवमपायेऽपादानम् ।
1-4-25 भीत्रार्थानां भयहेतुः ।
1-4-26 पराजेरसोढः ।
1-4-27 वारणार्थानां ईप्सितः ।
1-4-28 अन्तर्द्धौ येनादर्शनमिच्छति ।
1-4-29 आख्यातोपयोगे ।
1-4-30 जनिकर्तुः प्रकृतिः ।
1-4-31 भुवः प्रभवः ।
1-4-32 कर्मणा यमभिप्रैति स सम्प्रदानम् ।
1-4-33 रुच्यर्थानां प्रीयमाणः ।
1-4-34 श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः ।
1-4-35 धारेरुत्तमर्णः ।
1-4-36 स्पृहेरीप्सितः ।
1-4-37 क्रुधद्रुहेर्ष्यऽसूयार्थानां यं प्रति कोपः ।
1-4-38 क्रुधद्रुहोरुपसृष्टयोः कर्म ।
1-4-39 राधीक्ष्योर्यस्य विप्रश्नः ।
1-4-40 प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता ।
1-4-41 अनुप्रतिगृणश्च ।
1-4-42 साधकतमं करणम् ।
1-4-43 दिवः कर्म च ।
1-4-44 परिक्रयणे सम्प्रदानमन्यतरस्याम् ।
1-4-45 आधारोऽधिकरणम् ।
1-4-46 अधिशीङ्स्थाऽऽसां कर्म ।
1-4-47 अभिनिविशश्च ।
1-4-48 उपान्वध्याङ्वसः ।
1-4-49 कर्तुरीप्सिततमं कर्म ।
1-4-50 तथायुक्तं चानिप्सीतम् ।
1-4-51 अकथितं च ।
1-4-52 गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता
स णौ ।
1-4-53 हृक्रोरन्यतरस्याम् ।
1-4-54 स्वतन्त्रः कर्ता ।
1-4-55 तत्प्रयोजको हेतुश्च ।
1-4-56 प्राग्रीश्वरान्निपाताः ।
1-4-57 चादयोऽसत्त्वे ।
1-4-58 प्रादयः ।
1-4-59 उपसर्गाः क्रियायोगे ।
1-4-60 गतिश्च ।
1-4-61 ऊर्यादिच्विडाचश्च ।
1-4-62 अनुकरणं चानितिपरम् ।
1-4-63 आदरानादरयोः सदसती ।
1-4-64 भूषणेऽलम् ।
1-4-65 अन्तरपरिग्रहे ।
1-4-66 कणेमनसी श्रद्धाप्रतीघाते ।
1-4-67 पुरोऽव्ययम् ।
1-4-68 अस्तं च ।
1-4-69 अच्छ गत्यर्थवदेषु ।
1-4-70 अदोऽनुपदेशे ।
1-4-71 तिरोऽन्तर्द्धौ ।
1-4-72 विभाषा कृञि ।
1-4-73 उपाजेऽन्वाजे ।
1-4-74 साक्षात्प्रभृतीनि च ।
1-4-75 अनत्याधान उरसिमनसी ।
1-4-76 मध्येपदेनिवचने च ।
1-4-77 नित्यं हस्ते पाणावुपयमने ।
1-4-78 प्राध्वं बन्धने ।
1-4-79 जीविकोपनिषदावौपम्ये ।
1-4-80 ते प्राग्धातोः ।
1-4-81 छन्दसि परेऽपि ।
1-4-82 व्यवहिताश्च ।
1-4-83 कर्मप्रवचनीयाः ।
1-4-84 अनुर्लक्षणे ।
1-4-85 तृतीया.अर्थे ।
1-4-86 हीने ।
1-4-87 उपोऽधिके च ।
1-4-88 अपपरी वर्जने ।
1-4-89 आङ् मर्यादावचने ।
1-4-90 लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः ।
1-4-91 अभिरभागे ।
1-4-92 प्रतिः प्रतिनिधिप्रतिदानयोः ।
1-4-93 अधिपरी अनर्थकौ ।
1-4-94 सुः पूजायाम् ।
1-4-95 अतिरतिक्रमणे च ।
1-4-96 अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु ।
1-4-97 अधिरीश्वरे ।
1-4-98 विभाषा कृञि ।
1-4-99 लः परस्मैपदम् ।
1-4-100 तङानावात्मनेपदम् ।
1-4-101 तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः ।
1-4-102 तान्येकवचनद्विवचनबहुवचनान्येकशः ।
1-4-103 सुपः ।
1-4-104 विभक्तिश्च ।
1-4-105 युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः ।
1-4-106 प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च ।
1-4-107 अस्मद्युत्तमः ।
1-4-108 शेषे प्रथमः ।
1-4-109 परः संनिकर्षः संहिता ।
1-4-110 विरामोऽवसानम् ।
2-1-1 समर्थः पदविधिः ।
2-1-2 सुबामन्त्रिते पराङ्गवत्‌ स्वरे ।
2-1-3 प्राक् कडारात्‌ समासः ।
2-1-4 सह सुपा ।
2-1-5 अव्ययीभावः ।
2-1-6 अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथाऽऽनुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु ।
2-1-7 यथाऽसादृये ।
2-1-8 यावदवधारणे ।
2-1-9 सुप्प्रतिना मात्राऽर्थे ।
2-1-10 अक्षशलाकासंख्याः परिणा ।
2-1-11 विभाषा ।
2-1-12 अपपरिबहिरञ्चवः पञ्चम्या ।
2-1-13 आङ् मर्यादाऽभिविध्योः ।
2-1-14 लक्षणेनाभिप्रती आभिमुख्ये ।
2-1-15 अनुर्यत्समया ।
2-1-16 यस्य चायामः ।
2-1-17 तिष्ठद्गुप्रभृतीनि च ।
2-1-18 पारे मध्ये षष्ठ्या वा ।
2-1-19 संख्या वंश्येन ।
2-1-20 नदीभिश्च ।
2-1-21 अन्यपदार्थे च संज्ञायाम्‌ ।
2-1-22 तत्पुरुषः ।
2-1-23 द्विगुश्च ।
2-1-24 द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः ।
2-1-25 स्वयं क्तेन ।
2-1-26 खट्वा क्षेपे ।
2-1-27 सामि ।
2-1-28 कालाः ।
2-1-29 अत्यन्तसंयोगे च ।
2-1-30 तृतीया तत्कृतार्थेन गुणवचनेन ।
2-1-31 पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः ।
2-1-32 कर्तृकरणे कृता बहुलम्‌ ।
2-1-33 कृत्यैरधिकार्थवचने ।
2-1-34 अन्नेन व्यञ्जनम्‌ ।
2-1-35 भक्ष्येण मिश्रीकरणम्‌ ।
2-1-36 चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः ।
2-1-37 पञ्चमी भयेन ।
2-1-38 अपेतापोढमुक्तपतितापत्रस्तैरल्पशः ।
2-1-39 स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन ।
2-1-40 सप्तमी शौण्डैः ।
2-1-41 सिद्धशुष्कपक्वबन्धैश्च ।
2-1-42 ध्वाङ्क्षेण क्षेपे ।
2-1-43 कृत्यैरृणे ।
2-1-44 संज्ञायाम्‌ ।
2-1-45 क्तेनाहोरात्रावयवाः ।
2-1-46 तत्र ।
2-1-47 क्षेपे ।
2-1-48 पात्रेसमितादयश्च ।
2-1-49 पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन ।
2-1-50 दिक्संख्ये संज्ञायाम्‌ ।
2-1-51 तद्धितार्थोत्तरपदसमाहारे च ।
2-1-52 संख्यापूर्वो द्विगुः ।
2-1-53 कुत्सितानि कुत्सनैः ।
2-1-54 पापाणके कुत्सितैः ।
2-1-55 उपमानानि सामान्यवचनैः ।
2-1-56 उपमितं व्याघ्रादिभिः सामान्याप्रयोगे ।
2-1-57 विशेषणं विशेष्येण बहुलम्‌ ।
2-1-58 पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च ।
2-1-59 श्रेण्यादयः कृतादिभिः ।
2-1-60 क्तेन नञ्विशिष्टेनानञ् ।
2-1-61 सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः ।
2-1-62 वृन्दारकनागकुञ्जरैः पूज्यमानम्‌ ।
2-1-63 कतरकतमौ जातिपरिप्रश्ने ।
2-1-64 किं क्षेपे ।
2-1-65 पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहत्बष्कयणीप्रवक्तॄश्रोत्रियाध्यापकधूर्तैर्जातिः ।
2-1-66 प्रशंसावचनैश्च ।
2-1-67 युवा खलतिपलितवलिनजरतीभिः ।
2-1-68 कृत्यतुल्याख्या अजात्या ।
2-1-69 वर्णो वर्णेन ।
2-1-70 कुमारः श्रमणाऽऽदिभिः ।
2-1-71 चतुष्पादो गर्भिण्या ।
2-1-72 मयूरव्यंसकादयश्च ।
2-2-1 पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे ।
2-2-2 अर्धं नपुंसकम्‌ ।
2-2-3 द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम्‌ ।
2-2-4 प्राप्तापन्ने च द्वितीयया ।
2-2-5 कालाः परिमाणिना ।
2-2-6 नञ्‌ ।
2-2-7 ईषदकृता ।
2-2-8 षष्ठी ।
2-2-9 याजकादिभिश्च ।
2-2-10 न निर्धारणे ।
2-2-11 पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन ।
2-2-12 क्तेन च पूजायाम्‌ ।
2-2-13 अधिकरणवाचिना च ।
2-2-14 कर्म्मणि च ।
2-2-15 तृजकाभ्यां कर्तरि ।
2-2-16 कर्त्तरि च ।
2-2-17 नित्यं क्रीडाजीविकयोः ।
2-2-18 कुगतिप्रादयः ।
2-2-19 उपपदमतिङ् ।
2-2-20 अमैवाव्ययेन ।
2-2-21 तृतीयाप्रभृतीन्यन्यतरस्याम्‌ ।
2-2-22 क्त्वा च ।
2-2-23 शेषो बहुव्रीहिः ।
2-2-24 अनेकमन्यपदार्थे ।
2-2-25 संख्ययाऽव्ययासन्नादूराधिकसंख्याः संख्येये ।
2-2-26 दिङ्नामान्यन्तराले ।
2-2-27 तत्र तेनेदमिति सरूपे ।
2-2-28 तेन सहेति तुल्ययोगे ।
2-2-29 चार्थे द्वंद्वः ।
2-2-30 उपसर्जनं पूर्वम्‌ ।
2-2-31 राजदन्तादिषु परम्‌ ।
2-2-32 द्वंद्वे घि ।
2-2-33 अजाद्यदन्तम्‌ ।
2-2-34 अल्पाच्तरम्‌ ।
2-2-35 सप्तमीविशेषणे बहुव्रीहौ ।
2-2-36 निष्ठा ।
2-2-37 वाऽऽहिताग्न्यादिषु ।
2-2-38 कडाराः कर्मधराये ।
2-3-1 अनभिहिते ।
2-3-2 कर्मणि द्वितीया ।
2-3-3 तृतीया च होश्छन्दसि ।
2-3-4 अन्तराऽन्तरेण युक्ते ।
2-3-5 कालाध्वनोरत्यन्तसंयोगे ।
2-3-6 अपवर्गे तृतीया ।
2-3-7 सप्तमीपञ्चम्यौ कारकमध्ये ।
2-3-8 कर्मप्रवचनीययुक्ते द्वितीया ।
2-3-9 यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी ।
2-3-10 पञ्चमी अपाङ्परिभिः ।
2-3-11 प्रतिनिधिप्रतिदाने च यस्मात्‌ ।
2-3-12 गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि ।
2-3-13 चतुर्थी सम्प्रदाने ।
2-3-14 क्रियार्थोपपदस्य च कर्मणि स्थानिनः ।
2-3-15 तुमर्थाच्च भाववचनात्‌ ।
2-3-16 नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च ।
2-3-17 मन्यकर्मण्यनादरे विभाषाऽप्राणिषु ।
2-3-18 कर्तृकरणयोस्तृतीया ।
2-3-19 सहयुक्तेऽप्रधाने ।
2-3-20 येनाङ्गविकारः ।
2-3-21 इत्थंभूतलक्षणे ।
2-3-22 संज्ञोऽन्यतरस्यां कर्मणि ।
2-3-23 हेतौ ।
2-3-24 अकर्तर्यृणे पञ्चमी ।
2-3-25 विभाषा गुणेऽस्त्रियाम्‌ ।
2-3-26 षष्ठी हेतुप्रयोगे ।
2-3-27 सर्वनाम्नस्तृतीया च ।
2-3-28 अपादाने पञ्चमी ।
2-3-29 अन्यारादितरर्त्तेदिक्‌शब्दाञ्चूत्तरपदाजाहियुक्ते ।
2-3-30 षष्ठ्यतसर्थप्रत्ययेन ।
2-3-31 एनपा द्वितीया ।
2-3-32 पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम्‌ ।
2-3-33 करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्य ।
2-3-34 दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम्‌ ।
2-3-35 दूरान्तिकार्थेभ्यो द्वितीया च ।
2-3-36 सप्तम्यधिकरणे च ।
2-3-37 यस्य च भावेन भावलक्षणम्‌ ।
2-3-38 षष्ठी चानादरे ।
2-3-39 स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च ।
2-3-40 आयुक्तकुशलाभ्यां चासेवायाम्‌ ।
2-3-41 यतश्च निर्धारणम्‌ ।
2-3-42 पञ्चमी विभक्ते ।
2-3-43 साधुनिपुणाभ्याम् अर्चायां सप्तम्यप्रतेः ।
2-3-44 प्रसितोत्सुकाभ्यां तृतीया च ।
2-3-45 नक्षत्रे च लुपि ।
2-3-46 प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा ।
2-3-47 सम्बोधने च ।
2-3-48 साऽऽमन्त्रितम्‌ ।
2-3-49 एकवचनं संबुद्धिः ।
2-3-50 षष्ठी शेषे ।
2-3-51 ज्ञोऽविदर्थस्य करणे ।
2-3-52 अधीगर्थदयेशां कर्मणि ।
2-3-53 कृञः प्रतियत्ने ।
2-3-54 रुजार्थानां भाववचनानामज्वरेः ।
2-3-55 आशिषि नाथः ।
2-3-56 जासिनिप्रहणनाटक्राथपिषां हिंसायाम्‌ ।
2-3-57 व्यवहृपणोः समर्थयोः ।
2-3-58 दिवस्तदर्थस्य ।
2-3-59 विभाषोपसर्गे ।
2-3-60 द्वितीया ब्राह्मणे ।
2-3-61 प्रेष्यब्रुवोर्हविषो देवतासम्प्रदाने ।
2-3-62 चतुर्थ्यर्थे बहुलं छन्दसि ।
2-3-63 यजेश्च करणे ।
2-3-64 कृत्वोऽर्थप्रयोगे कालेऽधिकरणे ।
2-3-65 कर्तृकर्मणोः कृति ।
2-3-66 उभयप्राप्तौ कर्मणि ।
2-3-67 क्तस्य च वर्तमाने ।
2-3-68 अधिकरणवाचिनश्च ।
2-3-69 न लोकाव्ययनिष्ठाखलर्थतृनाम्‌ ।
2-3-70 अकेनोर्भविष्यदाधमर्ण्ययोः ।
2-3-71 कृत्यानां कर्तरि वा ।
2-3-72 तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम्‌ ।
2-3-73 चतुर्थी चाशिष्यायुष्यमद्रभद्र\-
कुशलसुखार्थहितैः ।
2-4-1 द्विगुरेकवचनम्‌ ।
2-4-2 द्वंद्वश्च प्राणितूर्यसेनाङ्गानाम्‌ ।
2-4-3 अनुवादे चरणानाम्‌ ।
2-4-4 अध्वर्युक्रतुरनपुंसकम्. ।
2-4-5 अध्ययनतोऽविप्रकृष्टाख्यानाम्‌ ।
2-4-6 जातिरप्राणिनाम्‌ ।
2-4-7 विशिष्टलिङ्गो नदी देशोऽग्रामाः ।
2-4-8 क्षुद्रजन्तवः ।
2-4-9 येषां च विरोधः शाश्वतिकः ।
2-4-10 शूद्राणामनिरवसितानाम्‌ ।
2-4-11 गवाश्वप्रभृतीनि च ।
2-4-12 विभाषा वृक्षमृगतृणधान्यव्यञ्जन\-
पशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम्‌ ।
2-4-13 विप्रतिषिद्धं चानधिकरणवाचि ।
2-4-14 न दधिपयआदीनि ।
2-4-15 अधिकरणैतावत्त्वे च ।
2-4-16 विभाषा समीपे ।
2-4-17 स नपुंसकम्‌ ।
2-4-18 अव्ययीभावश्च ।
2-4-19 तत्पुरुषोऽनञ्‌ कर्मधारयः ।
2-4-20 संज्ञायां कन्थोशीनरेषु ।
2-4-21 उपज्ञोपक्रमं तदाद्याचिख्यासायाम्‌ ।
2-4-22 छाया बाहुल्ये ।
2-4-23 सभा राजाऽमनुष्यपूर्वा ।
2-4-24 अशाला च ।
2-4-25 विभाषा सेनासुराछायाशालानिशानाम्‌ ।
2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ।
2-4-27 पूर्ववदश्ववडवौ ।
2-4-28 हेमन्तशिशिरावहोरात्रे च च्छन्दसि ।
2-4-29 रात्राह्नाहाः पुंसि ।
2-4-30 अपथं नपुंसकम्‌ ।
2-4-31 अर्धर्चाः पुंसि च ।
2-4-32 इदमोऽन्वादेशेऽशनुदात्तस्तृतीयाऽऽदौ ।
2-4-33 एतदस्त्रतसोस्त्रतसौ चानुदात्तौ ।
2-4-34 द्वितीयाटौस्स्वेनः ।
2-4-35 आर्द्धधातुके ।
2-4-36 अदो जग्धिर्ल्यप्ति किति ।
2-4-37 लुङ्सनोर्घस ।
2-4-38 घञपोश्च ।
2-4-39 बहुलं छन्दसि ।
2-4-40 लिट्यन्यतरस्याम्‌ ।
2-4-41 वेञो वयिः ।
2-4-42 हनो वध लिङि ।
2-4-43 लुङि च ।
2-4-44 आत्मनेपदेष्वन्यतरस्याम्‌ ।
2-4-45 इणो गा लुङि ।
2-4-46 णौ गमिरबोधने ।
2-4-47 सनि च ।
2-4-48 इङश्च ।
2-4-49 गाङ्‌ लिटि ।
2-4-50 विभाषा लुङ्लृङोः ।
2-4-51 णौ च सँश्चङोः ।
2-4-52 अस्तेर्भूः ।
2-4-53 ब्रुवो वचिः ।
2-4-54 चक्षिङः ख्याञ्‌ ।
2-4-55 वा लिटि ।
2-4-56 अजेर्व्यघञपोः ।
2-4-57 वा यौ ।
2-4-58 ण्यक्षत्रियार्षञितो यूनि लुगणिञोः ।
2-4-59 पैलादिभ्यश्च ।
2-4-60 इञः प्राचाम्‌ ।
2-4-61 न तौल्वलिभ्यः ।
2-4-62 तद्राजस्य बहुषु तेनैवास्त्रियाम्‌ ।
2-4-63 यस्कादिभ्यो गोत्रे ।
2-4-64 यञञोश्च ।
2-4-65 अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च ।
2-4-66 बह्वचः इञः प्राच्यभरतेषु ।
2-4-67 न गोपवनादिभ्यः ।
2-4-68 तिककितवादिभ्यो द्वंद्वे ।
2-4-69 उपकादिभ्योऽन्यतरस्यामद्वंद्वे ।
2-4-70 आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच्‌ ।
2-4-71 सुपो धातुप्रातिपदिकयोः ।
2-4-72 अदिप्रभृतिभ्यः शपः ।
2-4-73 बहुलं छन्दसि ।
2-4-74 यङोऽचि च ।
2-4-75 जुहोत्यादिभ्यः श्लुः ।
2-4-76 बहुलं छन्दसि ।
2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु ।
2-4-78 विभाषा घ्राधेट्शाच्छासः ।
2-4-79 तनादिभ्यस्तथासोः ।
2-4-80 मन्त्रे घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यो लेः ।
2-4-81 आमः ।
2-4-82 अव्ययादाप्सुपः ।
2-4-83 नाव्ययीभावादतोऽम्त्वपञ्चम्याः ।
2-4-84 तृतीयासप्तम्योर्बहुलम्‌ ।
2-4-85 लुटः प्रथमस्य डारौरसः ।
3-1-1 प्रत्ययः ।
3-1-2 परश्च ।
3-1-3 आद्युदात्तश्च ।
3-1-4 अनुदत्तौ सुप्पितौ ।
3-1-5 गुप्तिज्किद्भ्यः सन् ।
3-1-6 मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य ।
3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा ।
3-1-8 सुप आत्मनः क्यच् ।
3-1-9 काम्यच्च ।
3-1-10 उपमानादाचारे ।
3-1-11 कर्तुः क्यङ् सलोपश्च ।
3-1-12 भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः ।
3-1-13 लोहितादिडाज्भ्यः क्यष्।
3-1-14 कष्टाय क्रमणे ।
3-1-15 कर्मणः रोमन्थतपोभ्यां वर्तिचरोः ।
3-1-16 बाष्पोष्माभ्यां उद्वमने ।
3-1-17 शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे ।
3-1-18 सुखादिभ्यः कर्तृवेदनायाम् ।
3-1-19 नमोवरिवश्चित्रङः क्यच् ।
3-1-20 पुच्छभाण्डचीवराण्णिङ् ।
3-1-21 मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो
णिच् ।
3-1-22 धातोरेकाचो हलादेः क्रियासमभिहारे यङ् ।
3-1-23 नित्यं कौटिल्ये गतौ ।
3-1-24 लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम् ।
3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्ण\-
चूर्णचुरादिभ्यो णिच् ।
3-1-26 हेतुमति च ।
3-1-27 कण्ड्वादिभ्यो यक् ।
3-1-28 गुपूधूपविच्छिपणिपनिभ्य आयः ।
3-1-29 ऋतेरीयङ् ।
3-1-30 कमेर्णिङ् ।
3-1-31 आयादय आर्धद्धातुके वा ।
3-1-32 सनाद्यन्ता धातवः ।
3-1-33 स्यतासी लृलुटोः ।
3-1-34 सिब्बहुलं लेटि ।
3-1-35 कास्प्रत्ययादाममन्त्रे लिटि ।
3-1-36 इजादेश्च गुरुमतोऽनृच्छः ।
3-1-37 दयायासश्च ।
3-1-38 उषविदजागृभ्योऽन्यतरस्याम् ।
3-1-39 भीह्रीभृहुवां श्लुवच्च ।
3-1-40 कृञ् चानुप्रयुज्यते लिटि ।
3-1-41 विदाङ्कुर्वन्त्वित्यन्यतरस्याम् ।
3-1-42 अभ्युत्सादयांप्रजनयांचिकयांरमयामकः
पावयांक्रियाद्विदामक्रन्निति च्छन्दसि ।
3-1-43 च्लि लुङि ।
3-1-44 च्लेः सिच् ।
3-1-45 शल इगुपधादनिटः क्सः ।
3-1-46 श्लिष आलिङ्गने ।
3-1-47 न दृशः ।
3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ् ।
3-1-49 विभाषा धेट्श्व्योः ।
3-1-50 गुपेश्छन्दसि ।
3-1-51 नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः ।
3-1-52 अस्यतिवक्तिख्यातिभ्योऽङ् ।
3-1-53 लिपिसिचिह्वश्च ।
3-1-54 आत्मनेपदेष्वन्यतरस्याम् ।
3-1-55 पुषादिद्युताद्यॢदितः परस्मैपदेषु ।
3-1-56 सर्त्तिशास्त्यर्तिभ्यश्च ।
3-1-57 इरितो वा ।
3-1-58 जृस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च ।
3-1-59 कृमृदृरुहिभ्यश्छन्दसि ।
3-1-60 चिण् ते पदः ।
3-1-61 दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् ।
3-1-62 अचः कर्मकर्तरि ।
3-1-63 दुहश्च ।
3-1-64 न रुधः ।
3-1-65 तपोऽनुतापे च ।
3-1-66 चिण् भावकर्मणोः ।
3-1-67 सार्वधातुके यक् ।
3-1-68 कर्तरि शप्‌ ।
3-1-69 दिवादिभ्यः श्यन् ।
3-1-70 वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः ।
3-1-71 यसोऽनुपसर्गात्‌ ।
3-1-72 संयसश्च ।
3-1-73 स्वादिभ्यः श्नुः ।
3-1-74 श्रुवः शृ च ।
3-1-75 अक्षोऽन्यतरस्याम् ।
3-1-76 तनूकरणे तक्षः ।
3-1-77 तुदादिभ्यः शः ।
3-1-78 रुधादिभ्यः श्नम् ।
3-1-79 तनादिकृञ्भ्य उः ।
3-1-80 धिन्विकृण्व्योर च ।
3-1-81 क्र्यादिभ्यः श्ना ।
3-1-82 स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च ।
3-1-83 हलः श्नः शानज्झौ ।
3-1-84 छन्दसि शायजपि ।
3-1-85 व्यत्ययो बहुलम् ।
3-1-86 लिङ्याशिष्यङ् ।
3-1-87 कर्मवत्‌ कर्मणा तुल्यक्रियः ।
3-1-88 तपस्तपःकर्मकस्यैव ।
3-1-89 न दुहस्नुनमां यक्चिणौ ।
3-1-90 कुषिरजोः प्राचां श्यन् परस्मैपदं च ।
3-1-91 धातोः ।
3-1-92 तत्रोपपदं सप्तमीस्थम्‌ ।
3-1-93 कृदतिङ् ।
3-1-94 वाऽसरूपोऽस्त्रियाम् ।
3-1-95 कृत्याः प्राङ् ण्वुलः ।
3-1-96 तव्यत्तव्यानीयरः ।
3-1-97 अचो यत्‌ ।
3-1-98 पोरदुपधात्‌ ।
3-1-99 शकिसहोश्च ।
3-1-100 गदमदचरयमश्चानुपसर्गे ।
3-1-101 अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु ।
3-1-102 वह्यं करणम्‌ ।
3-1-103 अर्यः स्वामिवैश्ययोः ।
3-1-104 उपसर्या काल्या प्रजने ।
3-1-105 अजर्यं संगतम्‌ ।
3-1-106 वदः सुपि क्यप् च ।
3-1-107 भुवो भावे ।
3-1-108 हनस्त च ।
3-1-109 एतिस्तुशस्वृदृजुषः क्यप्‌ ।
3-1-110 ऋदुपधाच्चाकपिचृतेः ।
3-1-111 ई च खनः ।
3-1-112 भृञोऽसंज्ञायाम् ।
3-1-113 मृजेर्विभाषा ।
3-1-114 राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः

3-1-115 भिद्योद्ध्यौ नदे ।
3-1-116 पुष्यसिद्ध्यौ नक्षत्रे ।
3-1-117 विपूयविनीयजित्या मुञ्जकल्कहलिषु ।
3-1-118 प्रत्यपिभ्यां ग्रहेश्छन्दसि ।
3-1-119 पदास्वैरिबाह्यापक्ष्येषु च ।
3-1-120 विभाषा कृवृषोः ।
3-1-121 युग्यं च पत्त्रे ।
3-1-122 अमावस्यदन्यतरस्याम् ।
3-1-123 छन्दसि निष्टर्क्यदेवहूयप्रणीयोन्नीयोच्छिष्य
मर्यस्तर्याध्वर्यखन्यखान्यदेवयज्याऽऽपृच्छ्य
प्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृडानि ।
3-1-124 ऋहलोर्ण्यत्‌ ।
3-1-125 ओरावश्यके ।
3-1-126 आसुयुवपिरपिलपित्रपिचमश्च ।
3-1-127 आनाय्योऽनित्ये ।
3-1-128 प्रणाय्योऽसंमतौ ।
3-1-129 पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु ।
3-1-130 क्रतौ कुण्डपाय्यसंचाय्यौ ।
3-1-131 अग्नौ परिचाय्योपचाय्यसमूह्याः ।
3-1-132 चित्याग्निचित्ये च ।
3-1-133 ण्वुल्तृचौ ।
3-1-134 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः ।
3-1-135 इगुपधज्ञाप्रीकिरः कः ।
3-1-136 आतश्चोपसर्गे ।
3-1-137 पाघ्राध्माधेट्दृशः शः ।
3-1-138 अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेति\-
सातिसाहिभ्यश्च ।
3-1-139 ददातिदधात्योर्विभाषा ।
3-1-140 ज्वलितिकसन्तेभ्यो णः ।
3-1-141 श्याऽऽद्व्यधास्रुसंस्र्वतीणवसाऽवहृलिह\-
श्लिषश्वसश्च ।
3-1-142 दुन्योरनुपसर्गे ।
3-1-143 विभाषा ग्रहेः ।
3-1-144 गेहे कः ।
3-1-145 शिल्पिनि ष्वुन् ।
3-1-146 गस्थकन् ।
3-1-147 ण्युट् च ।
3-1-148 हश्च व्रीहिकालयोः ।
3-1-149 प्रुसृल्वः समभिहारे वुन् ।
3-1-150 आशिषि च ।
3-2-1 कर्मण्यण् ।
3-2-2 ह्वावामश्च ।
3-2-3 आतोऽनुपसर्गे कः ।
3-2-4 सुपि स्थः ।
3-2-5 तुन्दशोकयोः परिमृजापनुदोः ।
3-2-6 प्रे दाज्ञः ।
3-2-7 समि ख्यः ।
3-2-8 गापोष्टक् ।
3-2-9 हरतेरनुद्यमनेऽच् ।
3-2-10 वयसि च ।
3-2-11 आङि ताच्छील्ये ।
3-2-12 अर्हः ।
3-2-13 स्तम्बकर्णयोः रमिजपोः ।
3-2-14 शमि धातोः संज्ञायाम् ।
3-2-15 अधिकरणे शेतेः ।
3-2-16 चरेष्टः ।
3-2-17 भिक्षासेनाऽऽदायेषु च ।
3-2-18 पुरोऽग्रतोऽग्रेषु सर्तेः ।
3-2-19 पूर्वे कर्तरि ।
3-2-20 कृञो हेतुताच्छील्यानुलोम्येषु ।
3-2-21 दिवाविभानिशाप्रभाभास्करान्तानन्तादिबहुनान्दी\- किम्लिपि
लिबिबलिभक्तिकर्तृचित्रक्षेत्र\-
संख्याजङ्घाबाह्वहर्यत्तत्धनुररुष्षु ।
3-2-22 कर्मणि भृतौ ।
3-2-23 न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु ।
3-2-24 स्तम्बशकृतोरिन् ।
3-2-25 हरतेर्दृतिनाथयोः पशौ ।
3-2-26 फलेग्रहिरात्मम्भरिश्च ।
3-2-27 छन्दसि वनसनरक्षिमथाम् ।
3-2-28 एजेः खश् ।
3-2-29 नासिकास्तनयोर्ध्माधेटोः ।
3-2-30 नाडीमुष्ट्योश्च ।
3-2-31 उदि कूले रुजिवहोः ।
3-2-32 वहाभ्रे लिहः ।
3-2-33 परिमाणे पचः ।
3-2-34 मितनखे च ।
3-2-35 विध्वरुषोः तुदः ।
3-2-36 असूर्यललाटयोर्दृशितपोः ।
3-2-37 उग्रम्पश्येरम्मदपाणिन्धमाश्च ।
3-2-38 प्रियवशे वदः खच् ।
3-2-39 द्विषत्परयोस्तापेः ।
3-2-40 वाचि यमो व्रते ।
3-2-41 पूःसर्वयोर्दारिसहोः ।
3-2-42 सर्वकूलाभ्रकरीषेषु कषः ।
3-2-43 मेघर्तिभयेषु कृञः ।
3-2-44 क्षेमप्रियमद्रेऽण् च ।
3-2-45 आशिते भुवः करणभावयोः ।
3-2-46 संज्ञायां भृतॄवृजिधारिसहितपिदमः ।
3-2-47 गमश्च ।
3-2-48 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः ।
3-2-49 आशिषि हनः ।
3-2-50 अपे क्लेशतमसोः ।
3-2-51 कुमारशीर्षयोर्णिनिः ।
3-2-52 लक्षणे जायापत्योष्टक् ।
3-2-53 अमनुष्यकर्तृके च ।
3-2-54 शक्तौ हस्तिकपाटयोः ।
3-2-55 पाणिघताडघौ शिल्पिनि ।
3-2-56 आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु
च्व्य्र्थेष्वच्वौ कृञः करणे ख्युन् ।
3-2-57 कर्तरि भुवः खिष्णुच्खुकञौ ।
3-2-58 स्पृशोऽनुदके क्विन् ।
3-2-59 ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च ।
3-2-60 त्यदादिषु दृशोऽनालोचने कञ् च ।
3-2-61
सत्सूद्विषद्रुहदुहयुजविदभिदच्छिद-जिनीराजामुपसर्गेऽपि
क्विप्‌ ।
3-2-62 भजो ण्विः ।
3-2-63 छन्दसि सहः ।
3-2-64 वहश्च ।
3-2-65 कव्यपुरीषपुरीष्येषु ञ्युट् ।
3-2-66 हव्येऽनन्तः पादम् ।
3-2-67 जनसनखनक्रमगमो विट् ।
3-2-68 अदोऽनन्ने ।
3-2-69 क्रव्ये च ।
3-2-70 दुहः कब् घश्च ।
3-2-71 मन्त्रे श्वेतवहौक्थशस्पुरोडाशो ण्विन् ।
3-2-72 अवे यजः ।
3-2-73 विजुपे छन्दसि ।
3-2-74 आतो मनिन्क्वनिप्वनिपश्च ।
3-2-75 अन्येभ्योऽपि दृश्यन्ते ।
3-2-76 क्विप् च ।
3-2-77 स्थः क च ।
3-2-78 सुप्यजातौ णिनिस्ताच्छिल्ये ।
3-2-79 कर्तर्युपमाने ।
3-2-80 व्रते ।
3-2-81 बहुलमाभीक्ष्ण्ये ।
3-2-82 मनः ।
3-2-83 आत्ममाने खश्च ।
3-2-84 भूते ।
3-2-85 करणे यजः ।
3-2-86 कर्मणि हनः ।
3-2-87 ब्रह्मभ्रूणवृत्रेषु क्विप्‌ ।
3-2-88 बहुलं छन्दसि ।
3-2-89 सुकर्मपापमन्त्रपुण्येषु कृञः ।
3-2-90 सोमे सुञः ।
3-2-91 अग्नौ चेः ।
3-2-92 कर्मण्यग्न्याख्यायाम् ।
3-2-93 कर्मणीनिर्विक्रियः ।
3-2-94 दृशेः क्वनिप्‌ ।
3-2-95 राजनि युधिकृञः ।
3-2-96 सहे च ।
3-2-97 सप्तम्यां जनेर्डः ।
3-2-98 पञ्चम्यामजातौ ।
3-2-99 उपसर्गे च संज्ञायाम् ।
3-2-100 अनौ कर्मणि ।
3-2-101 अन्येष्वपि दृश्यते ।
3-2-102 निष्ठा ।
3-2-103 सुयजोर्ङ्वनिप्‌ ।
3-2-104 जीर्यतेरतृन् ।
3-2-105 छन्दसि लिट् ।
3-2-106 लिटः कानज्वा ।
3-2-107 क्वसुश्च ।
3-2-108 भाषायां सदवसश्रुवः ।
3-2-109 उपेयिवाननाश्वाननूचानश्च ।
3-2-110 लुङ् ।
3-2-111 अनद्यतने लङ् ।
3-2-112 अभिज्ञावचने लृट् ।
3-2-113 न यदि ।
3-2-114 विभाषा साकाङ्क्षे ।
3-2-115 परोक्षे लिट् ।
3-2-116 हशश्वतोर्लङ् च ।
3-2-117 प्रश्ने चासन्नकाले ।
3-2-118 लट् स्मे ।
3-2-119 अपरोक्षे च ।
3-2-120 ननौ पृष्टप्रतिवचने ।
3-2-121 नन्वोर्विभाषा ।
3-2-122 पुरि लुङ् चास्मे ।
3-2-123 वर्तमाने लट् ।
3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे ।
3-2-125 सम्बोधने च ।
3-2-126 लक्षणहेत्वोः क्रियायाः ।
3-2-127 तौ सत्‌ ।
3-2-128 पूङ्यजोः शानन् ।
3-2-129 ताच्छील्यवयोवचनशक्तिषु चानश् ।
3-2-130 इङ्धार्योः शत्रकृच्छ्रिणि ।
3-2-131 द्विषोऽमित्रे ।
3-2-132 सुञो यज्ञसंयोगे ।
3-2-133 अर्हः पूजायाम् ।
3-2-134 आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु ।
3-2-135 तृन् ।
3-2-136 अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मद\-
रुच्यपत्रपवृतुवृधुसहचर इष्णुच् ।
3-2-137 णेश्छन्दसि ।
3-2-138 भुवश्च ।
3-2-139 ग्लाजिस्थश्च क्स्नुः ।
3-2-140 त्रसिगृधिधृषिक्षिपेः क्नुः ।
3-2-141 शमित्यष्टाभ्यो घिनुण् ।
3-2-142 संपृचानुरुधाङ्यमाङ्यसपरिसृसंसृज\-
परिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुह\-
दुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरज\-
भजातिचरापचरामुषाभ्याहनश्च ।
3-2-143 वौ कषलसकत्थस्रम्भः ।
3-2-144 अपे च लषः ।
3-2-145 प्रे लपसृद्रुमथवदवसः ।
3-2-146 निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादि##-##
व्याभाषासूयो वुञ् ।
3-2-147 देविक्रुशोश्चोपसर्गे ।
3-2-148 चलनशब्दार्थादकर्मकाद्युच् ।
3-2-149 अनुदात्तेतश्च हलादेः ।
3-2-150 जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः

3-2-151 क्रुधमण्डार्थेभ्यश्च ।
3-2-152 न यः ।
3-2-153 सूददीपदीक्षश्च ।
3-2-154 लषपतपदस्थाभूवृषहनकमगमशॄभ्य उकञ् ।
3-2-155 जल्पभिक्षकुट्टलुण्टवृङः षाकन् ।
3-2-156 प्रजोरिनिः ।
3-2-157 जिदृक्षिविश्रीण्वमाव्यथाभ्यमपर्इभूप्रसूभ्यश्च ।
3-2-158 स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् ।
3-2-159 दाधेट्सिशदसदो रुः ।
3-2-160 सृघस्यदः क्मरच् ।
3-2-161 भञ्जभासमिदो घुरच् ।
3-2-162 विदिभिदिच्छिदेः कुरच् ।
3-2-163 इण्नश्जिसर्त्तिभ्यः क्वरप्‌ ।
3-2-164 गत्वरश्च ।
3-2-165 जागुरूकः ।
3-2-166 यजजपदशां यङः ।
3-2-167 नमिकम्पिस्म्यजसकमहिंसदीपो रः ।
3-2-168 सनाशंसभिक्ष उः ।
3-2-169 विन्दुरिच्छुः ।
3-2-170 क्याच्छन्दसि ।
3-2-171 आदृगमहनजनः किकिनौ लिट् च ।
3-2-172 स्वपितृषोर्नजिङ् ।
3-2-173 शॄवन्द्योरारुः ।
3-2-174 भियः क्रुक्लुकनौ ।
3-2-175 स्थेशभासपिसकसो वरच् ।
3-2-176 यश्च यङः ।
3-2-177 भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप्‌ ।
3-2-178 अन्येभ्योऽपि दृश्यते ।
3-2-179 भुवः संज्ञाऽन्तरयोः ।
3-2-180 विप्रसम्भ्यो ड्वसंज्ञायाम् ।
3-2-181 धः कर्मणि ष्ट्रन् ।
3-2-182 दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे ।
3-2-183 हलसूकरयोः पुवः ।
3-2-184 अर्तिलूधूसूखनसहचर इत्रः ।
3-2-185 पुवः संज्ञायाम् ।
3-2-186 कर्तरि चर्षिदेवतयोः ।
3-2-187 ञीतः क्तः ।
3-2-188 मतिबुद्धिपूजार्थेभ्यश्च ।
3-3-1 उणादयो बहुलम् ।
3-3-2 भूतेऽपि दृश्यन्ते ।
3-3-3 भविष्यति गम्यादयः ।
3-3-4 यावत्पुरानिपातयोर्लट् ।
3-3-5 विभाषा कदाकर्ह्योः ।
3-3-6 किंवृत्ते लिप्सायाम् ।
3-3-7 लिप्स्यमानसिद्धौ च ।
3-3-8 लोडर्थलक्षणे च ।
3-3-9 लिङ् चोर्ध्वमौहूर्तिके ।
3-3-10 तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्‌ ।
3-3-11 भाववचनाश्च ।
3-3-12 अण् कर्मणि च ।
3-3-13 लृट् शेषे च ।
3-3-14 लृटः सद् वा ।
3-3-15 अनद्यतने लुट् ।
3-3-16 पदरुजविशस्पृशो घञ् ।
3-3-17 सृ स्थिरे ।
3-3-18 भावे ।
3-3-19 अकर्तरि च कारके संज्ञायाम् ।
3-3-20 परिमणाख्यायां सर्वेभ्यः ।
3-3-21 इङश्च ।
3-3-22 उपसर्गे रुवः ।
3-3-23 समि युद्रुदुवः ।
3-3-24 श्रिणीभुवोऽनुपसर्गे ।
3-3-25 वौ क्षुश्रुवः ।
3-3-26 अवोदोर्नियः ।
3-3-27 प्रे द्रुस्तुस्रुवः ।
3-3-28 निरभ्योः पूल्वोः ।
3-3-29 उन्न्योर्ग्रः ।
3-3-30 कॄ धान्ये ।
3-3-31 यज्ञे समि स्तुवः ।
3-3-32 प्रे स्त्रोऽयज्ञे ।
3-3-33 प्रथने वावशब्दे ।
3-3-34 छन्दोनाम्नि च ।
3-3-35 उदि ग्रहः ।
3-3-36 समि मुष्टौ ।
3-3-37 परिन्योर्नीणोर्द्यूताभ्रेषयोः ।
3-3-38 परावनुपात्यय इणः ।
3-3-39 व्युपयोः शेतेः पर्याये ।
3-3-40 हस्तादाने चेरस्तेये ।
3-3-41 निवासचितिशरीरोपसमाधानेष्वादेश्च कः ।
3-3-42 संघे चानौत्तराधर्ये ।
3-3-43 कर्मव्यतिहारे णच् स्त्रियाम् ।
3-3-44 अभिविधौ भाव इनुण् ।
3-3-45 आक्रोशेऽवन्योर्ग्रहः ।
3-3-46 प्रे लिप्सायाम् ।
3-3-47 परौ यज्ञे ।
3-3-48 नौ वृ धान्ये ।
3-3-49 उदि श्रयतियौतिपूद्रुवः ।
3-3-50 विभाषाऽऽङि रुप्लुवोः ।
3-3-51 अवे ग्रहो वर्षप्रतिबन्धे ।
3-3-52 प्रे वणिजाम् ।
3-3-53 रश्मौ च ।
3-3-54 वृणोतेराच्छादने ।
3-3-55 परौ भुवोऽवज्ञाने ।
3-3-56 एरच् ।
3-3-57 ऋदोरप्‌ ।
3-3-58 ग्रहवृदृनिश्चिगमश्च ।
3-3-59 उपसर्गेऽदः ।
3-3-60 नौ ण च ।
3-3-61 व्यधजपोरनुपसर्गे ।
3-3-62 स्वनहसोर्वा ।
3-3-63 यमः समुपनिविषु ।
3-3-64 नौ गदनदपठस्वनः ।
3-3-65 क्वणो वीणायां च ।
3-3-66 नित्यं पणः परिमाणे ।
3-3-67 मदोऽनुपसर्गे ।
3-3-68 प्रमदसम्मदौ हर्षे ।
3-3-69 समुदोरजः पशुषु ।
3-3-70 अक्षेषु ग्लहः ।
3-3-71 प्रजने सर्तेः ।
3-3-72 ह्वः सम्प्रसारणं च न्यभ्युपविषु ।
3-3-73 आङि युद्धे ।
3-3-74 निपानमाहावः ।
3-3-75 भावेऽनुपसर्गस्य ।
3-3-76 हनश्च वधः ।
3-3-77 मूर्तौ घनः ।
3-3-78 अन्तर्घनो देशे ।
3-3-79 अगारैकदेशे प्रघणः प्रघाणश्च ।
3-3-80 उद्घनोऽत्याधानम् ।
3-3-81 अपघनोऽङ्गम् ।
3-3-82 करणेऽयोविद्रुषु ।
3-3-83 स्तम्बे क च ।
3-3-84 परौ घः ।
3-3-85 उपघ्न आश्रये ।
3-3-86 संघोद्घौ गणप्रशंसयोः ।
3-3-87 निघो निमितम् ।
3-3-88 ड्वितः क्त्रिः ।
3-3-89 ट्वितोऽथुच् ।
3-3-90 यजयाचयतविच्छप्रच्छरक्षो नङ् ।
3-3-91 स्वपो नन् ।
3-3-92 उपसर्गे घोः किः ।
3-3-93 कर्मण्यधिकरणे च ।
3-3-94 स्त्रियां क्तिन् ।
3-3-95 स्थागापापचां भावे ।
3-3-96 मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः ।
3-3-97 ऊतियूतिज्ऊतिसातिहेतिकीर्तयश्च ।
3-3-98 व्रजयजोर्भावे क्यप्‌ ।
3-3-99 संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः

3-3-100 कृञः श च ।
3-3-101 इच्छा ।
3-3-102 अ प्रत्ययात्‌ ।
3-3-103 गुरोश्च हलः ।
3-3-104 षिद्भिदादिभ्योऽङ् ।
3-3-105 चिन्तिपूजिकथिकुम्बिचर्चश्च ।
3-3-106 आतश्चोपसर्गे ।
3-3-107 ण्यासश्रन्थो युच् ।
3-3-108 रोगाख्यायां ण्वुल् बहुलम् ।
3-3-109 संज्ञायाम् ।
3-3-110 विभाषाऽऽख्यानपरिप्रश्नयोरिञ् च ।
3-3-111 पर्यायार्हर्णोत्पत्तिषु ण्वुच् ।
3-3-112 आक्रोशे नञ्यनिः ।
3-3-113 कृत्यल्युटो बहुलम् ।
3-3-114 नपुंसके भावे क्तः ।
3-3-115 ल्युट् च ।
3-3-116 कर्मणि च येन संस्पर्शात्‌ कर्तुः शरीरसुखम् ।
3-3-117 करणाधिकरणयोश्च ।
3-3-118 पुंसि संज्ञायां घः प्रायेण ।
3-3-119 गोचरसंचरवहव्रजव्यजापणनिगमाश्च ।
3-3-120 अवे तॄस्त्रोर्घञ् ।
3-3-121 हलश्च ।
3-3-122 अध्यायन्यायोद्यावसंहाराधारावयाश्च ।
3-3-123 उदङ्कोऽनुदके ।
3-3-124 जालमानायः ।
3-3-125 खनो घ च ।
3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् ।
3-3-127 कर्तृकर्मणोश्च भूकृञोः ।
3-3-128 आतो युच् ।
3-3-129 छन्दसि गत्यर्थेभ्यः ।
3-3-130 अन्येभ्योऽपि दृश्यते ।
3-3-131 वर्तमानसामीप्ये वर्तमानवद्वा ।
3-3-132 आशंसायां भूतवच्च ।
3-3-133 क्षिप्रवचने लृट् ।
3-3-134 आशंसावचने लिङ् ।
3-3-135 नानद्यतनवत्‌ क्रियाप्रबन्धसामीप्ययोः ।
3-3-136 भविष्यति मर्यादावचनेऽवरस्मिन् ।
3-3-137 कालविभागे चानहोरात्राणाम् ।
3-3-138 परस्मिन् विभाषा ।
3-3-139 लिङ्‌निमित्ते लृङ् क्रियाऽतिपत्तौ ।
3-3-140 भूते च ।
3-3-141 वोताप्योः ।
3-3-142 गर्हायां लडपिजात्वोः ।
3-3-143 विभाषा कथमि लिङ् च ।
3-3-144 किंवृत्ते लिङ्लृटौ ।
3-3-145 अनवकप्त्यमर्षयोरकिंवृत्ते अपि ।
3-3-146 किंकिलास्त्यर्थेषु लृट् ।
3-3-147 जातुयदोर्लिङ् ।
3-3-148 यच्चयत्रयोः ।
3-3-149 गर्हायां च ।
3-3-150 चित्रीकरणे च ।
3-3-151 शेषे लृडयदौ ।
3-3-152 उताप्योः समर्थयोर्लिङ् ।
3-3-153 कामप्रवेदनेऽकच्चिति ।
3-3-154 सम्भवानेऽलमिति चेत्‌ सिद्धाप्रयोगे ।
3-3-155 विभाषा धातौ सम्भावनवचनेऽयदि ।
3-3-156 हेतुहेतुमतोर्लिङ् ।
3-3-157 इच्छार्थेषु लिङ्लोटौ ।
3-3-158 समानकर्तृकेषु तुमुन् ।
3-3-159 लिङ् च ।
3-3-160 इच्छार्थेभ्यो विभाषा वर्तमाने ।
3-3-161 विधिनिमन्‍त्रणामन्‍त्रणाधीष्‍टसंप्रश्‍नप्रार्थनेषु लिङ्।
3-3-162 लोट् च ।
3-3-163 प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च ।
3-3-164 लिङ् चोर्ध्वमौहूर्तिके ।
3-3-165 स्मे लोट् ।
3-3-166 अधीष्टे च ।
3-3-167 कालसमयवेलासु तुमुन् ।
3-3-168 लिङ् यदि ।
3-3-169 अर्हे कृत्यतृचश्च ।
3-3-170 आवश्यकाधमर्ण्ययोर्णिनिः ।
3-3-171 कृत्याश्च ।
3-3-172 शकि लिङ् च ।
3-3-173 आशिषि लिङ्लोटौ ।
3-3-174 क्तिच्क्तौ च संज्ञायाम् ।
3-3-175 माङि लुङ् ।
3-3-176 स्मोत्तरे लङ् च ।
3-4-1 धातुसम्बन्धे प्रत्ययाः ।
3-4-2 क्रियासमभिहारे लोट्##,## लोटो हिस्वौ##,## वा च तध्वमोः ।
3-4-3 समुच्चयेऽन्यतरस्याम् ।
3-4-4 यथाविध्यनुप्रयोगः पूर्वस्मिन् ।
3-4-5 समुच्चये सामान्यवचनस्य ।
3-4-6 छन्दसि लुङ्लङ्{}लिटः ।
3-4-7 लिङर्थे लेट् ।
3-4-8 उपसंवादाशङ्कयोश्च ।
3-4-9 तुमर्थे सेसेनसेअसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्\-
शध्यैशध्यैन्तवैतवेङ्तवेनः ।
3-4-10 प्रयै रोहिष्यै अव्यथिष्यै ।
3-4-11 दृशे विख्ये च ।
3-4-12 शकि णमुल्कमुलौ ।
3-4-13 ईश्वरे तोसुन्कसुनौ ।
3-4-14 कृत्यार्थे तवैकेन्केन्यत्वनः ।
3-4-15 अवचक्षे च ।
3-4-16 भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन् ।
3-4-17 सृपितृदोः कसुन् ।
3-4-18 अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा ।
3-4-19 उदीचां माङो व्यतीहारे ।
3-4-20 परावरयोगे च ।
3-4-21 समानकर्तृकयोः पूर्वकाले ।
3-4-22 आभीक्ष्ण्ये णमुल् च ।
3-4-23 न यद्यनाकाङ्क्षे ।
3-4-24 विभाषाऽग्रेप्रथमपूर्वेषु ।
3-4-25 कर्मण्याक्रोशे कृञः खमुञ् ।
3-4-26 स्वादुमि णमुल् ।
3-4-27 अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत्‌ ।
3-4-28 यथातथयोरसूयाप्रतिवचने ।
3-4-29 कर्मणि दृशिविदोः साकल्ये ।
3-4-30 यावति विन्दजीवोः ।
3-4-31 चर्मोदरयोः पूरेः ।
3-4-32 व्अर्षप्रमाण ऊलोपश्चास्यान्यतरास्यम् ।
3-4-33 चेले क्नोपेः ।
3-4-34 निमूलसमूलयोः कषः ।
3-4-35 शुष्कचूर्णरूक्षेषु पिषः ।
3-4-36 समूलाकृतजीवेषु हन्कृञ्ग्रहः ।
3-4-37 करणे हनः ।
3-4-38 स्नेहने पिषः ।
3-4-39 हस्ते वर्त्तिग्रहोः ।
3-4-40 स्वे पुषः ।
3-4-41 अधिकरणे बन्धः ।
3-4-42 संज्ञायाम् ।
3-4-43 कर्त्रोर्जीवपुरुषयोर्नशिवहोः ।
3-4-44 ऊर्ध्वे शुषिपूरोः ।
3-4-45 उपमाने कर्मणि च ।
3-4-46 कषादिषु यथाविध्यनुप्रयोगः ।
3-4-47 उपदंशस्तृतीयायाम् ।
3-4-48 हिंसार्थानां च समानकर्मकाणाम् ।
3-4-49 सप्तम्यां चोपपीडरुधकर्षः ।
3-4-50 समासत्तौ ।
3-4-51 प्रमाणे च ।
3-4-52 अपादाने परीप्सायाम् ।
3-4-53 द्वितीयायां च ।
3-4-54 स्वाङ्गेऽध्रुवे ।
3-4-55 परिक्लिश्यमाने च ।
3-4-56 विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः ।
3-4-57 अस्यतितृषोः क्रियाऽन्तरे कालेषु ।
3-4-58 नाम्न्यादिशिग्रहोः ।
3-4-59 अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ ।
3-4-60 तिर्यच्यपवर्गे ।
3-4-61 स्वाङ्गे तस्प्रत्यये कृभ्वोः ।
3-4-62 नाधाऽर्थप्रत्यये च्व्यर्थे ।
3-4-63 तूष्णीमि भुवः ।
3-4-64 अन्वच्यानुलोम्ये ।
3-4-65
शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् ।
3-4-66 पर्याप्तिवचनेष्वलमर्थेषु ।
3-4-67 कर्तरि कृत्‌ ।
3-4-68 भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा ।
3-4-69 लः कर्मणि च भावे चाकर्मकेभ्यः. ।
3-4-70 तयोरेव कृत्यक्तखलर्थाः ।
3-4-71 अदिकर्मणि क्तः कर्तरि च ।
3-4-72गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च ।
3-4-73 दाशगोघ्नौ सम्प्रदाने ।
3-4-74 भीमादयोऽपादाने ।
3-4-75 ताभ्यामन्यत्रोणादयः ।
3-4-76 क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ।
3-4-77 लस्य ।
3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् ।
3-4-79 टित आत्मनेपदानां टेरे ।
3-4-80 थासस्से ।
3-4-81 लिटस्तझयोरेशिरेच् ।
3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः ।
3-4-83 विदो लटो वा ।
3-4-84 ब्रुवः पञ्चानामादित आहो ब्रुवः ।
3-4-85 लोटो लङ्वत्‌ ।
3-4-86 एरुः ।
3-4-87 सेर्ह्यपिच्च ।
3-4-88 वा छन्दसि ।
3-4-89 मेर्निः ।
3-4-90 आमेतः ।
3-4-91 सवाभ्यां वामौ ।
3-4-92 आडुत्तमस्य पिच्च ।
3-4-93 एत ऐ ।
3-4-94 लेटोऽडाटौ ।
3-4-95 आत ऐ ।
3-4-96 वैतोऽन्यत्र ।
3-4-97 इतश्च लोपः परस्मैपदेषु ।
3-4-98 स उत्तमस्य ।
3-4-99 नित्यं ङितः ।
3-4-100 इतश्च ।
3-4-101 तस्थस्थमिपां तांतंतामः ।
3-4-102 लिङस्सीयुट् ।
3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च ।
3-4-104 किदाशिषि ।
3-4-105 झस्य रन् ।
3-4-106 इटोऽत्‌ ।
3-4-107 सुट् तिथोः ।
3-4-108 झेर्जुस् ।
3-4-109 सिजभ्यस्तविदिभ्यः च ।
3-4-110 आतः ।
3-4-111 लङः शाकटायनस्यैव ।
3-4-112 द्विषश्च ।
3-4-113 तिङ्शित्सार्वधातुकम् ।
3-4-114 आर्धधातुकं शेषः ।
3-4-115 लिट् च ।
3-4-116 लिङाशिषि ।
3-4-117 छन्दस्युभयथा ।
4-1-1 ङ्याप्प्रातिपदिकात्‌ ।
4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ ।
4-1-3 स्त्रियाम् ।
4-1-4 अजाद्यतष्टाप्‌ ।
4-1-5 ऋन्नेभ्यो ङीप्‌ ।
4-1-6 उगितश्च ।
4-1-7 वनो र च ।
4-1-8 पादोऽन्यतरस्याम् ।
4-1-9 टाबृचि ।
4-1-10 न षट्स्वस्रादिभ्यः ।
4-1-11 मनः ।
4-1-12 अनो बहुव्रीहेः ।
4-1-13 डाबुभाभ्यामन्यतरस्याम्‌ ।
4-1-14 अनुपसर्जनात्‌ ।
4-1-15 टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः ।
4-1-16 यञश्च ।
4-1-17 प्राचां ष्फ तद्धितः ।
4-1-18 सर्वत्र लोहितादिकतान्तेभ्यः ।
4-1-19 कौरव्यमाण्डूकाभ्यां च ।
4-1-20 वयसि प्रथमे ।
4-1-21 द्विगोः ।
4-1-22 अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि ।
4-1-23 काण्डान्तात्‌ क्षेत्रे ।
4-1-24 पुरुषात्‌ प्रमाणेऽन्यतरस्याम् ।
4-1-25 बहुव्रीहेरूधसो ङीष्।
4-1-26 संख्याऽव्ययादेर्ङीप्‌ ।
4-1-27 दामहायनान्ताच्च ।
4-1-28 अन उपधालोपिनोन्यतरस्याम् ।
4-1-29 नित्यं संज्ञाछन्दसोः ।
4-1-30 केवलमामकभागधेयपापापरसमानार्यकृत-सुमङ्गलभेषजाच्च ।
4-1-31 रात्रेश्चाजसौ ।
4-1-32 अन्तर्वत्पतिवतोर्नुक् ।
4-1-33 पत्युर्नो यज्ञसंयोगे ।
4-1-34 विभाषा सपूर्वस्य ।
4-1-35 नित्यं सपत्न्य्आदिषु ।
4-1-36 पूतक्रतोरै च ।
4-1-37 वृषाकप्यग्निकुसितकुसीदानामुदात्तः ।
4-1-38 मनोरौ वा ।
4-1-39 वर्णादनुदात्तात्तोपधात्तो नः ।
4-1-40 अन्यतो ङीष्।
4-1-41 षिद्गौरादिभ्यश्च ।
4-1-42 जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुक\-
कबराद्वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्य\-
वर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु ।
4-1-43 शोणात्‌ प्राचाम् ।
4-1-44 वोतो गुणवचनात्‌ ।
4-1-45 बह्वादिभ्यश्च ।
4-1-46 नित्यं छन्दसि ।
4-1-47 भुवश्च ।
4-1-48 पुंयोगादाख्यायाम् ।
4-1-49 इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवन\-
मातुलाचार्याणामानुक् ।
4-1-50 क्रीतात्‌ करणपूर्वात्‌ ।
4-1-51 क्तादल्पाख्यायाम् ।
4-1-52 बहुव्रीहेश्चान्तोदात्तात्‌ ।
4-1-53 अस्वाङ्गपूर्वपदाद्वा ।
4-1-54 स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्‌ ।
4-1-55 नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ।
4-1-56 न क्रोडादिबह्वचः ।
4-1-57 सहनञ्विद्यमानपूर्वाच्च ।
4-1-58 नखमुखात्‌ संज्ञायाम् ।
4-1-59 दीर्घजिह्वी च च्छन्दसि ।
4-1-60 दिक्पूर्वपदान्ङीप्‌ ।
4-1-61 वाहः ।
4-1-62 सख्यशिश्वीति भाषायाम् ।
4-1-63 जातेरस्त्रीविषयादयोपधात्‌ ।
4-1-64 पाककर्णपर्णपुष्पफलमूलबालोत्तरपदाच्च ।
4-1-65 इतो मनुष्यजातेः ।
4-1-66 ऊङुतः ।
4-1-67 बाह्वन्तात्‌ संज्ञायाम् ।
4-1-68 पङ्गोश्च ।
4-1-69 ऊरूत्तरपदादौपम्ये ।
4-1-70 संहितशफलक्षणवामादेश्च ।
4-1-71 कद्रुकमण्डल्वोश्छन्दसि ।
4-1-72 संज्ञायाम् ।
4-1-73 शार्ङ्गरवाद्यञो ङीन् ।
4-1-74 यङश्चाप्‌ ।
4-1-75 आवट्याच्च ।
4-1-76 तद्धिताः ।
4-1-77 यूनस्तिः ।
4-1-78 अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे ।
4-1-79 गोत्रावयवात्‌ ।
4-1-80 क्रौड्यादिभ्यश्च ।
4-1-81 दैवयज्ञिशौचिवृक्षिसात्यमुग्रि\-
काण्ठेविद्धिभ्योऽन्यतरस्याम् ।
4-1-82 समर्थानां प्रथमाद्वा ।
4-1-83 प्राग्दीव्यतोऽण् ।
4-1-84 अश्वपत्यादिभ्यश्च ।
4-1-85 दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः ।
4-1-86 उत्सादिभ्योऽञ् ।
4-1-87 स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्‌ ।
4-1-88 द्विगोर्लुगनपत्ये ।
4-1-89 गोत्रेऽलुगचि ।
4-1-90 यूनि लुक् ।
4-1-91 फक्फिञोरन्यतरस्याम् ।
4-1-92 तस्यापत्यम् ।
4-1-93 एको गोत्रे ।
4-1-94 गोत्राद्यून्यस्त्रियाम् ।
4-1-95 अत इञ् ।
4-1-96 बाह्वादिभ्यश्च ।
4-1-97 सुधातुरकङ् च ।
4-1-98 गोत्रे कुञ्जादिभ्यश्च्फञ् ।
4-1-99 नडादिभ्यः फक् ।
4-1-100 हरितादिभ्योऽञः ।
4-1-101 यञिञोश्च ।
4-1-102 शरद्वच्छुनकदर्भाद्भृगुवत्साग्रायणेषु ।
4-1-103 द्रोणपर्वतजीवन्तादन्यतरयाम् ।
4-1-104 अनृष्यानन्तर्ये बिदादिभ्योऽञ् ।
4-1-105 गर्गादिभ्यो यञ् ।
4-1-106 मधुबभ्र्वोर्ब्राह्मणकौशिकयोः ।
4-1-107 कपिबोधादाङ्गिरसे ।
4-1-108 वतण्डाच्च ।
4-1-109 लुक् स्त्रियाम् ।
4-1-110 अश्वादिभ्यः फञ् ।
4-1-111 भर्गात्‌ त्रैगर्ते ।
4-1-112 शिवादिभ्योऽण् ।
4-1-113 अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः ।
4-1-114 ऋष्यन्धकवृष्णिकुरुभ्यश्च ।
4-1-115 मातुरुत्‌ संख्यासम्भद्रपूर्वायाः ।
4-1-116 कन्यायाः कनीन च ।
4-1-117 विकर्णशुङ्गच्छगलाद्वत्सभरद्वाजात्रिषु ।
4-1-118 पीलाया वा ।
4-1-119 ढक् च मण्डूकात्‌ ।
4-1-120 स्त्रीभ्यो ढक् ।
4-1-121 द्व्यचः ।
4-1-122 इतश्चानिञः ।
4-1-123 शुभ्रादिभ्यश्च ।
4-1-124 विकर्णकुषीतकात्‌ काश्यपे ।
4-1-125 भ्रुवो वुक् च ।
4-1-126 कल्याण्यादीनामिनङ् ।
4-1-127 कुलटाया वा ।
4-1-128 चटकाया ऐरक् ।
4-1-129 गोधाया ढ्रक् ।
4-1-130 आरगुदीचाम् ।
4-1-131 क्षुद्राभ्यो वा ।
4-1-132 पितृष्वसुश्छण् ।
4-1-133 ढकि लोपः ।
4-1-134 मातृष्वसुश्च ।
4-1-135 चतुष्पाद्भ्यो ढञ् ।
4-1-136 गृष्ट्यादिभ्यश्च ।
4-1-137 राजश्वशुराद्यत्‌ ।
4-1-138 क्षत्राद्घः ।
4-1-139 कुलात्‌ खः ।
4-1-140 अपूर्वपदादन्यतरस्यां यड्ढकञौ ।
4-1-141 महाकुलादञ्खञौ ।
4-1-142 दुष्कुलाड्ढक् ।
4-1-143 स्वसुश्छः ।
4-1-144 भ्रातुर्व्यच्च ।
4-1-145 व्यन् सपत्ने ।
4-1-146 रेवत्यादिभ्यष्ठक् ।
4-1-147 गोत्रस्त्रियाः कुत्सने ण च ।
4-1-148 वृद्धाट्ठक् सौवीरेषु बहुलम् ।
4-1-149 फेश्छ च ।
4-1-150 फाण्टाहृतिमिमताभ्यां णफिञौ ।
4-1-151 कुर्वादिभ्यो ण्यः ।
4-1-152 सेनान्तलक्षणकारिभ्यश्च ।
4-1-153 उदीचामिञ् ।
4-1-154 तिकादिभ्यः फिञ् ।
4-1-155 कौसल्यकार्मार्याभ्यां च ।
4-1-156 अणो द्व्यचः ।
4-1-157 उदीचां वृद्धादगोत्रात्‌ ।
4-1-158 वाकिनादीनां कुक् च ।
4-1-159 पुत्रान्तादन्यतरस्याम् ।
4-1-160 प्राचामवृद्धात्‌ फिन् बहुलम्‌ ।
4-1-161 मनोर्जातावञ्यतौ षुक् च ।
4-1-162 अपत्यं पौत्रप्रभृति गोत्रम्‌ ।
4-1-163 जीवति तु वंश्ये युवा ।
4-1-164 भ्रातरि च ज्यायसि ।
4-1-165 वाऽन्यस्मिन् सपिण्डे स्थविरतरे जीवति ।
4-1-166 वृद्धस्य च पूजायाम् ।
4-1-167 यूनश्च कुत्सायाम् ।
4-1-168 जनपदशब्दात्‌ क्षत्रियादञ् ।
4-1-169 साल्वेयगान्धारिभ्यां च ।
4-1-170 द्व्यञ्मगधकलिङ्गसूरमसादण् ।
4-1-171 वृद्धेत्कोसलाजादाञ्ञ्यङ् ।
4-1-172 कुरुणादिभ्यो ण्यः ।
4-1-173 साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ् ।
4-1-174 ते तद्राजाः ।
4-1-175 कम्बोजाल्लुक् ।
4-1-176 स्त्रियामवन्तिकुन्तिकुरुभ्यश्च ।
4-1-177 अतश्च ।
4-1-178 न प्राच्यभर्गादियौधेयादिभ्यः ।
4-2-1 तेन रक्तं रागात्‌ ।
4-2-2 लाक्षारोचना##(##शकलकर्दमा##)##ट्ठक् ।
4-2-3 नक्षत्रेण युक्तः कालः ।
4-2-4 लुबविशेषे ।
4-2-5 संज्ञायां श्रवणाश्वत्थाभ्याम्‌ ।
4-2-6 द्वंद्वाच्छः ।
4-2-7 दृष्ट्अं साम ।
4-2-8 कलेर्ढक् ।
4-2-9 वामदेवाड्ड्यड्ड्यौ ।
4-2-10 परिवृतो रथः ।
4-2-11 पाण्डुकम्बलादिनिः ।
4-2-12 द्वैपवैयाघ्रादञ् ।
4-2-13 कौमारापूर्ववचने ।
4-2-14 तत्रोद्धृतममत्रेभ्यः ।
4-2-15 स्थण्डिलाच्छयितरि व्रते ।
4-2-16 संस्कृतं भक्षाः ।
4-2-17 शूलोखाद्यत्‌ ।
4-2-18 दध्नष्ठक् ।
4-2-19 उदश्वितोऽन्यतरस्याम् ।
4-2-20 क्षीराड्ढञ् ।
4-2-21 साऽस्मिन् पौर्णमासीति ##(##संज्ञायाम्##)## ।
4-2-22 आग्रहायण्यश्वत्थाट्ठक् ।
4-2-23 विभाषा फाल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्यः ।
4-2-24 साऽस्य देवता ।
4-2-25 कस्येत्‌ ।
4-2-26 शुक्राद्घन् ।
4-2-27 अपोनप्त्रपान्नप्तृभ्यां घः ।
4-2-28 छ च ।
4-2-29 महेन्द्राद्घाणौ च ।
4-2-30 सोमाट्ट्यण् ।
4-2-31 वाय्वृतुपित्रुषसो यत्‌ ।
4-2-32 द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पति\-
गृहमेधाच्छ च ।
4-2-33 अग्नेर्ढक् ।
4-2-34 कालेभ्यो भववत्‌ ।
4-2-35 महाराजप्रोष्ठपदाट्ठञ् ।
4-2-36 पितृव्यमातुलमातामहपितामहाः ।
4-2-37 तस्य समूहः ।
4-2-38 भिक्षाऽऽदिभ्योऽण् ।
4-2-39 गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्स\-
मनुष्याजाद्वुञ् ।
4-2-40 केदाराद्यञ् च ।
4-2-41 ठञ् कवचिनश्च ।
4-2-42 ब्राह्मणमाणववाडवाद्यन् ।
4-2-43 ग्रामजनबन्धुसहायेभ्यः तल् ।
4-2-44 अनुदात्तादेरञ् ।
4-2-45 खण्डिकादिभ्यश्च ।
4-2-46 चरणेभ्यो धर्मवत्‌ ।
4-2-47 अचित्तहस्तिधेनोष्ठक् ।
4-2-48 केशाश्वाभ्यां यञ्छावन्यतरस्याम् ।
4-2-49 पाशादिभ्यो यः ।
4-2-50 खलगोरथात्‌ ।
4-2-51 इनित्रकट्यचश्च ।
4-2-52 विषयो देशे ।
4-2-53 राजन्यादिभ्यो वुञ् ।
4-2-54 भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ ।
4-2-55 सोऽस्यादिरिति च्छन्दसः प्रगाथेषु ।
4-2-56 संग्रामे प्रयोजनयोद्धृभ्यः ।
4-2-57 तदस्यां प्रहरणमिति क्रीडायाम् णः ।
4-2-58 घञः साऽस्यां क्रियेति ञः ।
4-2-59 तदधीते तद्वेद ।
4-2-60 क्रतूक्थादिसूत्रान्ताट्ठक् ।
4-2-61 क्रमादिभ्यो वुन् ।
4-2-62 अनुब्राह्मणादिनिः ।
4-2-63 वसन्तादिभ्यष्ठक् ।
4-2-64 प्रोक्ताल्लुक् ।
4-2-65 सूत्राच्च कोपधात्‌ ।
4-2-66 छन्दोब्राह्मणानि च तद्विषयाणि ।
4-2-67 तदस्मिन्नस्तीति देशे तन्नाम्नि ।
4-2-68 तेन निर्वृत्तम् ।
4-2-69 तस्य निवासः ।
4-2-70 अदूरभवश्च ।
4-2-71 ओरञ् ।
4-2-72 मतोश्च बह्वजङ्गात्‌ ।
4-2-73 बह्वचः कूपेषु ।
4-2-74 उदक् च विपाशः ।
4-2-75 संकलादिभ्यश्च ।
4-2-76 स्त्रीषु सौवीरसाल्वप्राक्षु ।
4-2-77 सुवास्त्वादिभ्योऽण् ।
4-2-78 रोणी ।
4-2-79 कोपधाच्च ।
4-2-80 वुञ्छण्कठजिलशेनिरढञ्ण्ययफक्फिञिञ्ञ्य\-
कक्ठकोऽरीहणकृशाश्वर्श्यकुमुदकाशतृणप्रेक्षाऽश्मसखि\-
संकाशबलपक्षकर्णसुतंगमप्रगदिन्वराहकुमुदादिभ्यः ।
4-2-81 जनपदे लुप्‌ ।
4-2-82 वरणादिभ्यश्च ।
4-2-83 शर्कराया वा ।
4-2-84 ठक्छौ च ।
4-2-85 नद्यां मतुप्‌ ।
4-2-86 मध्वादिभ्यश्च ।
4-2-87 कुमुदनडवेतसेभ्यो ड्मतुप्‌ ।
4-2-88 नडशादाड्ड्वलच् ।
4-2-89 शिखाया वलच् ।
4-2-90 उत्करादिभ्यश्छः ।
4-2-91 नडादीनां कुक् च ।
4-2-92 शेषे ।
4-2-93 राष्ट्रावारपाराद्घखौ ।
4-2-94 ग्रामाद्यखञौ ।
4-2-95 कत्त्र्यादिभ्यो ढकञ् ।
4-2-96 कुलकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु ।
4-2-97 नद्यादिभ्यो ढक् ।
4-2-98 दक्षिणापश्चात्पुरसस्त्यक् ।
4-2-99 कापिश्याः ष्फक् ।
4-2-100 रंकोरमनुष्येऽण् च ।
4-2-101 द्युप्रागपागुदक्प्रतीचो यत्‌ ।
4-2-102 कन्थायाष्ठक् ।
4-2-103 वर्णौ वुक् ।
4-2-104 अव्ययात्त्यप्‌ ।
4-2-105 ऐषमोह्यःश्वसोऽन्यतरस्याम् ।
4-2-106 तीररूप्योत्तरपदादञ्ञौ ।
4-2-107 दिक्पूर्वपदादसंज्ञायां ञः ।
4-2-108 मद्रेभ्योऽञ् ।
4-2-109 उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात्‌ ।
4-2-110 प्रस्थोत्तरपदपलद्यादिकोपधादण् ।
4-2-111 कण्वादिभ्यो गोत्रे ।
4-2-112 इञश्च ।
4-2-113 न द्व्यचः प्राच्यभरतेषु ।
4-2-114 वृद्धाच्छः ।
4-2-115 भवतष्ठक्छसौ ।
4-2-116 काश्यादिभ्यष्ठञ्ञिठौ ।
4-2-117 वाहीकग्रामेभ्यश्च ।
4-2-118 विभाषोशीनरेषु ।
4-2-119 ओर्देशे ठञ् ।
4-2-120 वृद्धात्‌ प्राचाम् ।
4-2-121 धन्वयोपधाद्वुञ् ।
4-2-122 प्रस्थपुरवहान्ताच्च ।
4-2-123 रोपधेतोः प्राचाम् ।
4-2-124 जनपदतदवध्योश्च ।
4-2-125 अवृद्धादपि बहुवचनविषयात्‌ ।
4-2-126 क्अच्छाग्निवक्त्रगर्त्तोत्तरपदात्‌ ।
4-2-127 धूमादिभ्यश्च ।
4-2-128 नगरात्‌ कुत्सनप्रावीण्ययोः ।
4-2-129 अरण्यान्मनुष्ये ।
4-2-130 विभाषा कुरुयुगन्धराभ्याम् ।
4-2-131 मद्रवृज्योः कन् ।
4-2-132 कोपधादण् ।
4-2-133 कच्छादिभ्यश्च ।
4-2-134 मनुष्यतत्स्थयोर्वुञ् ।
4-2-135 अपदातौ साल्वात्‌ ।
4-2-136 गोयवाग्वोश्च ।
4-2-137 गर्तोत्तरपदाच्छः ।
4-2-138 गहादिभ्यश्च ।
4-2-139 प्राचां कटादेः ।
4-2-140 राज्ञः क च ।
4-2-141 वृद्धादकेकान्तखोपधात्‌ ।
4-2-142 कन्थापलदनगरग्रामह्रदोत्तरपदात्‌ ।
4-2-143 पर्वताच्च ।
4-2-144 विभाषाऽमनुष्ये ।
4-2-145 कृकणपर्णाद्भारद्वाजे ।
4-3-1 युष्मदस्मदोरन्यतरस्यां खञ् च ।
4-3-2 तस्मिन् नणि च युष्माकास्माकौ ।
4-3-3 तवकममकावेकवचने ।
4-3-4 अर्धाद्यत्‌ ।
4-3-5 परावराधमोत्तमपूर्वाच्च ।
4-3-6 दिक्पूर्वपदाट्ठञ् च ।
4-3-7 ग्रामजनपदैकदेशादञ्ठञौ ।
4-3-8 मध्यान्मः ।
4-3-9 अ साम्प्रतिके ।
4-3-10 द्वीपादनुसमुद्रं यञ् ।
4-3-11 कालाट्ठञ् ।
4-3-12 श्राद्धे शरदः ।
4-3-13 विभाषा रोगातपयोः ।
4-3-14 निशाप्रदोषाभ्यां च ।
4-3-15 श्वसस्तुट् च ।
4-3-16 संधिवेलाऽऽद्यृतुनक्षत्रेभ्योऽण् ।
4-3-17 प्रावृष एण्यः ।
4-3-18 वर्षाभ्यष्ठक् ।
4-3-19 छन्दसि ठञ् ।
4-3-20 वसन्ताच्च ।
4-3-21 हेमन्ताच्च ।
4-3-22 सर्वत्राण् च तलोपश्च ।
4-3-23 सायंचिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च ।
4-3-24 विभाषा पूर्वाह्णापराह्णाभ्याम् ।
4-3-25 तत्र जातः ।
4-3-26 प्रावृषष्ठप्‌ ।
4-3-27 संज्ञायां शरदो वुञ् ।
4-3-28 पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्कराद्वुन् ।
4-3-29 पथः पन्थ च ।
4-3-30 अमावास्याया वा ।
4-3-31 अ च ।
4-3-32 सिन्ध्वपकराभ्यां कन् ।
4-3-33 अणञौ च ।
4-3-34 श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्त\-
विशाखाऽषाढाबहुलाल्लुक् ।
4-3-35 स्थानान्तगोशालखरशालाच्च ।
4-3-36 वत्सशालाऽभिजिदश्वयुक्छतभिषजो वा ।
4-3-37 नक्षत्रेभ्यो बहुलम् ।
4-3-38 कृतलब्धक्रीतकुशलाः ।
4-3-39 प्रायभवः ।
4-3-40 उपजानूपकर्णोपनीवेष्ठक् ।
4-3-41 संभूते ।
4-3-42 कोशाड्ढञ् ।
4-3-43 कालात्‌ साधुपुष्प्यत्पच्यमानेषु ।
4-3-44 उप्ते च ।
4-3-45 आश्वयुज्या वुञ् ।
4-3-46 ग्रीष्मवसन्तादन्यतरस्याम् ।
4-3-47 देयमृणे ।
4-3-48 कलाप्यश्वत्थयवबुसाद्वुन् ।
4-3-49 ग्रीष्मावरसमाद्वुञ् ।
4-3-50 संवत्सराग्रहायणीभ्यां ठञ् च ।
4-3-51 व्याहरति मृगः ।
4-3-52 तदस्य सोढम् ।
4-3-53 तत्र भवः ।
4-3-54 दिगादिभ्यो यत्‌ ।
4-3-55 शरीरावयवाच्च ।
4-3-56 दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ् ।
4-3-57 ग्रीवाभ्योऽण् च ।
4-3-58 गम्भीराञ्ञ्यः ।
4-3-59 अव्ययीभावाच्च ।
4-3-60 अन्तःपूर्वपदाट्ठञ् ।
4-3-61 ग्रामात्‌ पर्यनुपूर्वात्‌ ।
4-3-62 जिह्वामूलाङ्गुलेश्छः ।
4-3-63 वर्गान्ताच्च ।
4-3-64 अशब्दे यत्खावन्यतरस्याम् ।
4-3-65 कर्णललाटात्‌ कनलंकारे ।
4-3-66 तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः ।
4-3-67 बह्वचोऽन्तोदात्ताट्ठञ् ।
4-3-68 क्रतुयज्ञेभ्यश्च ।
4-3-69 अध्यायेष्वेवर्षेः ।
4-3-70 पौरोडाशपुरोडाशात् ष्ठन् ।
4-3-71 छन्दसो यदणौ ।
4-3-72 द्व्यजृद्ब्राह्मणर्क्प्रथमाध्वरपुरश्चरण\-
नामाख्याताट्ठक् ।
4-3-73 अणृगयनादिभ्यः ।
4-3-74 तत आगतः ।
4-3-75 ठगायस्थानेभ्यः ।
4-3-76 शुण्डिकादिभ्योऽण् ।
4-3-77 विद्यायोनिसंबन्धेभ्यो वुञ् ।
4-3-78 ऋतष्ठञ् ।
4-3-79 पितुर्यच्च ।
4-3-80 गोत्रादङ्कवत्‌ ।
4-3-81 हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः ।
4-3-82 मयट् च ।
4-3-83 प्रभवति ।
4-3-84 विदूराञ्ञ्यः ।
4-3-85 तद्गच्छति पथिदूतयोः ।
4-3-86 अभिनिष्क्रामति द्वारम् ।
4-3-87 अधिकृत्य कृते ग्रन्थे ।
4-3-88 शिशुक्रन्दयमसभद्वंद्वेन्द्रजननादिभ्यश्छः ।
4-3-89 सोऽस्य निवासः ।
4-3-90 अभिजनश्च ।
4-3-91 आयुधजीविभ्यश्छः पर्वते ।
4-3-92 शण्डिकादिभ्यो ञ्यः ।
4-3-93 सिन्धुतक्षशिलाऽऽदिभ्योऽणञौ ।
4-3-94 तूदीशलातुरवर्मतीकूचवाराड्ढक्छण्ढञ्यकः ।
4-3-95 भक्तिः ।
4-3-96 अचित्ताददेशकालाट्ठक् ।
4-3-97 महाराजाट्ठञ् ।
4-3-98 वासुदेवार्जुनाभ्यां वुन् ।
4-3-99 गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ् ।
4-3-100 जनपदिनां जनपदवत्‌ सर्वं जनपदेन समानशब्दानां
बहुवचने ।
4-3-101 तेन प्रोक्तम् ।
4-3-102 तित्तिरिवरतन्तुखण्डिकोखाच्छण् ।
4-3-103 काश्यपकौशिकाभ्यामृषिभ्यां णिनिः ।
4-3-104 कलापिवैशम्पायनान्तेवासिभ्यश्च ।
4-3-105 पुराणप्रोक्तेषु ब्राह्मणकल्पेषु ।
4-3-106 शौनकादिभ्यश्छन्दसि ।
4-3-107 कठचरकाल्लुक् ।
4-3-108 कलापिनोऽण् ।
4-3-109 छगलिनो ढिनुक् ।
4-3-110 पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः ।
4-3-111 कर्मन्दकृशाश्वादिनिः ।
4-3-112 तेनैकदिक् ।
4-3-113 तसिश्च ।
4-3-114 उरसो यच्च ।
4-3-115 उपज्ञाते ।
4-3-116 कृते ग्रन्थे ।
4-3-117 संज्ञायाम् ।
4-3-118 कुलालादिभ्यो वुञ् ।
4-3-119 क्षुद्राभ्रमरवटरपादपादञ् ।
4-3-120 तस्येदम् ।
4-3-121 रथाद्यत्‌ ।
4-3-122 पत्त्रपूर्वादञ् ।
4-3-123 पत्त्राध्वर्युपरिषदश्च ।
4-3-124 हलसीराट्ठक् ।
4-3-125 द्वंद्वाद्वुन् वैरमैथुनिकयोः ।
4-3-126 गोत्रचरणाद्वुञ् ।
4-3-127 संघाङ्कलक्षणेष्वञ्यञिञामण् ।
4-3-128 शाकलाद्वा ।
4-3-129 छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्ञ्यः ।
4-3-130 न दण्डमाणवान्तेवासिषु ।
4-3-131 रैवतिकादिभ्यश्छः ।
4-3-132 कौपिञ्जलहास्तिपदादण् ।
4-3-133 आथर्वणिकस्येकलोपश्च ।
4-3-134 तस्य विकारः ।
4-3-135 अवयवे च प्राण्योषधिवृक्षेभ्यः ।
4-3-136 बिल्वादिभ्योऽण् ।
4-3-137 कोपधाच्च ।
4-3-138 त्रपुजतुनोः षुक् ।
4-3-139 ओरञ् ।
4-3-140 अनुदात्तादेश्च ।
4-3-141 पलाशादिभ्यो वा ।
4-3-142 शम्याष्ट्लञ् ।
4-3-143 मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः ।
4-3-144 नित्यं वृद्धशरादिभ्यः ।
4-3-145 गोश्च पुरीषे ।
4-3-146 पिष्टाच्च ।
4-3-147 संज्ञायां कन् ।
4-3-148 व्रीहेः पुरोडाशे ।
4-3-149 असंज्ञायां तिलयवाभ्याम्‌ ।
4-3-150 द्व्यचश्छन्दसि ।
4-3-151 नोत्वद्वर्ध्रबिल्वात्‌ ।
4-3-152 तालादिभ्योऽण् ।
4-3-153 जातरूपेभ्यः परिमाणे ।
4-3-154 प्राणिरजतादिभ्योऽञ् ।
4-3-155 ञितश्च तत्प्रत्ययात्‌ ।
4-3-156 क्रीतवत्‌ परिमाणात्‌ ।
4-3-157 उष्ट्राद्वुञ् ।
4-3-158 उमोर्णयोर्वा ।
4-3-159 एण्या ढञ् ।
4-3-160 गोपयसोर्यत्‌ ।
4-3-161 द्रोश्च ।
4-3-162 माने वयः ।
4-3-163 फले लुक् ।
4-3-164 प्लक्षादिभ्योऽण् ।
4-3-165 जम्ब्वा वा ।
4-3-166 लुप् च ।
4-3-167 हरीतक्यादिभ्यश्च ।
4-3-168 कंसीयपरशव्ययोर्यञञौ लुक् च ।
4-4-1 प्राग्वहतेष्ठक् ।
4-4-2 तेन दीव्यति खनति जयति जितम् ।
4-4-3 संस्कृतम् ।
4-4-4 कुलत्थकोपधादण् ।
4-4-5 तरति ।
4-4-6 गोपुच्छाट्ठञ् ।
4-4-7 नौद्व्यचष्ठन् ।
4-4-8 चरति ।
4-4-9 आकर्षात् ष्ठल् ।
4-4-10 पर्पादिभ्यः ष्ठन् ।
4-4-11 श्वगणाट्ठञ्च ।
4-4-12 वेतनादिभ्यो जीवति ।
4-4-13 वस्नक्रयविक्रयाट्ठन् ।
4-4-14 आयुधाच्छ च ।
4-4-15 हरत्युत्सङ्गादिभ्यः ।
4-4-16 भस्त्राऽऽदिभ्यः ष्ठन् ।
4-4-17 विभाषा विवधवीवधात्‌ ।
4-4-18 अण् कुटिलिकायाः ।
4-4-19 निर्वृत्तेऽक्षद्यूतादिभ्यः ।
4-4-20 क्त्रेर्मम् नित्यं ।
4-4-21 अपमित्ययाचिताभ्यां कक्कनौ ।
4-4-22 संसृष्टे ।
4-4-23 चूर्णादिनिः ।
4-4-24 लवणाल्लुक् ।
4-4-25 मुद्गादण् ।
4-4-26 व्यञ्जनैरुपसिक्ते ।
4-4-27 ओजस्सहोऽम्भसा वर्तते ।
4-4-28 तत् प्रत्यनुपूर्वमीपलोमकूलम् ।
4-4-29 परिमुखं च ।
4-4-30 प्रयच्छति गर्ह्यम् ।
4-4-31 कुसीददशैकादशात्‌ ष्ठन्ष्ठचौ ।
4-4-32 उञ्छति ।
4-4-33 रक्षति ।
4-4-34 शब्ददर्दुरं करोति ।
4-4-35 पक्षिमत्स्यमृगान् हन्ति ।
4-4-36 परिपन्थं च तिष्ठति ।
4-4-37 माथोत्तरपदपदव्यनुपदं धावति ।
4-4-38 आक्रन्दाट्ठञ्च ।
4-4-39 पदोत्तरपदं गृह्णाति ।
4-4-40 प्रतिकण्ठार्थललामं च ।
4-4-41 धर्मं चरति ।
4-4-42 प्रतिपथमेति ठंश्च ।
4-4-43 समवायान् समवैति ।
4-4-44 परिषदो ण्यः ।
4-4-45 सेनाया वा ।
4-4-46 संज्ञायां ललाटकुक्कुट्यौ पश्यति ।
4-4-47 तस्य धर्म्यम् ।
4-4-48 अण् महिष्यादिभ्यः ।
4-4-49 ऋतोऽञ् ।
4-4-50 अवक्रयः ।
4-4-51 तदस्य पण्यम् ।
4-4-52 लवणाट्ठञ् ।
4-4-53 किशरादिभ्यः ष्ठन् ।
4-4-54 शलालुनोऽन्यतरस्याम् ।
4-4-55 शिल्पम्‌ ।
4-4-56 मड्डुकझर्झरादणन्यतरस्याम् ।
4-4-57 प्रहरणम् ।
4-4-58 परश्वधाट्ठञ्च ।
4-4-59 शक्तियष्ट्योरीकक् ।
4-4-60 अस्तिनास्तिदिष्टं मतिः ।
4-4-61 शीलम् ।
4-4-62 छत्रादिभ्यो णः ।
4-4-63 कर्माध्ययने वृत्तम् ।
4-4-64 बह्वच्पूर्वपदाट्ठच् ।
4-4-65 हितं भक्षाः ।
4-4-66 तदस्मै दीयते नियुक्तम् ।
4-4-67 श्राणामांसौदनाट्टिठन् ।
4-4-68 भक्तादणन्यतरस्याम् ।
4-4-69 तत्र नियुक्तः ।
4-4-70 अगारान्ताट्ठन् ।
4-4-71 अध्यायिन्यदेशकालात्‌ ।
4-4-72 कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति ।
4-4-73 निकटे वसति ।
4-4-74 आवसथात् ष्ठल् ।
4-4-75 प्राग्घिताद्यत्‌ ।
4-4-76 तद्वहति रथयुगप्रासङ्गम् ।
4-4-77 धुरो यड्ढकौ ।
4-4-78 खः सर्वधुरात्‌ ।
4-4-79 एकधुराल्लुक् च ।
4-4-80 शकटादण् ।
4-4-81 हलसीराट्ठक् ।
4-4-82 संज्ञायां जन्याः ।
4-4-83 विध्यत्यधनुषा ।
4-4-84 धनगणं लब्धा ।
4-4-85 अन्नाण्णः ।
4-4-86 वशं गतः ।
4-4-87 पदमस्मिन् दृश्यम्‌ ।
4-4-88 मूलमस्याबर्हि ।
4-4-89 संज्ञायां धेनुष्या ।
4-4-90 गृहपतिना संयुक्ते ञ्यः ।
4-4-91 नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्य\-
वध्यानाम्यसमसमितसम्मितेषु ।
4-4-92 धर्मपथ्यर्थन्यायादनपेते ।
4-4-93 छन्दसो निर्मिते ।
4-4-94 उरसोऽण् च ।
4-4-95 हृदयस्य प्रियः ।
4-4-96 बन्धने चर्षौ ।
4-4-97 मतजनहलात्‌ करणजल्पकर्षेषु ।
4-4-98 तत्र साधुः ।
4-4-99 प्रतिजनादिभ्यः खञ् ।
4-4-100 भक्ताण्णः ।
4-4-101 परिषदो ण्यः ।
4-4-102 कथाऽऽदिभ्यष्ठक् ।
4-4-103 गुडादिभ्यष्ठञ् ।
4-4-104 पथ्यतिथिवसतिस्वपतेर्ढञ् ।
4-4-105 सभाया यः ।
4-4-106 ढश्छन्दसि ।
4-4-107 समानतीर्थे वासी ।
4-4-108 समानोदरे शयित ओ चोदात्तः ।
4-4-109 सोदराद्यः ।
4-4-110 भवे छन्दसि ।
4-4-111 पाथोनदीभ्यां ड्यण् ।
4-4-112 वेशन्तहिमवद्भ्यामण् ।
4-4-113 स्रोतसो विभाषा ड्यड्ड्यौ ।
4-4-114 सगर्भसयूथसनुताद्यन् ।
4-4-115 तुग्राद्घन् ।
4-4-116 अग्राद्यत्‌ ।
4-4-117 घच्छौ च ।
4-4-118 समुद्राभ्राद्घः ।
4-4-119 बर्हिषि दत्तम् ।
4-4-120 दूतस्य भागकर्मणी ।
4-4-121 रक्षोयातूनां हननी ।
4-4-122 रेवतीजगतीहविष्याभ्यः प्रशस्ये ।
4-4-123 असुरस्य स्वम् ।
4-4-124 मायायामण् ।
4-4-125 तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः ।
4-4-126 अश्विमानण् ।
4-4-127 वयस्यासु मूर्ध्नो मतुप्‌ ।
4-4-128 मत्वर्थे मासतन्वोः ।
4 4-129 मधोर्ञ च ।
4-4-130 ओजसोऽहनि यत्खौ ।
4-4-131 वेशोयशआदेर्भगाद्यल् ।
4-4-132 ख च ।
4-4-133 पूर्वैः कृतमिनियौ च ।
4-4-134 अद्भिः संस्कृतम् ।
4-4-135 सहस्रेण संमितौ घः ।
4-4-136 मतौ च ।
4-4-137 सोममर्हति यः ।
4-4-138 मये च ।
4-4-139 मधोः ।
4-4-140 वसोः समूहे च ।
4-4-141 नक्षत्राद्घः ।
4-4-142 सर्वदेवात्‌ तातिल् ।
4-4-143 शिवशमरिष्टस्य करे ।
4-4-144 भावे च ।
\मेद्स्किप्\ह्रुले\मेद्स्किप्
5-1-1 प्राक् क्रीताच्छः ।
5-1-2 उगवादिभ्योऽत्‌ ।
5-1-3 कम्बलाच्च संज्ञायाम् ।
5-1-4 विभाषा हविरपूपादिभ्यः ।
5-1-5 तस्मै हितम् ।
5-1-6 शरीरावयवाद्यत्‌ ।
5-1-7 खलयवमाषतिलवृषब्रह्मणश्च ।
5-1-8 अजाविभ्यां थ्यन् ।
5-1-9 आत्मन्विश्वजनभोगोत्तरपदात्‌ खः ।
5-1-10 सर्वपुरुषाभ्यां णढञौ ।
5-1-11 माणवचरकाभ्यां खञ् ।
5-1-12 तदर्थं विकृतेः प्रकृतौ ।
5-1-13 छदिरुपधिबलेः ढञ् ।
5-1-14 ऋषभोपानहोर्ञ्यः ।
5-1-15 चर्म्मणोऽञ् ।
5-1-16 तदस्य तदस्मिन् स्यादिति ।
5-1-17 परिखाया ढञ् ।
5-1-18 प्राग्वतेष्ठञ् ।
5-1-19 आर्हादगोपुच्छसंख्यापरिमाणाट्ठक् ।
5-1-20 असमासे निष्कादिभ्यः ।
5-1-21 शताच्च ठन्यतावशते ।
5-1-22 संख्याया अतिशदन्तायाः कन् ।
5-1-23 वतोरिड्वा ।
5-1-24 विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम्‌ ।
5-1-25 कंसाट्टिठन् ।
5-1-26 शूर्पादञन्यतरस्याम् ।
5-1-27 शतमानविंशतिकसहस्रवसनादण् ।
5-1-28 अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् ।
5-1-29 विभाषा कार्षापणसहस्राभ्याम् ।
5-1-30 द्वित्रिपूर्वान्निष्कात्‌ ।
5-1-31 बिस्ताच्च ।
5-1-32 विंशतिकात्‌ खः ।
5-1-33 खार्या ईकन् ।
5-1-34 पणपादमाषशतादत्‌ ।
5-1-35 शाणाद्वा ।
5-1-36 द्वित्रिपूर्वादण् च ।
5-1-37 तेन क्रीतम् ।
5-1-38 तस्य निमित्तं संयोगोत्पातौ ।
5-1-39 गोद्व्यचोरसंख्यापरिमाणाश्वादेर्यत्‌ ।
5-1-40 पुत्राच्छ च ।
5-1-41 सर्वभूमिपृथिवीभ्यामणञौ ।
5-1-42 तस्येश्वरः ।
5-1-43 तत्र विदित इति च ।
5-1-44 लोकसर्वलोकाट्ठञ् ।
5-1-45 तस्य वापः ।
5-1-46 पात्रात् ष्ठन् ।
5-1-47 तदस्मिन् वृद्ध्यायलाभशुल्कोपदा दीयते ।
5-1-48 पूरणार्धाट्ठन् ।
5-1-49 भागाद्यच्च ।
5-1-50 तद्धरति वहत्यावहति भाराद्वंशादिभ्यः ।
5-1-51 वस्नद्रव्याभ्यां ठन्कनौ ।
5-1-52 सम्भवत्यवहरति पचति ।
5-1-53 आढकाचितपात्रात्‌ खोऽन्यतरयाम् ।
5-1-54 द्विगोष्ठंश्च ।
5-1-55 कुलिजाल्लुक्खौ च ।
5-1-56 सोऽस्यांशवस्नभृतयः ।
5-1-57 तदस्य परिमाणम् ।
5-1-58 संख्यायाः संज्ञासंघसूत्राध्ययनेषु ।
5-1-59 पङ्क्तिविंशतित्रिंशत्चत्वारिंशत्पञ्चाशत्षष्टि\-
सप्तत्यशीतिनवतिशतम् ।
5-1-60 पञ्चद्दशतौ वर्गे वा ।
5-1-61 सप्तनोऽञ् छन्दसि ।
5-1-62 त्रिंशच्चत्वारिंशतोर्ब्राह्मणे संज्ञायां डण् ।
5-1-63 तद् अर्हति ।
5-1-64 छेदादिभ्यो नित्यम् ।
5-1-65 शीर्षच्छेदाद्यच्च ।
5-1-66 दण्डादिभ्यः ।
5-1-67 छन्दसि च ।
5-1-68 पात्राद्घंश्च ।
5-1-69 कडङ्गरदक्षिणाच्छ च ।
5-1-70 स्थालीबिलात्‌ ।
5-1-71 यज्ञर्त्विग्भ्यां घखञौ ।
5-1-72 पारायणतुरायणचान्द्रायणं वर्तयति ।
5-1-73 संशयमापन्नः ।
5-1-74 योजनं गच्छति ।
5-1-75 पथः ष्कन् ।
5-1-76 पन्थो ण नित्यम् ।
5-1-77 उत्तरपथेनाहृतं च ।
5-1-78 कालात्‌ ।
5-1-79 तेन निर्वृत्तम् ।
5-1-80 तमधीष्टो भृतो भूतो भावी ।
5-1-81 मासाद्वयसि यत्खञौ ।
5-1-82 द्विगोर्यप्‌ ।
5-1-83 षण्मासाण्ण्यच्च ।
5-1-84 अवयसि ठंश्च ।
5-1-85 समायाः खः ।
5-1-86 द्विगोर्वा ।
5-1-87 रात्र्यहस्संवत्सराच्च ।
5-1-88 वर्षाल्लुक् च ।
5-1-89 चित्तवति नित्यम् ।
5-1-90 षष्टिकाः षष्टिरात्रेण पच्यन्ते ।
5-1-91 वत्सरान्ताच्छश्छन्दसि ।
5-1-92 सम्परिपूर्वात्‌ ख च ।
5-1-93 तेन परिजय्यलभ्यकार्यसुकरम् ।
5-1-94 तदस्य ब्रह्मचर्यम् ।
5-1-95 तस्य च दक्षिणा यज्ञाख्येभ्यः ।
5-1-96 तत्र च दीयते कार्यं भववत्‌ ।
5-1-97 व्युष्टादिभ्योऽण् ।
5-1-98 तेन यथाकथाचहस्ताभ्यां णयतौ ।
5-1-99 सम्पादिनि ।
5-1-100 कर्मवेषाद्यत् ।
5-1-101 तस्मै प्रभवति संतापादिभ्यः ।
5-1-102 योगाद्यच्च ।
5-1-103 कर्मण उकञ् ।
5-1-104 समयस्तदस्य प्राप्तम् ।
5-1-105 ऋतोरण् ।
5-1-106 छन्दसि घस् ।
5-1-107 कालाद्यत्‌ ।
5-1-108 प्रकृष्टे ठञ् ।
5-1-109 प्रयोजनम् ।
5-1-110 विशाखाऽऽषाढादण् मन्थदण्डयोः ।
5-1-111 अनुप्रवचनादिभ्यश्छः ।
5-1-112 समापनात्‌ सपूर्वपदात्‌ ।
5-1-113 ऐकागारिकट् चौरे ।
5-1-114 आकालिकडाद्यन्तवचने ।
5-1-115 तेन तुल्यं क्रिया चेद्वतिः ।
5-1-116 तत्र तस्येव ।
5-1-117 तदर्हम् ।
5-1-118 उपसर्गाच्छन्दसि धात्वर्थे ।
5-1-119 तस्य भावस्त्वतलौ ।
5-1-120 आ च त्वात्‌ ।
5-1-121
नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतर\-
सलसेभ्यः ।
5-1-122 पृथ्वादिभ्य इमनिज्वा ।
5-1-123 वर्णदृढादिभ्यः ष्यञ् च ।
5-1-124 गुणवचनब्राह्मणादिभ्यः कर्मणि च ।
5-1-125 स्तेनाद्यन्नलोपश्च ।
5-1-126 सख्युर्यः ।
5-1-127 कपिज्ञात्योर्ढक् ।
5-1-128 पत्यन्तपुरोहितादिभ्यो यक् ।
5-1-129 प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् ।
5-1-130 हायनान्तयुवादिभ्योऽण् ।
5-1-131 इगन्ताच्च लघुपूर्वात्‌ ।
5-1-132 योपधाद्गुरूपोत्तमाद्वुञ् ।
5-1-133 द्वंद्वमनोज्ञादिभ्यश्च ।
5-1-134 गोत्रचरणाच्श्लाघाऽत्याकारतदवेतेषु ।
5-1-135 होत्राभ्यश्छः ।
5-1-136 ब्रह्मणस्त्वः ।
5-2-1 धान्यानां भवने क्षेत्रे खञ् ।
5-2-2 व्रीहिशाल्योर्ढक् ।
5-2-3 यवयवकषष्टिकादत्‌ ।
5-2-4 विभाषा तिलमाषोमाभङ्गाऽणुभ्यः ।
5-2-5 सर्वचर्मणः कृतः खखञौ ।
5-2-6 यथामुखसंमुखस्य दर्शनः खः ।
5-2-7 तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति ।
5-2-8 आप्रपदं प्राप्नोति ।
5-2-9 अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु ।
5-2-10 परोवरपरम्परपुत्रपौत्रमनुभवति ।
5-2-11 अवारपारात्यन्तानुकामं गामी ।
5-2-12 समांसमां विजायते ।
5-2-13 अद्यश्वीनाऽवष्टब्धे ।
5-2-14 आगवीनः ।
5-2-15 अनुग्वलंगामी ।
5-2-16 अध्वनो यत्खौ ।
5-2-17 अभ्यमित्राच्छ च ।
5-2-18 गोष्ठात्‌ खञ् भूतपूर्वे ।
5-2-19 अश्वस्यैकाहगमः ।
5-2-20 शालीनकौपीने अधृष्टाकार्ययोः ।
5-2-21 व्रातेन जीवति ।
5-2-22 साप्तपदीनं सख्यम् ।
5-2-23 हैयंगवीनं संज्ञायाम् ।
5-2-24 तस्य पाकमूले पील्वदिकर्णादिभ्यः कुणब्जाहचौ ।
5-2-25 पक्षात्तिः ।
5-2-26 तेन वित्तश्चुञ्चुप्चणपौ ।
5-2-27 विनञ्भ्यां नानाञौ नसह ।
5-2-28 वेः शालच्छङ्कटचौ ।
5-2-29 सम्प्रोदश्च कटच् ।
5-2-30 अवात्‌ कुटारच्च ।
5-2-31 नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्राटचः ।
5-2-32 नेर्बिडज्बिरीसचौ ।
5-2-33 इनच्पिटच्चिकचि च ।
5-2-34 उपाधिभ्यां त्यकन्नासन्नारूढयोः ।
5-2-35 कर्मणि घटोऽठच् ।
5-2-36 तदस्य संजातं तारकाऽऽदिभ्य इतच् ।
5-2-37 प्रमाणे द्वयसज्दघ्नञ्मात्रचः ।
5-2-38 पुरुषहस्तिभ्यामण् च ।
5-2-39 यद्तदेतेभ्यः परिमाणे वतुप्‌ ।
5-2-40 किमिदंभ्यां वो घः ।
5-2-41 किमः संख्यापरिमाणे डति च ।
5-2-42 संख्याया अवयवे तयप्‌ ।
5-2-43 द्वित्रिभ्यां तयस्यायज्वा ।
5-2-44 उभादुदात्तो नित्यम् ।
5-2-45 तदस्मिन्नधिकमिति दशान्ताड्डः ।
5-2-46 शदन्तविंशतेश्च ।
5-2-47 संख्याया गुणस्य निमाने मयट् ।
5-2-48 तस्य पूरणे डट् ।
5-2-49 नान्तादसंख्याऽऽदेर्मट् ।
5-2-50 थट् च च्छन्दसि ।
5-2-51 षट्कतिकतिपयचतुरां थुक् ।
5-2-52 बहुपूगगणसंघस्य तिथुक् ।
5-2-53 वतोरिथुक् ।
5-2-54 द्वेस्तीयः ।
5-2-55 त्रेः सम्प्रसारणम् च ।
5-2-56 विंशत्यादिभ्यस्तमडन्यतरस्याम् ।
5-2-57 नित्यं शतादिमासार्धमाससंवत्सराच्च ।
5-2-58 षष्ट्यादेश्चासंख्याऽऽदेः ।
5-2-59 मतौ च्छः सूक्तसाम्नोः ।
5-2-60 अध्यायानुवाकयोर्लुक् ।
5-2-61 विमुक्तादिभ्योऽण् ।
5-2-62 गोषदादिभ्यो वुन् ।
5-2-63 तत्र कुशलः पथः ।
5-2-64 आकर्षादिभ्यः कन् ।
5-2-65 धनहिरण्यात्‌ कामे ।
5-2-66 स्वाङ्गेभ्यः प्रसिते ।
5-2-67 उदराट्ठगाद्यूने ।
5-2-68 सस्येन परिजातः ।
5-2-69 अंशं हारी ।
5-2-70 तन्त्रादचिरापहृते ।
5-2-71 ब्राह्मणकोष्णिके संज्ञायाम् ।
5-2-72 शीतोष्णाभ्यां कारिणि ।
5-2-73 अधिकम् ।
5-2-74 अनुकाभिकाभीकः कमिता ।
5-2-75 पार्श्वेनान्विच्छति ।
5-2-76 अयःशूलदण्डाजिनाभ्यां ठक्ठञौ ।
5-2-77 तावतिथं ग्रहणमिति लुग्वा ।
5-2-78 स एषां ग्रामणीः ।
5-2-79 शृङ्खलमस्य बन्धनं करभे ।
5-2-80 उत्क उन्मनाः ।
5-2-81 कालप्रयोजनाद्रोगे ।
5-2-82 तदस्मिन्नन्नं प्राये संज्ञायाम्‌ ।
5-2-83 कुल्माषादञ् ।
5-2-84 श्रोत्रियंश्छन्दोऽधीते ।
5-2-85 श्राद्धमनेन भुक्तमिनिठनौ ।
5-2-86 पूर्वादिनिः ।
5-2-87 सपूर्वाच्च ।
5-2-88 इष्टादिभ्यश्च ।
5-2-89 छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि ।
5-2-90 अनुपद्यन्वेष्टा ।
5-2-91 साक्षाद्द्रष्टरि संज्ञायाम् ।
5-2-92 क्षेत्रियच् परक्षेत्रे चिकित्स्यः ।
5-2-93
इन्द्रियमिन्द्रलिंगमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टम्\-
इन्द्रदत्तमिति वा ।
5-2-94 तदस्यास्त्यस्मिन्निति मतुप्‌ ।
5-2-95 रसादिभ्यश्च ।
5-2-96 प्राणिस्थादातो लजन्यतरस्याम् ।
5-2-97 सिध्मादिभ्यश्च ।
5-2-98 वत्सांसाभ्यां कामबले ।
5-2-99 फेनादिलच् च ।
5-2-100 लोमादिपामादिपिच्छादिभ्यः शनेलचः ।
5-2-101 प्रज्ञाश्रद्धाऽर्चावृत्तिभ्यो णः ।
5-2-102 तपःसहस्राभ्यां विनीनी ।
5-2-103 अण् च ।
5-2-104 सिकताशर्कराभ्यां च ।
5-2-105 देशे लुबिलचौ च ।
5-2-106 दन्त उन्नत उरच् ।
5-2-107 ऊषसुषिमुष्कमधो रः ।
5-2-108 द्युद्रुभ्यां मः ।
5-2-109 केशाद्वोऽन्यतरस्याम् ।
5-2-110 गाण्ड्यजगात्‌ संज्ञायाम् ।
5-2-111 काण्डाण्डादीरन्नीरचौ ।
5-2-112 रजःकृष्यासुतिपरिषदो वलच् ।
5-2-113 दन्तशिखात्‌ संज्ञायाम् ।
5-2-114 ज्योत्स्नातमिस्राशृङ्गिणोजस्विन्नूर्जस्वलगोमिन्\-
मलिनमलीमसाः ।
5-2-115 अत इनिठनौ ।
5-2-116 व्रीह्यादिभ्यश्च ।
5-2-117 तुन्दादिभ्य इलच् च ।
5-2-118 एकगोपूर्वाट्ठञ् नित्यम् ।
5-2-119 शतसहस्रान्ताच्च निष्कात्‌ ।
5-2-120 रूपादाहतप्रशंसयोरप्‌ ।
5-2-121 अस्मायामेधास्रजो विनिः ।
5-2-122 बहुलं छन्दसि ।
5-2-123 ऊर्णाया युस् ।
5-2-124 वाचो ग्मिनिः ।
5-2-125 आलजाटचौ बहुभाषिणि ।
5-2-126 स्वामिन्नैश्वर्ये ।
5-2-127 अर्शआदिभ्योऽच् ।
5-2-128 द्वंद्वोपतापगर्ह्यात्‌ प्राणिस्थादिनिः ।
5-2-129 वातातिसाराभ्यां कुक् च ।
5-2-130 वयसि पूरणात्‌ ।
5-2-131 सुखादिभ्यश्च ।
5-2-132 धर्मशीलवर्णान्ताच्च ।
5-2-133 हस्ताज्जातौ ।
5-2-134 वर्णाद्ब्रह्मचारिणि ।
5-2-135 पुष्करादिभ्यो देशे ।
5-2-136 बलादिभ्यो मतुबन्यतरस्याम् ।
5-2-137 संज्ञायां मन्माभ्याम्.ह् ।
5-2-138 कंशंभ्यां बभयुस्तितुतयसः ।
5-2-139 तुन्दिवलिवटेर्भः ।
5-2-140 अहंशुभमोर्युस् ।
5-3-1 प्राग्दिशो विभक्तिः ।
5-3-2 किंसर्वनामबहुभ्योऽद्व्यादिभ्यः ।
5-3-3 इदम इश् ।
5-3-4 एतेतौ रथोः ।
5-3-5 एतदोऽश् ।
5-3-6 सर्वस्य सोऽन्यतरस्यां दि ।
5-3-7 पञ्चम्यास्तसिल् ।
5-3-8 तसेश्च ।
5-3-9 पर्यभिभ्यां च ।
5-3-10 सप्तम्यास्त्रल् ।
5-3-11 इदमो हः ।
5-3-12 किमोऽत्‌ ।
5-3-13 वा ह च च्छन्दसि ।
5-3-14 इतराभ्योऽपि दृश्यन्ते ।
5-3-15 सर्वैकान्यकिंयत्तदः काले दा ।
5-3-16 इदमो र्हिल् ।
5-3-17 अधुना ।
5-3-18 दानीं च ।
5-3-19 तदो दा च ।
5-3-20 तयोर्दार्हिलौ च च्छन्दसि ।
5-3-21 अनद्यतने र्हिलन्यतरस्याम् ।
5-3-22 सद्यःपरुत्परार्यैषमःपरेद्यव्यद्यपूर्वेद्युरन्येद्युर्\-
अन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः ।
5-3-23 प्रकारवचने थाल् ।
5-3-24 इदमस्थमुः ।
5-3-25 किमश्च ।
5-3-26 था हेतौ च च्छन्दसि ।
5-3-27 दिक्‌शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो
दिग्देशकालेष्वस्तातिः ।
5-3-28 दक्षिणोत्तराभ्यामतसुच् ।
5-3-29 विभाषा परावराभ्याम् ।
5-3-30 अञ्चेर्लुक् ।
5-3-31 उपर्युपरिष्टात्‌ ।
5-3-32 पश्चात्‌ ।
5-3-33 पश्च पश्चा च च्छन्दसि ।
5-3-34 उत्तराधरदक्षिणादातिः ।
5-3-35 एनबन्यतरस्यामदूरेऽपञ्चम्याः ।
5-3-36 दक्षिणादाच् ।
5-3-37 आहि च दूरे ।
5-3-38 उत्तराच्च ।
5-3-39 पूर्वाधरावराणामसि पुरधवश्चैषाम्‌ ।
5-3-40 अस्ताति च ।
5-3-41 विभाषाऽवरस्य ।
5-3-42 संख्याया विधाऽर्थे धा ।
5-3-43 अधिकरणविचाले च ।
5-3-44 एकाद्धो ध्यमुञन्यारयाम् ।
5-3-45 द्वित्र्योश्च धमुञ् ।
5-3-46 एधाच्च ।
5-3-47 याप्ये पाशप्‌ ।
5-3-48 पूरणाद्भागे तीयादन् ।
5-3-49 प्रागेकादशभ्योऽच्छन्दसि ।
5-3-50 षष्ठाष्टमाभ्यां ञ च ।
5-3-51 मानपश्वङ्गयोः कन्लुकौ च ।
5-3-52 एकादाकिनिच्चासहाये ।
5-3-53 भूतपूर्वे चरट् ।
5-3-54 षष्ठ्या रूप्य च ।
5-3-55 अतिशायने तमबिष्ठनौ ।
5-3-56 तिङश्च ।
5-3-57 द्विवचनविभज्योपपदे तरबीयसुनौ ।
5-3-58 अजादी गुणवचनादेव ।
5-3-59 तुश्छन्दसि ।
5-3-60 प्रशस्यस्य श्रः ।
5-3-61 ज्य च ।
5-3-62 वृद्धस्य च ।
5-3-63 अन्तिकबाढयोर्नेदसाधौ ।
5-3-64 युवाल्पयोः कनन्यतरस्याम् ।
5-3-65 विन्मतोर्लुक् ।
5-3-66 प्रशंसायां रूपप्‌ ।
5-3-67 ईषदसमाप्तौ कल्पब्देश्यदेशीयरः ।
5-3-68 विभाषा सुपो बहुच् पुरस्तात्तु ।
5-3-69 प्रकारवचने जातीयर्।
5-3-70 प्रागिवात्कः ।
5-3-71 अव्ययसर्वनाम्नामकच् प्राक् टेः ।
5-3-72 कस्य च दः ।
5-3-73 अज्ञाते ।
5-3-74 कुत्सिते ।
5-3-75 संज्ञायां कन् ।
5-3-76 अनुकम्पायाम् ।
5-3-77 नीतौ च तद्युक्तात्‌ ।
5-3-78 बह्वचो मनुष्यनाम्नष्ठज्वा ।
5-3-79 घनिलचौ च ।
5-3-80 प्राचामुपादेरडज्वुचौ च ।
5-3-81 जातिनाम्नः कन् ।
5-3-82 अजिनान्तस्योत्तरपदलोपश्च ।
5-3-83 ठाजादावूर्ध्वं द्वितीयादचः ।
5-3-84 शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात्‌ ।
5-3-85 अल्पे ।
5-3-86 ह्रस्वे ।
5-3-87 संज्ञायां कन् ।
5-3-88 कुटीशमीशुण्डाभ्यो रः ।
5-3-89 कुत्वा डुपच् ।
5-3-90 कासूगोणीभ्यां ष्टरच् ।
5-3-91 वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे ।
5-3-92 किंयत्तदो निर्द्धारणे द्वयोरेकस्य डतरच् ।
5-3-93 वा बहूनां जातिपरिप्रश्ने डतमच् ।
5-3-94 एकाच्च प्राचाम् ।
5-3-95 अवक्षेपणे कन् ।
5-3-96 इवे प्रतिकृतौ ।
5-3-97 संज्ञायां च ।
5-3-98 लुम्मनुष्ये ।
5-3-99 जीविकाऽर्थे चापण्ये ।
5-3-100 देवपथादिभ्यश्च ।
5-3-101 वस्तेर्ढञ् ।
5-3-102 शिलाया ढः ।
5-3-103 शाखाऽऽदिभ्यो यत्‌ ।
5-3-104 द्रव्यं च भव्ये ।
5-3-105 कुशाग्राच्छः ।
5-3-106 समासाच्च तद्विषयात्‌ ।
5-3-107 शर्कराऽऽदिभ्योऽण् ।
5-3-108 अङ्गुल्यादिभ्यष्ठक् ।
5-3-109 एकशालायाष्ठजन्यतरस्याम् ।
5-3-110 कर्कलोहितादीकक् ।
5-3-111 प्रत्नपूर्वविश्वेमात्थाल् छन्दसि ।
5-3-112 पूगाञ्ञ्योऽग्रामणीपूर्वात्‌ ।
5-3-113 व्रातच्फञोरस्त्रियाम् ।
5-3-114 आयुधजीविसंघाञ्ञ्यड्वाहीकेष्वब्राह्मणराजन्यात्‌ ।
5-3-115 वृकाट्टेण्यण् ।
5-3-116 दामन्यादित्रिगर्तषष्ठाच्छः ।
5-3-117 पर्श्वादियौधेयादिभ्यामणञौ ।
5-3-118
अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ्रुमदणो
यञ् ।
5-3-119 ञ्य्आदयस्तद्राजाः ।
5-4-1 पादशतस्य संख्याऽऽदेर्वीप्सायां वुन् लोपश्च ।
5-4-2 दण्डव्यवसर्गयोश्च ।
5-4-3 स्थूलादिभ्यः प्रकारवचने कन् ।
5-4-4 अनत्यन्तगतौ क्तात्‌ ।
5-4-5 न सामिवचने ।
5-4-6 बृहत्या आच्छादने ।
5-4-7 अषडक्षाशितङ्ग्वलंकर्मालम्पुरुषाध्युत्तरपदात्‌
खः ।
5-4-8 विभाषा अञ्चेरदिक्स्त्रियाम् ।
5-4-9 जात्यन्ताच्छ बन्धुनि ।
5-4-10 स्थानान्ताद्विभाषा सस्थानेनेति चेत्‌ ।
5-4-11 किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे ।
5-4-12 अमु च च्छन्दसि ।
5-4-13 अनुगादिनष्ठक् ।
5-4-14 णचः स्त्रियामञ् ।
5-4-15 अणिनुणः ।
5-4-16 विसारिणो मत्स्ये ।
5-4-17 संख्यायाः क्रियाऽभ्यावृत्तिगणने कृत्वसुच् ।
5-4-18 द्वित्रिचतुर्भ्यः सुच् ।
5-4-19 एकस्य सकृच्च ।
5-4-20 विभाषा बहोर्धाऽविप्रकृष्टकाले ।
5-4-21 तत्प्रकृतवचने मयट् ।
5-4-22 समूहवच्च बहुषु ।
5-4-23 अनन्तावसथेतिहभेषजाञ्ञ्यः ।
5-4-24 देवतान्तात्तादर्थ्ये यत्‌ ।
5-4-25 पादार्घाभ्यां च ।
5-4-26 अतिथेर्ञ्यः ।
5-4-27 देवात्तल् ।
5-4-28 अवेः कः ।
5-4-29 यावादिभ्यः कन् ।
5-4-30 लोहितान्मणौ ।
5-4-31 वर्णे चानित्ये ।
5-4-32 रक्ते ।
5-4-33 कालाच्च ।
5-4-34 विनयादिभ्यष्ठक् ।
5-4-35 वाचो व्याहृतार्थायाम् ।
5-4-36 तद्युक्तात्‌ कर्मणोऽण् ।
5-4-37 ओषधेरजातौ ।
5-4-38 प्रज्ञादिभ्यश्च ।
5-4-39 मृदस्तिकन् ।
5-4-40 सस्नौ प्रशंसायाम् ।
5-4-41 वृकज्येष्ठाभ्यां तिल्तातिलौ च च्छन्दसि ।
5-4-42 बह्वल्पार्थाच्छस् कारकादन्यतरस्याम् ।
5-4-43 संख्यैकवचनाच्च वीप्सायाम् ।
5-4-44 प्रतियोगे पञ्चम्यास्तसिः ।
5-4-45 अपादाने चाहीयरुहोः ।
5-4-46 अतिग्रहाव्यथनक्षेपेष्वकर्तरि तृतीयायाः ।
5-4-47 हीयमानपापयोगाच्च ।
5-4-48 षष्ठ्या व्याश्रये ।
5-4-49 रोगाच्चापनयने ।
5-4-50 अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः ।
5-4-51 अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च ।
5-4-52 विभाषा साति कार्त्स्न्ये ।
5-4-53 अभिविधौ सम्पदा च ।
5-4-54 तदधीनवचने ।
5-4-55 देये त्रा च ।
5-4-56 देवमनुष्यपुरुषमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम् ।
5-4-57 अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् ।
5-4-58 कृञो द्वितीयतृतीयशम्बबीजात्‌ कृषौ ।
5-4-59 संख्यायाश्च गुणान्तायाः ।
5-4-60 समयाच्च यापनायाम् ।
5-4-61 सपत्त्रनिष्पत्रादतिव्यथने ।
5-4-62 निष्कुलान्निष्कोषणे ।
5-4-63 सुखप्रियादानुलोम्ये ।
5-4-64 दुःखात्‌ प्रातिलोम्ये ।
5-4-65 शूलात्‌ पाके ।
5-4-66 सत्यादशपथे ।
5-4-67 मद्रात्‌ परिवापणे ।
5-4-68 समासान्ताः ।
5-4-69 न पूजनात्‌ ।
5-4-70 किमः क्षेपे ।
5-4-71 नञस्तत्पुरुषात्‌ ।
5-4-72 पथो विभाषा ।
5-4-73 बहुव्रीहौ संख्येये डजबहुगणात्‌ ।
5-4-74 ऋक्पूरप्धूःपथामानक्षे ।
5-4-75 अच्‌ प्रत्यन्ववपूर्वात्‌ सामलोम्नः ।
5-4-76 अक्ष्णोऽदर्शनात्‌ ।
5-4-77 अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्साम\-
वाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तंदिव\-
रत्रिंदिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषद्व्यायुष\-

त्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः

5-4-78 ब्रह्महस्तिभ्याम् वर्च्चसः ।
5-4-79 अवसमन्धेभ्यस्तमसः ।
5-4-80 श्वसो वसीयःश्रेयसः ।
5-4-81 अन्ववतप्ताद्रहसः ।
5-4-82 प्रतेरुरसः सप्तमीस्थात्‌ ।
5-4-83 अनुगवमायामे ।
5-4-84 द्विस्तावा त्रिस्तावा वेदिः ।
5-4-85 उपसर्गादध्वनः ।
5-4-86 तत्पुरुषस्याङ्गुलेः संख्याऽव्ययादेः ।
5-4-87 अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः ।
5-4-88 अह्नोऽह्न एतेभ्यः ।
5-4-89 न संख्याऽऽदेः समाहारे ।
5-4-90 उत्तमैकाभ्यां च ।
5-4-91 राजाऽहस्सखिभ्यष्टच्‌ ।
5-4-92 गोरतद्धितलुकि ।
5-4-93 अग्राख्यायामुरसः ।
5-4-94 अनोऽश्मायस्सरसाम् जातिसंज्ञयोः ।
5-4-95 ग्रामकौटाभ्यां च तक्ष्णः ।
5-4-96 अतेः शुनः ।
5-4-97 उपमानादप्राणिषु ।
5-4-98 उत्तरमृगपूर्वाच्च सक्थ्नः ।
5-4-99 नावो द्विगोः ।
5-4-100 अर्धाच्च ।
5-4-101 खार्याः प्राचाम् ।
5-4-102 द्वित्रिभ्यामञ्जलेः ।
5-4-103 अनसन्तान्नपुंसकाच्छन्दसि ।
5-4-104 ब्रह्मणो जानपदाख्यायाम् ।
5-4-105 कुमहद्भ्यामन्यतरस्याम्‌ ।
5-4-106 द्वंद्वाच्चुदषहान्तात् समाहारे ।
5-4-107 अव्ययीभावे शरत्प्रभृतिभ्यः ।
5-4-108 अनश्च ।
5-4-109 नपुंसकादन्यतर्अस्याम् ।
5-4-110 नदीपौर्णमास्याग्रहायणीभ्यः ।
5-4-111 झयः ।
5-4-112 गिरेश्च सेनकस्य ।
5-4-113 बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्‌ षच् ।
5-4-114 अङ्गुलेर्दारुणि ।
5-4-115 द्वित्रिभ्यां ष मूर्ध्नः ।
5-4-116 अप् पूरणीप्रमाण्योः ।
5-4-117 अन्तर्बहिर्भ्यां च लोम्नः ।
5-4-118 अञ्नासिकायाः संज्ञायां नसं चास्थूलात्‌ ।
5-4-119 उपसर्गाच्च ।
5-4-120 सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणीपदाजपद\-
प्रोष्ठपदाः ।
5-4-121 नञ्दुःसुभ्यो हलिसक्थ्योरन्यतरस्याम् ।
5-4-122 नित्यमसिच् प्रजामेधयोः ।
5-4-123 बहुप्रजाश्छन्दसि ।
5-4-124 धर्मादनिच् केवलात्‌ ।
5-4-125 जम्भा सुहरिततृणसोमेभ्यः ।
5-4-126 दक्षिणेर्मा लुब्धयोगे ।
5-4-127 इच् कर्मव्यतिहारे ।
5-4-128 द्विदण्ड्यादिभ्यश्च ।
5-4-129 प्रसम्भ्यां जानुनोर्ज्ञुः ।
5-4-130 ऊर्ध्वाद्विभाषा ।
5-4-131 ऊधसोऽनङ् ।
5-4-132 धनुषश्च ।
5-4-133 वा संज्ञायाम् ।
5-4-134 जायाया निङ् ।
5-4-135 गन्धस्येदुत्पूतिसुसुरभिभ्यः ।
5-4-136 अल्पाख्यायाम् ।
5-4-137 उपमानाच्च ।
5-4-138 पादस्य लोपोऽहस्त्यादिभ्यः ।
5-4-139 कुम्भपदीषु च ।
5-4-140 संख्यासुपूर्वस्य ।
5-4-141 वयसि दन्तस्य दतृ ।
5-4-142 छन्दसि च ।
5-4-143 स्त्रियां संज्ञायाम् ।
5-4-144 विभाषा श्यावारोकाभ्याम् ।
5-4-145 अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च ।
5-4-146 ककुदस्यावस्थायां लोपः ।
5-4-147 त्रिककुत् पर्वते ।
5-4-148 उद्विभ्यां काकुदस्य ।
5-4-149 पूर्णाद्विभाषा ।
5-4-150 सुहृद्दुर्हृदौ मित्रामित्रयोः ।
5-4-151 उरःप्रभृतिभ्यः कप्‌ ।
5-4-152 इनः स्त्रियाम् ।
5-4-153 नद्यृतश्च ।
5-4-154 शेषाद्विभाषा ।
5-4-155 न संज्ञायाम् ।
5-4-156 ईयसश्च ।
5-4-157 वन्दिते भ्रातुः ।
5-4-158 ऋतश्छन्दसि ।
5-4-159 नाडीतन्त्र्योः स्वाङ्गे ।
5-4-160 निष्प्रवाणिश्च ।
6-1-1 एकाचो द्वे प्रथमस्य ।
6-1-2 अजादेर्द्वितीयस्य ।
6-1-3 न न्द्राः संयोगादयः ।
6-1-4 पूर्वोऽभ्यासः ।
6-1-5 उभे अभ्यस्तम् ।
6-1-6 जक्षित्यादयः षट् ।
6-1-7 तुजादीनां दीर्घोऽभ्यासस्य ।
6-1-8 लिटि धातोरनभ्यासस्य ।
6-1-9 सन्यङोः ।
6-1-10 श्लौ ।
6-1-11 चङि ।
6-1-12 दाश्वान् साह्वान् मीढ्वांश्च ।
6-1-13 ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे ।
6-1-14 बन्धुनि बहुव्रीहौ ।
6-1-15 वचिस्वपियजादीनां किति ।
6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छति\-
भृज्जतीनां ङिति च ।
6-1-17 लिट्यभ्यासस्योभयेषाम् ।
6-1-18 स्वापेश्चङि ।
6-1-19 स्वपिस्यमिव्येञां यङि ।
6-1-20 न वशः ।
6-1-21 चायः की ।
6-1-22 स्फायः स्फी निष्ठायाम् ।
6-1-23 स्त्यः प्रपूर्वस्य ।
6-1-24 द्रवमूर्तिस्पर्शयोः श्यः ।
6-1-25 प्रतेश्च ।
6-1-26 विभाषाऽभ्यवपूर्वस्य ।
6-1-27 शृतं पाके ।
6-1-28 प्यायः पी ।
6-1-29 लिड्यङोश्च ।
6-1-30 विभाषा श्वेः ।
6-1-31 णौ च संश्चङोः ।
6-1-32 ह्वः सम्प्रसारणम् ।
6-1-33 अभ्यस्तस्य च ।
6-1-34 बहुलं छन्दसि ।
6-1-35 चायः की ।
6-1-36 अपस्पृधेथामानृचुरानृहुश्चिच्युषेतित्याज\-
श्राताःश्रितमाशीराशीर्त्तः ।
6-1-37 न सम्प्रसारणे सम्प्रसारणम् ।
6-1-38 लिटि वयो यः ।
6-1-39 वश्चास्यान्यतरस्याम् किति ।
6-1-40 वेञः ।
6-1-41 ल्यपि च ।
6-1-42 ज्यश्च ।
6-1-43 व्यश्च ।
6-1-44 विभाषा परेः ।
6-1-45 आदेच उपदेशेऽशिति ।
6-1-46 न व्यो लिटि ।
6-1-47 स्फुरतिस्फुलत्योर्घञि ।
6-1-48 क्रीङ्जीनां णौ ।
6-1-49 सिध्यतेरपारलौकिके ।
6-1-50 मीनातिमिनोतिदीङां ल्यपि च ।
6-1-51 विभाषा लीयतेः ।
6-1-52 खिदेश्छन्दसि ।
6-1-53 अपगुरो णमुलि ।
6-1-54 चिस्फुरोर्णौ ।
6-1-55 प्रजने वीयतेः ।
6-1-56 बिभेतेर्हेतुभये ।
6-1-57 नित्यं स्मयतेः ।
6-1-58 सृजिदृशोर्झल्यमकिति ।
6-1-59 अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् ।
6-1-60 शीर्षंश्छन्दसि ।
6-1-61 ये च तद्धिते ।
6-1-62 अचि शीर्षः ।
6-1-63 पद्दन्नोमास्हृन्निशसन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छस्प्रभृतिषु ।
6-1-64 धात्वादेः षः सः ।
6-1-65 णो नः ।
6-1-66 लोपो व्योर्वलि ।
6-1-67 वेरपृक्तस्य ।
6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् ।
6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः ।
6-1-70 शेश्छन्दसि बहुलम् ।
6-1-71 ह्रस्वस्य पिति कृति तुक् ।
6-1-72 संहितायाम् ।
6-1-73 छे च ।
6-1-74 आङ्माङोश्च ।
6-1-75 दीर्घात्‌ ।
6-1-76 पदान्ताद्वा ।
6-1-77 इको यणचि ।
6-1-78 एचोऽयवायावः ।
6-1-79 वान्तो यि प्रत्यये ।
6-1-80 धातोस्तन्निमित्तस्यैव ।
6-1-81 क्षय्यजय्यौ शक्यार्थे ।
6-1-82 क्रय्यस्तदर्थे ।
6-1-83 भय्यप्रवय्ये च च्छन्दसि ।
6-1-84 एकः पूर्वपरयोः ।
6-1-85 अन्तादिवच्च ।
6-1-86 षत्वतुकोरसिद्धः ।
6-1-87 आद्गुणः ।
6-1-88 वृद्धिरेचि ।
6-1-89 एत्येधत्यूठ्सु ।
6-1-90 आटश्च ।
6-1-91 उपसर्गादृति धातौ ।
6-1-92 वा सुप्यापिशलेः ।
6-1-93 औतोऽम्शसोः ।
6-1-94 एङि पररूपम् ।
6-1-95 ओमाङोश्च ।
6-1-96 उस्यपदान्तात्‌ ।
6-1-97 अतो गुणे ।
6-1-98 अव्यक्तानुकरणस्यात इतौ ।
6-1-99 नाम्रेडितस्यान्त्यस्य तु वा ।
6-1-100 नित्यमाम्रेडिते डाचि ।
6-1-101 अकः सवर्णे दीर्घः ।
6-1-102 प्रथमयोः पूर्वसवर्णः ।
6-1-103 तस्माच्छसो नः पुंसि ।
6-1-104 नादिचि ।
6-1-105 दीर्घाज्जसि च ।
6-1-106 वा छन्दसि ।
6-1-107 अमि पूर्वः ।
6-1-108 सम्प्रसारणाच्च ।
6-1-109 एङः पदान्तादति ।
6-1-110 ङसिङसोश्च ।
6-1-111 ऋत उत्‌ ।
6-1-112 ख्यत्यात्‌ परस्य ।
6-1-113 अतो रोरप्लुतादप्लुते ।
6-1-114 हशि च ।
6-1-115 प्रकृत्याऽन्तःपादमव्यपरे ।
6-1-116 अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु च ।
6-1-117 यजुष्युरः ।
6-1-118 आपोजुषाणोवृष्णोवर्षिष्ठेऽम्बेऽम्बालेऽम्बिकेपूर्वे ।
6-1-119 अङ्ग इत्यादौ च ।
6-1-120 अनुदात्ते च कुधपरे ।
6-1-121 अवपथासि च ।
6-1-122 सर्वत्र विभाषा गोः ।
6-1-123 अवङ् स्फोटायनस्य ।
6-1-124 इन्द्रे च ##(##नित्यम्##)## ।
6-1-125 प्लुतप्रगृह्या अचि नित्यम् ।
6-1-126 आङोऽनुनासिकश्छन्दसि ।
6-1-127 इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च ।
6-1-128 ऋत्यकः ।
6-1-129 अप्लुतवदुपस्थिते ।
6-1-130 ई3 चाक्रवर्मणस्य ।
6-1-131 दिव उत्‌ ।
6-1-132 एतत्तदोः सुलोपोऽकोरनञ्समासे हलि ।
6-1-133 स्यश्छन्दसि बहुलम् ।
6-1-134 सोऽचि लोपे चेत्‌ पादपूरणम् ।
6-1-135 सुट् कात्‌ पूर्वः ।
6-1-136 अडभ्यासव्यवायेऽपि ।
6-1-137 सम्पर्युपेभ्यः करोतौ भूषणे ।
6-1-138 समवाये च ।
6-1-139 उपात्‌ प्रतियत्नवैकृतवाक्याध्याहारेषु ।
6-1-140 किरतौ लवने ।
6-1-141 हिंसायां प्रतेश्च ।
6-1-142 अपाच्चतुष्पाच्छकुनिष्वालेखने ।
6-1-143 कुस्तुम्बुरूणि जातिः ।
6-1-144 अपरस्पराः क्रियासातत्ये ।
6-1-145 गोष्पदं सेवितासेवितप्रमाणेषु ।
6-1-146 आस्पदं प्रतिष्ठायाम्‌ ।
6-1-147 आश्चर्यमनित्ये ।
6-1-148 वर्चस्केऽवस्करः ।
6-1-149 अपस्करो रथाङ्गम् ।
6-1-150 विष्किरः शकुनिर्विकरो वा ।
6-1-151 ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे ।
6-1-152 प्रतिष्कशश्च कशेः ।
6-1-153 प्रस्कण्वहरिश्चन्द्रावृषी ।
6-1-154 मस्करमस्करिणौ वेणुपरिव्राजकयोः ।
6-1-155 कास्तीराजस्तुन्दे नगरे ।
6-1-156 कारस्करो वृक्षः ।
6-1-157 पारस्करप्रभृतीनि च संज्ञायाम् ।
6-1-158 अनुदात्तं पदमेकवर्जम्‌ ।
6-1-159 कर्षात्वतो घञोऽन्त उदात्तः ।
6-1-160 उञ्छादीनां च ।
6-1-161 अनुदात्तस्य च यत्रोदात्तलोपः ।
6-1-162 धातोः ।
6-1-163 चितः ।
6-1-164 तद्धितस्य ।
6-1-165 कितः ।
6-1-166 तिसृभ्यो जसः ।
6-1-167 चतुरः शसि ।
6-1-168 सावेकाचस्तृतीयाऽऽदिविभक्तिः ।
6-1-169 अन्तोदत्तादुत्तरपदादन्यतरस्यामनित्यसमासे ।
6-1-170 अञ्चेश्छन्दस्यसर्वनामस्थानम् ।
6-1-171 ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः ।
6-1-172 अष्टनो दीर्घात्‌ ।
6-1-173 शतुरनुमो नद्यजादी ।
6-1-174 उदात्तयणो हल्पूर्वात्‌ ।
6-1-175 नोङ्धात्वोः ।
6-1-176 ह्रस्वनुड्भ्यां मतुप्‌ ।
6-1-177 नामन्यतरस्याम्‌ ।
6-1-178 ङ्याश्छन्दसि बहुलम् ।
6-1-179 षट्त्रिचतुर्भ्यो हलादिः ।
6-1-180 झल्युपोत्तमम् ।
6-1-181 विभाषा भाषायाम् ।
6-1-182 न गोश्वन्त्साववर्णराडङ्क्रुङ्कृद्भ्यः ।
6-1-183 दिवो झल् ।
6-1-184 नृ चान्यतरस्याम् ।
6-1-185 तित्स्वरितम् ।
6-1-186 तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकम्\-
अनुदात्तमहन्विङोः ।
6-1-187 आदिः सिचोऽन्यतरस्याम् ।
6-1-188 स्वपादिर्हिंसामच्यनिटि ।
6-1-189 अभ्यस्तानामादिः ।
6-1-190 अनुदात्ते च ।
6-1-191 सर्वस्य सुपि ।
6-1-192 भीह्रीभृहुमदजनधनदरिद्राजागरां प्रत्ययात् पूर्वम्
पिति ।
6-1-193 लिति ।
6-1-194 आदिर्णमुल्यन्यतरस्याम् ।
6-1-195 अचः कर्तृयकि ।
6-1-196 थलि च सेटीडन्तो वा ।
6-1-197 ञ्णित्यादिर्नित्यम् ।
6-1-198 आमन्त्रितस्य च ।
6-1-199 पथिमथोः सर्वनामस्थाने ।
6-1-200 अन्तश्च तवै युगपत्‌ ।
6-1-201 क्षयो निवासे ।
6-1-202 जयः करणम् ।
6-1-203 वृषादीनां च ।
6-1-204 संज्ञायामुपमानम्‌ ।
6-1-205 निष्ठा च द्व्यजनात्‌ ।
6-1-206 शुष्कधृष्टौ ।
6-1-207 आशितः कर्ता ।
6-1-208 रिक्ते विभाषा ।
6-1-209 जुष्टार्पिते च छन्दसि ।
6-1-210 नित्यं मन्त्रे ।
6-1-211 युष्मदस्मदोर्ङसि ।
6-1-212 ङयि च ।
6-1-213 यतोऽनावः ।
6-1-214 ईडवन्दवृशंसदुहां ण्यतः ।
6-1-215 विभाषा वेण्विन्धानयोः ।
6-1-216 त्यागरागहासकुहश्वठक्रथानाम् ।
6-1-217 उपोत्तमं रिति ।
6-1-218 चङ्यन्यतरस्याम् ।
6-1-219 मतोः पूर्वमात्‌ संज्ञायां स्त्रियाम्‌ ।
6-1-220 अन्तोऽवत्याः ।
6-1-221 ईवत्याः ।
6-1-222 चौ ।
6-1-223 समासस्य ।
6-2-1 बहुव्रीहौ प्रकृत्या पूर्वपदम् ।
6-2-2 तत्पुरुषे
तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः ।
6-2-3 वर्णः वर्णेष्वनेते ।
6-2-4 गाधलवणयोः प्रमाणे ।
6-2-5 दायाद्यं दायादे ।
6-2-6 प्रतिबन्धि चिरकृच्छ्रयोः ।
6-2-7 पदेऽपदेशे ।
6-2-8 निवाते वातत्राणे ।
6-2-9 शारदेअनार्तवे ।
6-2-10 अध्वर्युकषाययोर्जातौ ।
6-2-11 सदृशप्रतिरूपयोः सादृश्ये ।
6-2-12 द्विगौ प्रमाणे ।
6-2-13 गन्तव्यपण्यं वाणिजे ।
6-2-14 मात्रोपज्ञोपक्रमच्छाये नपुंसके ।
6-2-15 सुखप्रिययोर्हिते ।
6-2-16 प्रीतौ च ।
6-2-17 स्वं स्व्आमिनि ।
6-2-18 पत्यावैश्वर्ये ।
6-2-19 न भूवाक्चिद्दिधिषु ।
6-2-20 वा भुवनम् ।
6-2-21 आशङ्काबाधनेदीयस्सु संभावने ।
6-2-22 पूर्वे भूतपूर्वे ।
6-2-23 सविधसनीडसमर्यादसवेशसदेशेषु सामीप्ये ।
6-2-24 विस्पष्टादीनि गुणवचनेषु ।
6-2-25 श्रज्याऽवमकन्पापवत्सु भावे कर्मधारये ।
6-2-26 कुमारश्च ।
6-2-27 आदिः प्रत्येनसि ।
6-2-28 पूगेष्वन्यतरस्याम् ।
6-2-29 इगन्तकालकपालभगालशरावेषु द्विगौ ।
6-2-30 बह्वन्यतरस्याम् ।
6-2-31 दिष्टिवितस्त्योश्च ।
6-2-32 सप्तमी सिद्धशुष्कपक्वबन्धेष्वकालात्‌ ।
6-2-33 परिप्रत्युपापा वर्ज्यमानाहोरात्रावयवेषु ।
6-2-34 राजन्यबहुवचनद्वंद्वेऽन्धकवृष्णिषु ।
6-2-35 संख्या ।
6-2-36 आचार्योपसर्जनश्चान्तेवासी ।
6-2-37 कार्तकौजपादयश्च ।
6-2-38 महान् व्रीह्यपराह्णगृष्टीष्वासजाबाल\-
भारभारतहैलिहिलरौरवप्रवृद्धेषु ।
6-2-39 क्षुल्लकश्च वैश्वदेवे ।
6-2-40 उष्ट्रः सादिवाम्योः ।
6-2-41 गौः सादसादिसारथिषु ।
6-2-42 कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपा\-
पारेवडवातैतिलकद्रूःपण्यकम्बलो दासीभाराणां च ।
6-2-43 चतुर्थी तदर्थे ।
6-2-44 अर्थे ।
6-2-45 क्ते च ।
6-2-46 कर्मधारयेऽनिष्ठा ।
6-2-47 अहीने द्वितीया ।
6-2-48 तृतीया कर्मणि ।
6-2-49 गतिरनन्तरः ।
6-2-50 तादौ च निति कृत्यतौ ।
6-2-51 तवै चान्तश्च युगपत्‌ ।
6-2-52 अनिगन्तोऽञ्चतौ वप्रत्यये ।
6-2-53 न्यधी च ।
6-2-54 ईषदन्यतरस्याम् ।
6-2-55 हिरण्यपरिमाणं धने ।
6-2-56 प्रथमोऽचिरोपसम्पत्तौ ।
6-2-57 कतरकतमौ कर्मधारये ।
6-2-58 आर्यो ब्राह्मणकुमारयोः ।
6-2-59 राजा च ।
6-2-60 षष्ठी प्रत्येनसि ।
6-2-61 क्ते नित्यार्थे ।
6-2-62 ग्रामः शिल्पिनि ।
6-2-63 राजा च प्रशंसायाम् ।
6-2-64 आदिरुदात्तः ।
6-2-65 सप्तमीहारिणौ धर्म्येऽहरणे ।
6-2-66 युक्ते च ।
6-2-67 विभाषाऽध्यक्षे ।
6-2-68 पापं च शिल्पिनि ।
6-2-69 गोत्रान्तेवासिमाणवब्राह्मणेषु क्षेपे ।
6-2-70 अङ्गानि मैरेये ।
6-2-71 भक्ताख्यास्तदर्थेषु ।
6-2-72 गोबिडालसिंहसैन्धवेषूपमाने ।
6-2-73 अके जीविकाऽर्थे ।
6-2-74 प्राचां क्रीडायाम् ।
6-2-75 अणि नियुक्ते ।
6-2-76 शिल्पिनि चाकृञः ।
6-2-77 संज्ञायां च ।
6-2-78 गोतन्तियवं पाले ।
6-2-79 णिनि ।
6-2-80 उपमानं शब्दार्थप्रकृतावेव ।
6-2-81 युक्तारोह्यादयश्च ।
6-2-82 दीर्घकाशतुषभ्राष्ट्रवटं जे ।
6-2-83 अन्त्यात्‌ पूर्वं बह्वचः ।
6-2-84 ग्रामेऽनिवसन्तः ।
6-2-85 घोषादिषु ।
6-2-86 छात्र्यादयः शालायाम् ।
6-2-87 प्रस्थेऽवृद्धमकर्क्यादीनाम्‌ ।
6-2-88 मालाऽऽदीनां च ।
6-2-89 अमहन्नवं नगरेऽनुदीचाम् ।
6-2-90 अर्मे चावर्णं द्व्यच्त्र्यच् ।
6-2-91 न भूताधिकसंजीवमद्राश्मकज्जलम् ।
6-2-92 अन्तः ।
6-2-93 सर्वं गुणकार्त्स्न्ये ।
6-2-94 संज्ञायां गिरिनिकाययोः ।
6-2-95 कुमार्यां वयसि ।
6-2-96 उदकेऽकेवले ।
6-2-97 द्विगौ क्रतौ ।
6-2-98 सभायां नपुंसके ।
6-2-99 पुरे प्राचाम् ।
6-2-100 अरिष्टगौडपूर्वे च ।
6-2-101 न हास्तिनफलकमार्देयाः ।
6-2-102 कुसूलकूपकुम्भशालं बिले ।
6-2-103 दिक्‌शब्दा ग्रामजनपदाख्यानचानराटेषु ।
6-2-104 आचार्योपसर्जनश्चान्तेवासिनि ।
6-2-105 उत्तरपदवृद्धौ सर्वं च ।
6-2-106 बहुव्रीहौ विश्वं संज्ञयाम् ।
6-2-107 उदराश्वेषुषु ।
6-2-108 क्षेपे ।
6-2-109 नदी बन्धुनि ।
6-2-110 निष्ठोपसर्गपूर्वमन्यतरस्याम्‌ ।
6-2-111 उत्तरपदादिः ।
6-2-112 कर्णो वर्णलक्षणात्‌ ।
6-2-113 संज्ञौपम्ययोश्च ।
6-2-114 कण्ठपृष्ठग्रीवाजंघं च ।
6-2-115 शृङ्गमवस्थायां च ।
6-2-116 नञो जरमरमित्रमृताः ।
6-2-117 सोर्मनसी अलोमोषसी ।
6-2-118 क्रत्वादयश्च ।
6-2-119 आद्युदात्तं द्व्यच् छन्दसि ।
6-2-120 वीरवीर्यौ च ।
6-2-121 कूलतीरतूलमूलशालाऽक्षसममव्ययीभावे ।
6-2-122 कंसमन्थशूर्पपाय्यकाण्डं द्विगौ ।
6-2-123 तत्पुरुषे शालायां नपुंसके ।
6-2-124 कन्था च ।
6-2-125 आदिश्चिहणादीनाम् ।
6-2-126 चेलखेटकटुककाण्डं गर्हायाम् ।
6-2-127 चीरमुपमानम्‌ ।
6-2-128 पललसूपशाकं मिश्रे ।
6-2-129 कूलसूदस्थलकर्षाः संज्ञायाम् ।
6-2-130 अकर्मधारये राज्यम् ।
6-2-131 वर्ग्यादयश्च ।
6-2-132 पुत्रः पुंभ्यः ।
6-2-133 नाचार्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्यः ।
6-2-134 चूर्णादीन्यप्राणिषष्ठ्याः ।
6-2-135 षट् च काण्डादीनि ।
6-2-136 कुण्डं वनम् ।
6-2-137 प्रकृत्या भगालम् ।
6-2-138 शितेर्नित्याबह्वज्बहुव्रीहावभसत्‌ ।
6-2-139 गतिकारकोपपदात्‌ कृत्‌ ।
6-2-140 उभे वनस्पत्यादिषु युगपत्‌ ।
6-2-141 देवताद्वंद्वे च ।
6-2-142 नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु ।
6-2-143 अन्तः ।
6-2-144 थाथघञ्क्ताजबित्रकाणाम् ।
6-2-145 सूपमानात्‌ क्तः ।
6-2-146 संज्ञायामनाचितादीनाम्‌ ।
6-2-147 प्रवृद्धादीनां च ।
6-2-148 कारकाद्दत्तश्रुतयोरेवाशिषि ।
6-2-149 इत्थम्भूतेन कृतमिति च ।
6-2-150 अनो भावकर्मवचनः ।
6-2-151 मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः ।
6-2-152 सप्तम्याः पुण्यम् ।
6-2-153 ऊनार्थकलहं तृतीयायाः ।
6-2-154 मिश्रं चानुपसर्गमसंधौ ।
6-2-155 नञो गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थास्तद्धिताः ।
6-2-156 ययतोश्चातदर्थे ।
6-2-157 अच्कावशक्तौ ।
6-2-158 आक्रोशे च ।
6-2-159 संज्ञायाम् ।
6-2-160 कृत्योकेष्णुच्चार्वादयश्च ।
6-2-161 विभाषा तृन्नन्नतीक्ष्णशुचिषु ।
6-2-162 बहुव्रीहाविदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने ।
6-2-163 संख्यायाः स्तनः ।
6-2-164 विभाषा छन्दसि ।
6-2-165 संज्ञायां मित्राजिनयोः ।
6-2-166 व्यवायिनोऽन्तरम् ।
6-2-167 मुखं स्वाङ्गम् ।
6-2-168 नाव्ययदिक्‌शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः ।
6-2-169 निष्ठोपमानादन्यतरस्याम् ।
6-2-170 जातिकालसुखादिभ्योऽनाच्छादनात्‌
क्तोऽकृतमितप्रतिपन्नाः ।
6-2-171 वा जाते ।
6-2-172 नञ्सुभ्याम् ।
6-2-173 कपि पूर्वम् ।
6-2-174 ह्रस्वान्तेऽन्त्यात्‌ पूर्वम् ।
6-2-175 बहोर्नञ्वदुत्तरपदभूम्नि ।
6-2-176 न गुणादयोऽवयवाः ।
6-2-177 उपसर्गात्‌ स्वाङ्गं ध्रुवमपर्शु ।
6-2-178 वनं समासे ।
6-2-179 अन्तः ।
6-2-180 अन्तश्च ।
6-2-181 न निविभ्याम् ।
6-2-182 परेरभितोभाविमण्डलम् ।
6-2-183 प्रादस्वाङ्गं संज्ञायाम् ।
6-2-184 निरुदकादीनि च ।
6-2-185 अभेर्मुखम् ।
6-2-186 अपाच्च ।
6-2-187 स्फिगपूतवीणाऽञ्जोऽध्वकुक्षिसीरनामनाम च ।
6-2-188 अधेरुपरिस्थम् ।
6-2-189 अनोरप्रधानकनीयसी ।
6-2-190 पुरुषश्चान्वादिष्टः ।
6-2-191 अतेरकृत्पदे ।
6-2-192 नेरनिधाने ।
6-2-193 प्रतेरंश्वादयस्तत्पुरुषे ।
6-2-194 उपाद् द्व्यजजिनमगौरादयः ।
6-2-195 सोरवक्षेपणे ।
6-2-196 विभाषोत्पुच्छे ।
6-2-197 द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ ।
6-2-198 सक्थं चाक्रान्तात्‌ ।
6-2-199 परादिश्छन्दसि बहुलम् ।
6-3-1 अलुगुत्तरपदे ।
6-3-2 पञ्चम्याः स्तोकादिभ्यः ।
6-3-3 ओजःसहोऽम्भस्तमसः तृतीयायाः ।
6-3-4 मनसः संज्ञायाम् ।
6-3-5 आज्ञायिनि च ।
6-3-6 आत्मनश्च पूरणे ।
6-3-7 वैयाकरणाख्यायां चतुर्थ्याः ।
6-3-8 परस्य च ।
6-3-9 हलदन्तात्‌ सप्तम्याः संज्ञायाम् ।
6-3-10 कारनाम्नि च प्राचां हलादौ ।
6-3-11 मध्याद्गुरौ ।
6-3-12 अमूर्धमस्तकात्‌ स्वाङ्गादकामे ।
6-3-13 बन्धे च विभाषा ।
6-3-14 तत्पुरुषे कृति बहुलम् ।
6-3-15 प्रावृट्शरत्कालदिवां जे ।
6-3-16 विभाषा वर्षक्षरशरवरात्‌ ।
6-3-17 घकालतनेषु कालनाम्नः ।
6-3-18 शयवासवासिषु अकालात्‌ ।
6-3-19 नेन्सिद्धबध्नातिषु ।
6-3-20 स्थे च भाषायाम् ।
6-3-21 षष्ठ्या आक्रोशे ।
6-3-22 पुत्रेऽन्यतरस्याम् ।
6-3-23 ऋतो विद्यायोनिसम्बन्धेभ्यः ।
6-3-24 विभाषा स्वसृपत्योः ।
6-3-25 आनङ् ऋतो द्वंद्वे ।
6-3-26 देवताद्वंद्वे च ।
6-3-27 ईदग्नेः सोमवरुणयोः ।
6-3-28 इद्वृद्धौ ।
6-3-29 दिवो द्यावा ।
6-3-30 दिवसश्च पृथिव्याम् ।
6-3-31 उषासोषसः ।
6-3-32 मातरपितरावुदीचाम् ।
6-3-33 पितरामातरा च च्छन्दसि ।
6-3-34 स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे
स्त्रियामपूरणीप्रियाऽऽदिषु ।
6-3-35 तसिलादिषु आकृत्वसुचः ।
6-3-36 क्यङ्मानिनोश्च ।
6-3-37 न कोपधायाः ।
6-3-38 संज्ञापूरण्योश्च ।
6-3-39 वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे ।
6-3-40 स्वाङ्गाच्चेतोऽमानिनि ।
6-3-41 जातेश्च ।
6-3-42 पुंवत्‌ कर्मधारयजातीयदेशीयेषु ।
6-3-43 घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो
ह्रस्वः ।
6-3-44 नद्याः शेषस्यान्यतरस्याम् ।
6-3-45 उगितश्च ।
6-3-46 आन्महतः समानाधिकरणजातीययोः ।
6-3-47 द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः ।
6-3-48 त्रेस्त्रयः ।
6-3-49 विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् ।
6-3-50 हृदयस्य हृल्लेखयदण्लासेषु ।
6-3-51 वा शोकष्यञ्रोगेषु ।
6-3-52 पादस्य पदाज्यातिगोपहतेषु ।
6-3-53 पद् यत्यतदर्थे ।
6-3-54 हिमकाषिहतिषु च ।
6-3-55 ऋचः शे ।
6-3-56 वा घोषमिश्रशब्देषु ।
6-3-57 उदकस्योदः संज्ञायाम् ।
6-3-58 पेषंवासवाहनधिषु च ।
6-3-59 एकहलादौ पूरयितव्येऽन्यतरस्याम् ।
6-3-60 मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च ।
6-3-61 इको ह्रस्वोऽङ्यो गालवस्य ।
6-3-62 एक तद्धिते च ।
6-3-63 ङ्यापोः संज्ञाछन्दसोर्बहुलम् ।
6-3-64 त्वे च ।
6-3-65 इष्टकेषीकामालानां चिततूलभारिषु ।
6-3-66 खित्यनव्ययस्य ।
6-3-67 अरुर्द्विषदजन्तस्य मुम् ।
6-3-68 इच एकाचोऽम्प्रत्ययवच्च ।
6-3-69 वाचंयमपुरंदरौ च ।
6-3-70 कारे सत्यागदस्य ।
6-3-71 श्येनतिलस्य पाते ञे ।
6-3-72 रात्रेः कृति विभाषा ।
6-3-73 नलोपो नञः ।
6-3-74 तस्मान्नुडचि ।
6-3-75 नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या ।
6-3-76 एकादिश्चैकस्य चादुक् ।
6-3-77 नगोऽप्राणिष्वन्यतरस्याम् ।
6-3-78 सहस्य सः संज्ञायाम् ।
6-3-79 ग्रन्थान्ताधिके च ।
6-3-80 द्वितीये चानुपाख्ये ।
6-3-81 अव्ययीभावे चाकाले ।
6-3-82 वोपसर्जनस्य ।
6-3-83 प्रकृत्याऽऽशिष्यगोवत्सहलेषु ।
6-3-84 समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु ।
6-3-85 ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्ण\-
वयोवचनबन्धुषु ।
6-3-86 चरणे ब्रह्मचारिणि ।
6-3-87 तीर्थे ये ।
6-3-88 विभाषोदरे ।
6-3-89 दृग्दृशवतुषु ।
6-3-90 इदङ्किमोरीश्की ।
6-3-91 आ सर्वनाम्नः ।
6-3-92 विष्वग्देवयोश्च टेरद्र्यञ्चतौ वप्रत्यये ।
6-3-93 समः समि ।
6-3-94 तिरसस्तिर्यलोपे ।
6-3-95 सहस्य सध्रिः ।
6-3-96 सध मादस्थयोश्छन्दसि ।
6-3-97 द्व्यन्तरुपसर्गेभ्योऽप ईत्‌ ।
6-3-98 ऊदनोर्देशे ।
6-3-99 अषष्ठ्यतृतीयास्थस्यान्यस्य
दुगाशिराशाऽऽस्थाऽऽस्थितोत्सुकोतिकारकरागच्छेषु ।
6-3-100 अर्थे विभाषा ।
6-3-101 कोः कत्‌ तत्पुरुषेऽचि ।
6-3-102 रथवदयोश्च ।
6-3-103 तृणे च जातौ ।
6-3-104 का पथ्यक्षयोः ।
6-3-105 ईषदर्थे ।
6-3-106 विभाषा पुरुषे ।
6-3-107 कवं चोष्णे ।
6-3-108 पथि च च्छन्दसि ।
6-3-109 पृषोदरादीनि यथोपदिष्टम् ।
6-3-110 संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ ।
6-3-111 ढ्रलोपे पूर्वस्य दीर्घोऽणः ।
6-3-112 सहिवहोरोदवर्णस्य ।
6-3-113 साढ्यै साढ्वा साढेति निगमे ।
6-3-114 संहितायाम् ।
6-3-115 कर्णे लक्षणस्याविष्टाष्टपञ्चमणिभिन्न\-
छिन्नछिद्रस्रुवस्वस्तिकस्य ।
6-3-116 नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ ।
6-3-117 वनगिर्योः संज्ञायां कोटरकिंशुलकादीनाम् ।
6-3-118 वले ।
6-3-119 मतौ बह्वचोऽनजिरादीनाम् ।
6-3-120 शरादीनां च ।
6-3-121 इकः वहे अपीलोः ।
6-3-122 उपसर्गस्य घञ्यमनुष्ये बहुलम् ।
6-3-123 इकः काशे ।
6-3-124 दस्ति ।
6-3-125 अष्टनः संज्ञायाम् ।
6-3-126 छन्दसि च ।
6-3-127 चितेः कपि ।
6-3-128 विश्वस्य वसुराटोः ।
6-3-129 नरे संज्ञायाम् ।
6-3-130 मित्रे चर्षौ ।
6-3-131 मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ ।
6-3-132 ओषधेश्च विभक्तावप्रथमायाम् ।
6-3-133 ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम् ।
6-3-134 इकः सुञि ।
6-3-135 द्व्यचोऽतस्तिङः ।
6-3-136 निपातस्य च ।
6-3-137 अन्येषामपि दृश्यते ।
6-3-138 चौ ।
6-3-139 सम्प्रसारणस्य ।
6-4-1 अङ्गस्य ।
6-4-2 हलः ।
6-4-3 नामि ।
6-4-4 न तिसृचतसृ ।
6-4-5 छन्दस्युभयथा ।
6-4-6 नृ च ।
6-4-7 नोपधायाः ।
6-4-8 सर्वनामस्थाने चासम्बुद्धौ ।
6-4-9 वा षपूर्वस्य निगमे ।
6-4-10 सान्तमहतः संयोगस्य ।
6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् ।
6-4-12 इन्हन्पूषार्यम्णां शौ ।
6-4-13 सौ च ।
6-4-14 अत्वसन्तस्य चाधातोः ।
6-4-15 अनुनासिकस्य क्विझलोः क्ङिति ।
6-4-16 अज्झनगमां सनि ।
6-4-17 तनोतेर्विभाषा ।
6-4-18 क्रमश्च क्त्वि ।
6-4-19 च्छ्वोः शूडनुनासिके च ।
6-4-20 ज्वरत्वरश्रिव्यविमवामुपधायाश्च ।
6-4-21 राल्लोपः ।
6-4-22 असिद्धवदत्राभात्‌ ।
6-4-23 श्नान्नलोपः ।
6-4-24 अनिदितां हल उपधायाः क्ङिति ।
6-4-25 दन्शसञ्जस्वञ्जां शपि ।
6-4-26 रञ्जेश्च ।
6-4-27 घञि च भावकरणयोः ।
6-4-28 स्यदो जवे ।
6-4-29 अवोदैधौद्मप्रश्रथहिमश्रथाः ।
6-4-30 नाञ्चेः पूजायाम् ।
6-4-31 क्त्वि स्कन्दिस्यन्दोः ।
6-4-32 जान्तनशां विभाषा ।
6-4-33 भञ्जेश्च चिणि ।
6-4-34 शास इदङ्हलोः ।
6-4-35 शा हौ ।
6-4-36 हन्तेर्जः ।
6-4-37 अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति ।
6-4-38 वा ल्यपि ।
6-4-39 न क्तिचि दीर्घश्च ।
6-4-40 गमः क्वौ ।
6-4-41 विड्वनोरनुनासिकस्यात्‌ ।
6-4-42 जनसनखनां सञ्झलोः ।
6-4-43 ये विभाषा ।
6-4-44 तनोतेर्यकि ।
6-4-45 सनः क्तिचि लोपश्चास्यान्यतरस्याम् ।
6-4-46 आर्धधातुके ।
6-4-47 भ्रस्जो रोपधयोः रमन्यतरस्याम्‌ ।
6-4-48 अतो लोपः ।
6-4-49 यस्य हलः ।
6-4-50 क्यस्य विभाषा ।
6-4-51 णेरनिटि ।
6-4-52 निष्ठायां सेटि ।
6-4-53 जनिता मन्त्रे ।
6-4-54 शमिता यज्ञे ।
6-4-55 अयामन्ताल्वाय्येत्न्विष्णुषु ।
6-4-56 ल्यपि लघुपूर्वात्‌ ।
6-4-57 विभाषाऽऽपः ।
6-4-58 युप्लुवोर्दीर्घश्छन्दसि ।
6-4-59 क्षियः ।
6-4-60 निष्ठायां अण्यदर्थे ।
6-4-61 वाऽऽक्रोशदैन्ययोः ।
6-4-62 स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च ।
6-4-63 दीङो युडचि क्ङिति ।
6-4-64 आतो लोप इटि च ।
6-4-65 ईद्यति ।
6-4-66 घुमास्थागापाजहातिसां हलि ।
6-4-67 एर्लिङि ।
6-4-68 वाऽन्यस्य संयोगादेः ।
6-4-69 न ल्यपि ।
6-4-70 मयतेरिदन्यतरस्याम् ।
6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः ।
6-4-72 आडजादीनाम् ।
6-4-73 छन्दस्यपि दृश्यते ।
6-4-74 न माङ्योगे ।
6-4-75 बहुलं छन्दस्यमाङ्योगेऽपि ।
6-4-76 इरयो रे ।
6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ ।
6-4-78 अभ्यासस्यासवर्णे ।
6-4-79 स्त्रियाः ।
6-4-80 वाऽम्शसोः ।
6-4-81 इणो यण् ।
6-4-82 एरनेकाचोऽसंयोगपूर्वस्य ।
6-4-83 ओः सुपि ।
6-4-84 वर्षाभ्वश्च ।
6-4-85 न भूसुधियोः ।
6-4-86 छन्दस्युभयथा ।
6-4-87 हुश्नुवोः सार्वधातुके ।
6-4-88 भुवो वुग्लुङ्लिटोः ।
6-4-89 ऊदुपधाया गोहः ।
6-4-90 दोषो णौ ।
6-4-91 वा चित्तविरागे ।
6-4-92 मितां ह्रस्वः ।
6-4-93 चिण्णमुलोर्दीर्घोऽन्यतरस्याम् ।
6-4-94 खचि ह्रस्वः ।
6-4-95 ह्लादो निष्ठायाम् ।
6-4-96 छादेर्घेऽद्व्युपसर्गस्य ।
6-4-97 इस्मन्त्रन्क्विषु च ।
6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि ।
6-4-99 तनिपत्योश्छन्दसि ।
6-4-100 घसिभसोर्हलि च ।
6-4-101 हुझल्भ्यो हेर्धिः ।
6-4-102 श्रुशृणुपॄकृवृभ्यश्छन्दसि ।
6-4-103 अङितश्च ।
6-4-104 चिणो लुक् ।
6-4-105 अतो हेः ।
6-4-106 उतश्च प्रत्ययादसंयोगपूर्वात्‌ ।
6-4-107 लोपश्चास्यान्यतरस्यां म्वोः ।
6-4-108 नित्यं करोतेः ।
6-4-109 ये च ।
6-4-110 अत उत्‌ सार्वधातुके ।
6-4-111 श्नसोरल्लोपः ।
6-4-112 श्नाऽभ्यस्तयोरातः ।
6-4-113 ई हल्यघोः ।
6-4-114 इद्दरिद्रस्य ।
6-4-115 भियोऽन्यतरस्याम् ।
6-4-116 जहातेश्च ।
6-4-117 आ च हौ ।
6-4-118 लोपो यि ।
6-4-119 घ्वसोरेद्धावभ्यासलोपश्च ।
6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि ।
6-4-121 थलि च सेटि ।
6-4-122 तॄफलभजत्रपश्च ।
6-4-123 राधो हिंसायाम् ।
6-4-124 वा जॄभ्रमुत्रसाम् ।
6-4-125 फणां च सप्तानाम् ।
6-4-126 न शसददवादिगुणानाम् ।
6-4-127 अर्वणस्त्रसावनञः ।
6-4-128 मघवा बहुलम् ।
6-4-129 भस्य ।
6-4-130 पादः पत् ।
6-4-131 वसोः सम्प्रसारणम् ।
6-4-132 वाह ऊठ् ।
6-4-133 श्वयुवमघोनामतद्धिते ।
6-4-134 अल्लोपोऽनः ।
6-4-135 षपूर्वहन्धृतराज्ञामणि ।
6-4-136 विभाषा ङिश्योः ।
6-4-137 न संयोगाद्वमान्तात्‌ ।
6-4-138 अचः ।
6-4-139 उद ईत्‌ ।
6-4-140 आतो धातोः ।
6-4-141 मन्त्रेष्वाङ्यादेरात्मनः ।
6-4-142 ति विंशतेर्डिति ।
6-4-143 टेः ।
6-4-144 नस्तद्धिते ।
6-4-145 अह्नष्टखोरेव ।
6-4-146 ओर्गुणः ।
6-4-147 ढे लोपोऽकद्र्वाः ।
6-4-148 यस्येति च ।
6-4-149 सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः ।
6-4-150 हलस्तद्धितस्य ।
6-4-151 आपत्यस्य च तद्धितेऽनाति ।
6-4-152 क्यच्व्योश्च ।
6-4-153 बिल्वकादिभ्यश्छस्य लुक् ।
6-4-154 तुरिष्ठेमेयस्सु ।
6-4-155 टेः ।
6-4-156 स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य
च गुणः ।
6-4-157 प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घ\-
वृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः ।
6-4-158 बहोर्लोपो भू च बहोः ।
6-4-159 इष्ठस्य यिट् च ।
6-4-160 ज्यादादीयसः ।
6-4-161 र ऋतो हलादेर्लघोः ।
6-4-162 विभाषर्जोश्छन्दसि ।
6-4-163 प्रकृत्यैकाच् ।
6-4-164 इनण्यनपत्ये ।
6-4-165 गाथिविदथिकेशिगणिपणिनश्च ।
6-4-166 संयोगादिश्च ।
6-4-167 अन् ।
6-4-168 ये चाभावकर्मणोः ।
6-4-169 आत्माध्वानौ खे ।
6-4-170 न मपूर्वोऽपत्येऽवर्मणः ।
6-4-171 ब्राह्मोअजातौ ।
6-4-172 कार्मस्ताच्छील्ये ।
6-4-173 औक्षमनपत्ये ।
6-4-174 दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेय\-
वाशिनायनिभ्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि ।
6-4-175 ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि च्छन्दसि ।
\मेद्स्किप्\ह्रुले\मेद्स्किप्
7-1-1 युवोरनाकौ ।
7-1-2 आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌ ।
7-1-3 झोऽन्तः ।
7-1-4 अदभ्यस्तात्‌ ।
7-1-5 आत्मनेपदेष्वनतः ।
7-1-6 शीङो रुट् ।
7-1-7 वेत्तेर्विभाषा ।
7-1-8 बहुलं छन्दसि ।
7-1-9 अतो भिस ऐस् ।
7-1-10 बहुलं छन्दसि ।
7-1-11 नेदमदसोरकोः ।
7-1-12 टाङसिङसामिनात्स्याः ।
7-1-13 ङेर्यः ।
7-1-14 सर्वनाम्नः स्मै ।
7-1-15 ङसिङ्योः स्मात्स्मिनौ ।
7-1-16 पूर्वादिभ्यो नवभ्यो वा ।
7-1-17 जसः शी ।
7-1-18 औङ आपः ।
7-1-19 नपुंसकाच्च ।
7-1-20 जश्शसोः शिः ।
7-1-21 अष्टाभ्य औश् ।
7-1-22 षड्भ्यो लुक् ।
7-1-23 स्वमोर्नपुंसकात्‌ ।
7-1-24 अतोऽम् ।
7-1-25 अद्ड् डतरादिभ्यः पञ्चभ्यः ।
7-1-26 नेतराच्छन्दसि ।
7-1-27 युष्मदस्मद्भ्यां ङसोऽश् ।
7-1-28 ङे प्रथमयोरम् ।
7-1-29 शसो न ।
7-1-30 भ्यसो भ्यम् ।
7-1-31 पञ्चम्या अत्‌ ।
7-1-32 एकवचनस्य च ।
7-1-33 साम आकम् ।
7-1-34 आत औ णलः ।
7-1-35 तुह्योस्तातङाशिष्यन्यतरस्याम् ।
7-1-36 विदेः शतुर्वसुः ।
7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ ।
7-1-38 क्त्वाऽपि छन्दसि ।
7-1-39 सुपां सुलुक्पूर्वसवर्णाऽऽच्छेयाडाड्यायाजालः ।
7-1-40 अमो मश् ।
7-1-41 लोपस्त आत्मनेपदेषु ।
7-1-42 ध्वमो ध्वात्‌ ।
7-1-43 यजध्वैनमिति च ।
7-1-44 तस्य तात्‌ ।
7-1-45 तप्तनप्तनथनाश्च ।
7-1-46 इदन्तो मसि ।
7-1-47 क्त्वो यक् ।
7-1-48 इष्ट्वीनमिति च ।
7-1-49 स्नात्व्यादयश्च ।
7-1-50 आज्जसेरसुक् ।
7-1-51 अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि ।
7-1-52 आमि सर्वनाम्नः सुट् ।
7-1-53 त्रेस्त्रयः ।
7-1-54 ह्रस्वनद्यापो नुट् ।
7-1-55 षट्चतुर्भ्यश्च ।
7-1-56 श्रीग्रामण्योश्छन्दसि ।
7-1-57 गोः पादान्ते ।
7-1-58 इदितो नुम् धातोः ।

7-1-59 शे मुचादीनाम् ।
7-1-60 मस्जिनशोर्झलि ।
7-1-61 रधिजभोरचि ।
7-1-62 नेट्यलिटि रधेः ।
7-1-63 रभेरशब्लिटोः ।
7-1-64 लभेश्च ।
7-1-65 आङो यि ।
7-1-66 उपात्‌ प्रशंसायाम् ।
7-1-67 उपसर्गात्‌ खल्घञोः ।
7-1-68 न सुदुर्भ्यां केवलाभ्याम् ।
7-1-69 विभाषा चिण्णमुलोः ।
7-1-70 उगिदचां सर्वनामस्थानेऽधातोः ।
7-1-71 युजेरसमासे ।
7-1-72 नपुंसकस्य झलचः ।
7-1-73 इकोऽचि विभक्तौ ।
7-1-74 तृतीयाऽऽदिषु भाषितपुंस्कं पुंवद्गालवस्य ।
7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः ।
7-1-76 छन्दस्यपि दृश्यते ।
7-1-77 ई च द्विवचने ।
7-1-78 नाभ्यस्ताच्छतुः ।
7-1-79 वा नपुंसकस्य ।
7-1-80 आच्छीनद्योर्नुम् ।
7-1-81 शप्श्यनोर्नित्यम् ।
7-1-82 सावनडुहः ।
7-1-83 दृक्स्ववस्स्वतवसां छन्दसि ।
7-1-84 दिव औत्‌ ।
7-1-85 पथिमथ्यृभुक्षामात्‌ ।
7-1-86 इतोऽत्‌ सर्वनामस्थाने ।
7-1-87 थो न्थः ।
7-1-88 भस्य टेर्लोपः ।
7-1-89 पुंसोऽसुङ् ।
7-1-90 गोतो णित्‌ ।
7-1-91 णलुत्तमो वा ।
7-1-92 सख्युरसम्बुद्धौ ।
7-1-93 अनङ् सौ ।
7-1-94 ऋदुशनस्पुरुदंसोऽनेहसां च ।
7-1-95 तृज्वत्‌ क्रोष्टुः ।
7-1-96 स्त्रियां च ।
7-1-97 विभाषा तृतीयाऽऽदिष्वचि ।
7-1-98 चतुरनडुहोरामुदात्तः ।
7-1-99 अम् सम्बुद्धौ ।
7-1-100 ॠत इद्धातोः ।
7-1-101 उपधायाश्च ।
7-1-102 उदोष्ठ्यपूर्वस्य ।
7-1-103 बहुलं छन्दसि ।
7-2-1 सिचि वृद्धिः परस्मैपदेषु ।
7-2-2 अतो र्लान्तस्य ।
7-2-3 वदव्रजहलन्तस्याचः ।
7-2-4 नेटि ।
7-2-5 ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् ।
7-2-6 ऊर्णोतेर्विभाषा ।
7-2-7 अतो हलादेर्लघोः ।
7-2-8 नेड् वशि कृति ।
7-2-9 तितुत्रतथसिसुसरकसेषु च ।
7-2-10 एकाच उपदेशेऽनुदात्तात्‌ ।
7-2-11 श्र्युकः किति ।
7-2-12 सनि ग्रहगुहोश्च ।
7-2-13 कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि ।
7-2-14 श्वीदितो निष्ठायाम् ।
7-2-15 यस्य विभाषा ।
7-2-16 आदितश्च ।
7-2-17 विभाषा भावादिकर्मणोः ।
7-2-18 क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि
मन्थमनस्तमःसक्ताविस्पष्टस्वरानायासभृशेषु ।
7-2-19 धृषिशसी वैयात्ये ।
7-2-20 दृढः स्थूलबलयोः ।
7-2-21 प्रभौ परिवृढः ।
7-2-22 कृच्छ्रगहनयोः कषः ।
7-2-23 घुषिरविशब्दने ।
7-2-24 अर्देः संनिविभ्यः ।
7-2-25 अभेश्चाविदूर्ये ।
7-2-26 णेरध्ययने वृत्तम् ।
7-2-27 वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः ।
7-2-28 रुष्यमत्वरसंघुषास्वनाम् ।
7-2-29 हृषेर्लोमसु ।
7-2-30 अपचितश्च ।
7-2-31 ह्रु ह्वरेश्छन्दसि ।
7-2-32 अपरिह्वृताश्च ।
7-2-33 सोमे ह्वरितः ।
7-2-34 ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्तविशस्तॄ\-
शंस्तृशास्तृतरुतृतरूतृवरुतृवरूतृवरुत्रीरुज्ज्वलितिक्षरिति\-
क्षमितिवमित्यमितीति च ।
7-2-35 आर्धधातुकस्येड् वलादेः ।
7-2-36 स्नुक्रमोरनात्मनेपदनिमित्ते ।
7-2-37 ग्रहोऽलिटि दीर्घः ।
7-2-38 वॄतो वा ।
7-2-39 न लिङि ।
7-2-40 सिचि च परस्मैपदेषु ।
7-2-41 इट् सनि वा ।
7-2-42 लिङ्सिचोरात्मनेपदेषु ।
7-2-43 ऋतश्च संयोगादेः ।
7-2-44 स्वरतिसूतिसूयतिधूञूदितो वा ।
7-2-45 रधादिभ्यश्च ।
7-2-46 निरः कुषः ।
7-2-47 इण्निष्ठायाम् ।
7-2-48 तीषसहलुभरुषरिषः ।
7-2-49 सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् ।
7-2-50 क्लिशः क्त्वानिष्ठयोः ।
7-2-51 पूङश्च ।
7-2-52 वसतिक्षुधोरिट् ।
7-2-53 अञ्चेः पूजायाम् ।
7-2-54 लुभो विमोचने ।
7-2-55 जॄव्रश्च्योः क्त्वि ।
7-2-56 उदितो वा ।
7-2-57 सेऽसिचि कृतचृतच्छृदतृदनृतः ।
7-2-58 गमेरिट् परस्मैपदेषु ।
7-2-59 न वृद्भ्यश्चतुर्भ्यः ।
7-2-60 तासि च कपः ।
7-2-61 अचस्तास्वत्‌ थल्यनिटो नित्यम् ।
7-2-62 उपदेशेऽत्वतः ।
7-2-63 ऋतो भारद्वाजस्य ।
7-2-64 बभूथाततन्थजगृम्भववर्थेति निगमे ।
7-2-65 विभाषा सृजिदृषोः ।
7-2-66 इडत्त्यर्तिव्ययतीनाम् ।
7-2-67 वस्वेकाजाद्घसाम् ।
7-2-68 विभाषा गमहनविदविशाम् ।
7-2-69 सनिंससनिवांसम् ।
7-2-70 ऋद्धनोः स्ये ।
7-2-71 अञ्जेः सिचि ।
7-2-72 स्तुसुधूञ्भ्यः परस्मैपदेषु ।
7-2-73 यमरमनमातां सक् च ।
7-2-74 स्मिपूङ्रञ्ज्वशां सनि ।
7-2-75 किरश्च पञ्चभ्यः ।
7-2-76 रुदादिभ्यः सार्वधातुके ।
7-2-77 ईशः से ।
7-2-78 ईडजनोर्ध्वे च ।
7-2-79 लिङः सलोपोऽनन्त्यस्य ।
7-2-80 अतो येयः ।
7-2-81 आतो ङितः ।
7-2-82 आने मुक् ।
7-2-83 ईदासः ।
7-2-84 अष्टन आ विभक्तौ ।
7-2-85 रायो हलि ।
7-2-86 युष्मदस्मदोरनादेशे ।
7-2-87 द्वितीयायां च ।
7-2-88 प्रथमायाश्च द्विवचने भाषायाम् ।
7-2-89 योऽचि ।
7-2-90 शेषे लोपः ।
7-2-91 मपर्यन्तस्य ।
7-2-92 युवावौ द्विवचने ।
7-2-93 यूयवयौ जसि ।
7-2-94 त्वाहौ सौ ।
7-2-95 तुभ्यमह्यौ ङयि ।
7-2-96 तवममौ ङसि ।
7-2-97 त्वमावेकवचने ।
7-2-98 प्रत्ययोत्तरपदयोश्च ।
7-2-99 त्रिचतुरोः स्त्रियां तिसृचतसृ ।
7-2-100 अचि र ऋतः ।
7-2-101 जराया जरसन्यतरस्याम् ।
7-2-102 त्यदादीनामः ।
7-2-103 किमः कः ।
7-2-104 कु तिहोः ।
7-2-105 क्वाति ।
7-2-106 तदोः सः सावनन्त्ययोः ।
7-2-107 अदस औ सुलोपश्च ।
7-2-108 इदमो मः ।
7-2-109 दश्च ।
7-2-110 यः सौ ।
7-2-111 इदोऽय् पुंसि ।
7-2-112 अनाप्यकः ।
7-2-113 हलि लोपः ।
7-2-114 मृजेर्वृद्धिः ।
7-2-115 अचो ञ्णिति ।
7-2-116 अत उपधायाः ।
7-2-117 तद्धितेष्वचामादेः ।
7-2-118 किति च ।
7-3-1 देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात्‌ ।
7-3-2 केकयमित्त्रयुप्रलयानां यादेरियः ।
7-3-3 न य्वाभ्यां पदान्ताभ्याम् पूर्वौ तु ताभ्यामैच् ।
7-3-4 द्वारादीनां च ।
7-3-5 न्यग्रोधस्य च केवलस्य ।
7-3-6 न कर्मव्यतिहारे ।
7-3-7 स्वागतादीनां च ।
7-3-8 श्वादेरिञि ।
7-3-9 पदान्तस्यान्यतरस्याम् ।
7-3-10 उत्तरपदस्य ।
7-3-11 अवयवादृतोः ।
7-3-12 सुसर्वार्धाज्जनपदस्य ।
7-3-13 दिशोऽमद्राणाम् ।
7-3-14 प्राचां ग्रामनगराणाम् ।
7-3-15 संख्यायाः संवत्सरसंख्यस्य च ।
7-3-16 वर्षस्याभविष्यति ।
7-3-17 परिमाणान्तस्यासंज्ञाशाणयोः ।
7-3-18 जे प्रोष्ठपदानाम् ।
7-3-19 हृद्भगसिन्ध्वन्ते पूर्वपदस्य च ।
7-3-20 अनुशतिकादीनां च ।
7-3-21 देवताद्वंद्वे च ।
7-3-22 नेन्द्रस्य परस्य ।
7-3-23 दीर्घाच्च वरुणस्य ।
7-3-24 प्राचां नगरान्ते ।
7-3-25 जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम्‌ ।
7-3-26 अर्धात्‌ परिमाणस्य पूर्वस्य तु वा ।
7-3-27 नातः परस्य ।
7-3-28 प्रवाहणस्य ढे ।
7-3-29 तत्प्रत्ययस्य च ।
7-3-30 नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् ।
7-3-31 यथातथयथापुरयोः पर्यायेण ।
7-3-32 हनस्तोऽचिण्णलोः ।
7-3-33 आतो युक् चिण्कृतोः ।
7-3-34 नोदात्तोपदेशस्य मान्तस्यानाचमेः ।
7-3-35 जनिवध्योश्च ।
7-3-36 अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ ।
7-3-37 शाच्छासाह्वाव्यावेपां युक् ।
7-3-38 वो विधूनने जुक् ।
7-3-39 लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने ।
7-3-40 भियो हेतुभये षुक् ।
7-3-41 स्फायो वः ।
7-3-42 शदेरगतौ तः ।
7-3-43 रुहः पोऽन्यतरस्याम् ।
7-3-44 प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः ।
7-3-45 न यासयोः ।
7-3-46 उदीचामातः स्थाने यकपूर्वायाः ।
7-3-47 भस्त्रैषाऽजाज्ञाद्वास्वानञ्पूर्वाणामपि ।
7-3-48 अभाषितपुंस्काच्च ।
7-3-49 आदाचार्याणाम् ।
7-3-50 ठस्येकः ।
7-3-51 इसुसुक्तान्तात्‌ कः ।
7-3-52 चजोः कु घिन्ण्यतोः ।
7-3-53 न्यङ्क्वादीनां च ।
7-3-54 हो हन्तेर्ञ्णिन्नेषु ।
7-3-55 अभ्यासाच्च ।
7-3-56 हेरचङि ।
7-3-57 सन्लिटोर्जेः ।
7-3-58 विभाषा चेः ।
7-3-59 न क्वादेः ।
7-3-60 अजिवृज्योश्च ।
7-3-61 भुजन्युब्जौ पाण्युपतापयोः ।
7-3-62 प्रयाजानुयाजौ यज्ञाङ्गे ।
7-3-63 वञ्चेर्गतौ ।
7-3-64 ओक उचः के ।
7-3-65 ण्य आवश्यके ।
7-3-66 यजयाचरुचप्रवचर्चश्च ।
7-3-67 वचोऽशब्दसंज्ञायाम् ।
7-3-68 प्रयोज्यनियोज्यौ शक्यार्थे ।
7-3-69 भोज्यं भक्ष्ये ।
7-3-70 घोर्लोपो लेटि वा ।
7-3-71 ओतः श्यनि ।
7-3-72 क्सस्याचि ।
7-3-73 लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये ।
7-3-74 शमामष्टानां दीर्घः श्यनि ।
7-3-75 ष्ठिवुक्लम्याचमां शिति ।
7-3-76 क्रमः परस्मैपदेषु ।
7-3-77 इषुगमियमां छः ।
7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां
पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः ।
7-3-79 ज्ञाजनोर्जा ।
7-3-80 प्वादीनां ह्रस्वः ।
7-3-81 मीनातेर्निगमे ।
7-3-82 मिदेर्गुणः ।
7-3-83 जुसि च ।
7-3-84 सार्वधातुकार्धधातुकयोः ।
7-3-85 जाग्रोऽविचिण्णल्ङित्सु ।
7-3-86 पुगन्तलघूपधस्य च ।
7-3-87 नाभ्यस्तस्याचि पिति सार्वधातुके ।
7-3-88 भूसुवोस्तिङि ।
7-3-89 उतो वृद्धिर्लुकि हलि ।
7-3-90 ऊर्णोतेर्विभाषा ।
7-3-91 गुणोऽपृक्ते ।
7-3-92 तृणह इम् ।
7-3-93 ब्रुव ईट् ।
7-3-94 यङो वा ।
7-3-95 तुरुस्तुशम्यमः सार्वधातुके ।
7-3-96 अस्तिसिचोऽपृक्ते ।
7-3-97 बहुलं छन्दसि ।
7-3-98 रुदश्च पञ्चभ्यः ।
7-3-99 अड्गार्ग्यगालवयोः ।
7-3-100 अदः सर्वेषाम् ।
7-3-101 अतो दीर्घो यञि ।
7-3-102 सुपि च ।
7-3-103 बहुवचने झल्येत्‌ ।
7-3-104 ओसि च ।
7-3-105 आङि चापः ।
7-3-106 सम्बुद्धौ च ।
7-3-107 अम्बाऽर्थनद्योर्ह्रस्वः ।
7-3-108 ह्रस्वस्य गुणः ।
7-3-109 जसि च ।
7-3-110 ऋतो ङिसर्वनामस्थानयोः ।
7-3-111 घेर्ङिति ।
7-3-112 आण्नद्याः ।
7-3-113 याडापः ।
7-3-114 सर्वनाम्नः स्याड्ढ्रस्वश्च ।
7-3-115 विभाषा द्वितीयातृतीयाभ्याम् ।
7-3-116 ङेराम्नद्याम्नीभ्यः ।
7-3-117 इदुद्भ्याम् ।
7-3-118 औत्‌ ।
7-3-119 अच्च घेः ।
7-3-120 आङो नाऽस्त्रियाम् ।
7-4-1 णौ चङ्युपधाया ह्रस्वः ।
7-4-2 नाग्लोपिशास्वृदिताम् ।
7-4-3 भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम्‌ ।
7-4-4 लोपः पिबतेरीच्चाभ्यासस्य ।
7-4-5 तिष्ठतेरित्‌ ।
7-4-6 जिघ्रतेर्वा ।
7-4-7 उरृत्‌ ।
7-4-8 नित्यं छन्दसि ।
7-4-9 दयतेर्दिगि लिटि ।
7-4-10 ऋतश्च संयोगादेर्गुणः ।
7-4-11 ऋच्छत्यॄताम् ।
7-4-12 शृदॄप्रां ह्रस्वो वा ।
7-4-13 केऽणः ।
7-4-14 न कपि ।
7-4-15 आपोऽन्यतरस्याम् ।
7-4-16 ऋदृशोऽङि गुणः ।
7-4-17 अस्यतेस्थुक् ।
7-4-18 श्वयतेरः ।
7-4-19 पतः पुम् ।
7-4-20 वच उम् ।
7-4-21 शीङः सार्वधातुके गुणः ।
7-4-22 अयङ् यि क्ङिति ।
7-4-23 उपसर्गाद्ध्रस्व ऊहतेः ।
7-4-24 एतेर्लिङि ।
7-4-25 अकृत्सार्वधातुकयोर्दीर्घः ।
7-4-26 च्वौ च ।
7-4-27 रीङ् ऋतः ।
7-4-28 रिङ् शयग्लिङ्क्षु ।
7-4-29 गुणोऽर्तिसंयोगाद्योः ।
7-4-30 यङि च ।
7-4-31 ई घ्राध्मोः ।
7-4-32 अस्य च्वौ ।
7-4-33 क्यचि च ।
7-4-34 अशनायोदन्यधनाया बुभुक्षापिपासागर्द्धेषु ।
7-4-35 न च्छन्दस्यपुत्रस्य ।
7-4-36 दुरस्युर्द्रविणस्युर्वृषण्यतिरिषण्यति ।
7-4-37 अश्वाघस्यात्‌ ।
7-4-38 देवसुम्नयोर्यजुषि काठके ।
7-4-39 कव्यध्वरपृतनस्यर्चि लोपः ।
7-4-40 द्यतिस्यतिमास्थामित्ति किति ।
7-4-41 शाछोरन्यतरस्याम् ।
7-4-42 दधातेर्हिः ।
7-4-43 जहातेश्च क्त्वि ।
7-4-44 विभाषा छन्दसि ।
7-4-45 सुधितवसुधितनेमधितधिष्वधिषीय च ।
7-4-46 दो दद् घोः ।
7-4-47 अच उपसर्गात्तः ।
7-4-48 अपो भि ।
7-4-49 सः स्यार्द्धधातुके ।
7-4-50 तासस्त्योर्लोपः ।
7-4-51 रि च ।
7-4-52 ह एति ।
7-4-53 यीवर्णयोर्दीधीवेव्योः ।
7-4-54 सनि मीमाघुरभलभशकपतपदामच इस् ।
7-4-55 आप्ज्ञप्यृधामीत्‌ ।
7-4-56 दम्भ इच्च ।
7-4-57 मुचोऽकर्मकस्य गुणो वा ।
7-4-58 अत्र लोपोऽभ्यासस्य ।
7-4-59 ह्रस्वः ।
7-4-60 हलादिः शेषः ।
7-4-61 शर्पूर्वाः खयः ।
7-4-62 कुहोश्चुः ।
7-4-63 न कवतेर्यङि ।
7-4-64 कृषेश्छन्दसि ।
7-4-65
दाधर्तिदर्धर्तिदर्धर्षिबोभूतुतेतिक्तेऽलर्ष्यापनीफणत्\-
संसनिष्यदत्करिक्रत्कनिक्रदद्भरिभ्रद्दविध्वतोदविद्युतत्\-
तरित्रतःसरीसृपतंवरीवृजन्मर्मृज्यागनीगन्तीति च ।
7-4-66 उरत्‌ ।
7-4-67 द्युतिस्वाप्योः सम्प्रसारणम् ।
7-4-68 व्यथो लिटि ।
7-4-69 दीर्घ इणः किति ।
7-4-70 अत आदेः ।
7-4-71 तस्मान्नुड् द्विहलः ।
7-4-72 अश्नोतेश्च ।
7-4-73 भवतेरः ।
7-4-74 ससूवेति निगमे ।
7-4-75 निजां त्रयाणां गुणः श्लौ ।
7-4-76 भृञामित्‌ ।
7-4-77 अर्तिपिपर्त्योश्च ।
7-4-78 बहुलं छन्दसि ।
7-4-79 सन्यतः ।
7-4-80 ओः पुयण्ज्यपरे ।
7-4-81 स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा ।
7-4-82 गुणो यङ्लुकोः ।
7-4-83 दीर्घोऽकितः ।
7-4-84 नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् ।
7-4-85 नुगतोऽनुनासिकान्तस्य ।
7-4-86 जपजभदहदशभञ्जपशां च ।
7-4-87 चरफलोश्च ।
7-4-88 उत्‌ परस्यातः ।
7-4-89 ति च ।
7-4-90 रीगृदुपधस्य च ।
7-4-91 रुग्रिकौ च लुकि ।
7-4-92 ऋतश्च ।
7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे ।
7-4-94 दीर्घो लघोः ।
7-4-95 अत्‌ स्मृदृत्वरप्रथम्रदस्तॄस्पशाम् ।
7-4-96 विभाषा वेष्टिचेष्ट्योः ।
7-4-97 ई च गणः ।
\मेद्स्किप्\ह्रुले\मेद्स्किप्
8-1-1 सर्वस्य द्वे ।
8-1-2 तस्य परमाम्रेडितम्‌ ।
8-1-3 अनुदात्तं च ।
8-1-4 नित्यवीप्सयोः ।
8-1-5 परेर्वर्जने ।
8-1-6 प्रसमुपोदः पादपूरणे ।
8-1-7 उपर्यध्यधसः सामीप्ये ।
8-1-8 वाक्यादेरामन्त्रितस्यासूयासम्मतिकोपकुत्सनभर्त्सनेषु ।
8-1-9 एकं बहुव्रीहिवत्‌ ।
8-1-10 आबाधे च ।
8-1-11 कर्मधारयवत्‌ उत्तरेषु ।
8-1-12 प्रकारे गुणवचनस्य ।
8-1-13 अकृच्छ्रे प्रियसुखयोरन्यतरस्याम् ।
8-1-14 यथास्वे यथायथम् ।
8-1-15 द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमण\-
यज्ञपात्रप्रयोगाभिव्यक्तिषु ।
8-1-16 पदस्य ।
8-1-17 पदात्‌ ।
8-1-18 अनुदात्तं सर्वमपादादौ ।
8-1-19 आमन्त्रितस्य च ।
8-1-20 युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ ।
8-1-21 बहुवचने वस्नसौ ।
8-1-22 तेमयावेकवचनस्य ।
8-1-23 त्वामौ द्वितीयायाः ।
8-1-24 न चवाहाहैवयुक्ते ।
8-1-25 पश्यार्थैश्चानालोचने ।
8-1-26 सपूर्वायाः प्रथमाया विभाषा ।
8-1-27 तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः ।
8-1-28 तिङ्ङतिङः ।
8-1-29 न लुट् ।
8-1-30 निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्तम् ।
8-1-31 नह प्रत्यारम्भे ।
8-1-32 सत्यं प्रश्ने ।
8-1-33 अङ्गाप्रातिलोम्ये ।
8-1-34 हि च ।
8-1-35 छन्दस्यनेकमपि साकाङ्क्षम्‌ ।
8-1-36 यावद्यथाभ्याम् ।
8-1-37 पूजायां नानन्तरम् ।
8-1-38 उपसर्गव्यपेतं च ।
8-1-39 तुपश्यपश्यताहैः पूजायाम् ।
8-1-40 अहो च ।
8-1-41 शेषे विभाषा ।
8-1-42 पुरा च परीप्सायाम् ।
8-1-43 नन्वित्यनुज्ञैषणायाम् ।
8-1-44 किं क्रियाप्रश्नेऽनुपसर्गमप्रतिषिद्धम्‌ ।
8-1-45 लोपे विभाषा ।
8-1-46 एहिमन्ये प्रहासे लृट् ।
8-1-47 जात्वपूर्वम् ।
8-1-48 किम्वृत्तं च चिदुत्तरम् ।
8-1-49 आहो उताहो चानन्तरम् ।
8-1-50 शेषे विभाषा ।
8-1-51 गत्यर्थलोटा लृण्न चेत्‌ कारकं सर्वान्यत्‌ ।
8-1-52 लोट् च ।
8-1-53 विभाषितं सोपसर्गमनुत्तमम्‌ ।
8-1-54 हन्त च ।
8-1-55 आम एकान्तरमामन्त्रितमनन्तिके ।
8-1-56 यद्धितुपरं छन्दसि ।
8-1-57 चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः ।
8-1-58 चादिषु च ।
8-1-59 चवायोगे प्रथमा ।
8-1-60 हेति क्षियायाम् ।
8-1-61 अहेति विनियोगे च ।
8-1-62 चाहलोप एवेत्यवधारणम् ।
8-1-63 चादिलोपे विभाषा ।
8-1-64 वैवावेति च च्छन्दसि ।
8-1-65 एकान्याभ्यां समर्थाभ्याम् ।
8-1-66 यद्वृत्तान्नित्यं ।
8-1-67 पूजनात्‌ पूजितमनुदात्तम् ##(##काष्ठादिभ्यः##)## ।
8-1-68 सगतिरपि तिङ् ।
8-1-69 कुत्सने च सुप्यगोत्रादौ ।
8-1-70 गतिर्गतौ ।
8-1-71 तिङि चोदात्तवति ।
8-1-72 आमन्त्रितं पूर्वम् अविद्यमानवत्‌ ।
8-1-73 नामन्त्रिते समानाधिकरणे सामान्यवचनम् ।
8-1-74 विभाषितं विशेषवचने बहुवचनम् ।
8-2-1 पूर्वत्रासिद्धम् ।
8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति ।
8-2-3 न मु ने ।
8-2-4 उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य ।
8-2-5 एकादेश उदात्तेनोदात्तः ।
8-2-6 स्वरितो वाऽनुदात्ते पदादौ ।
8-2-7 नलोपः प्रातिपदिकान्तस्य ।
8-2-8 न ङिसम्बुद्ध्योः ।
8-2-9 मादुपधायाश्च मतोर्वोऽयवादिभ्यः ।
8-2-10 झयः ।
8-2-11 संज्ञायाम् ।
8-2-12 आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्रुमण्वच्चर्मण्वती ।
8-2-13 उदन्वानुदधौ च ।
8-2-14 राजन्वान् सौराज्ये ।
8-2-15 छन्दसीरः ।
8-2-16 अनो नुट् ।
8-2-17 नाद्घस्य ।
8-2-18 कृपो रो लः ।
8-2-19 उपसर्गस्यायतौ ।
8-2-20 ग्रो यङि ।
8-2-21 अचि विभाषा ।
8-2-22 परेश्च घाङ्कयोः ।
8-2-23 संयोगान्तस्य लोपः ।
8-2-24 रात्‌ सस्य ।
8-2-25 धि च ।
8-2-26 झलो झलि ।
8-2-27 ह्रस्वादङ्गात्‌ ।
8-2-28 इट ईटि ।
8-2-29 स्कोः संयोगाद्योरन्ते च ।
8-2-30 चोः कुः ।
8-2-31 हो ढः ।
8-2-32 दादेर्धातोर्घः ।
8-2-33 वा द्रुहमुहष्णुहष्णिहाम् ।
8-2-34 नहो धः ।
8-2-35 आहस्थः ।
8-2-36 व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः ।
8-2-37 एकाचो बशो भष् झषन्तस्य स्ध्वोः ।
8-2-38 दधस्तथोश्च ।
8-2-39 झलां जशोऽन्ते ।
8-2-40 झषस्तथोर्धोऽधः ।
8-2-41 षढोः कः सि ।
8-2-42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः ।
8-2-43 संयोगादेरातो धातोर्यण्वतः ।
8-2-44 ल्वादिभ्यः ।
8-2-45 ओदितश्च ।
8-2-46 क्षियो दीर्घात्‌ ।
8-2-47 श्योऽस्पर्शे ।
8-2-48 अञ्चोऽनपादाने ।
8-2-49 दिवोऽविजिगीषायाम् ।
8-2-50 निर्वाणोऽवाते ।
8-2-51 शुषः कः ।
8-2-52 पचो वः ।
8-2-53 क्षायो मः ।
8-2-54 प्रस्त्योऽन्यतरस्याम् ।
8-2-55 अनुपसर्गात्‌ फुल्लक्षीबकृशोल्लाघाः ।
8-2-56 नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम् ।
8-2-57 न ध्याख्यापॄमूर्छिमदाम् ।
8-2-58 वित्तो भोगप्रत्यययोः ।
8-2-59 भित्तं शकलम् ।
8-2-60 ऋणमाधमर्ण्ये ।
8-2-61 नसत्तनिषत्तानुत्तप्रतूर्तसूर्तगूर्तानि छन्दसि ।
8-2-62 क्विन्प्रत्ययस्य कुः ।
8-2-63 नशेर्वा ।
8-2-64 मो नो धातोः ।
8-2-65 म्वोश्च ।
8-2-66 ससजुषो रुः ।
8-2-67 अवयाःश्वेतवाःपुरोडाश्च ।
8-2-68 अहन् ।
8-2-69 रोऽसुपि ।
8-2-70 अम्नरूधरवरित्युभयथा छन्दसि ।
8-2-71 भुवश्च महाव्याहृतेः ।
8-2-72 वसुस्रंसुध्वंस्वनडुहां दः ।
8-2-73 तिप्यनस्तेः ।
8-2-74 सिपि धातो रुर्वा ।
8-2-75 दश्च ।
8-2-76 र्वोरुपधाया दीर्घ इकः ।
8-2-77 हलि च ।
8-2-78 उपधायां च ।
8-2-79 न भकुर्छुराम् ।
8-2-80 अदसोऽसेर्दादु दो मः ।
8-2-81 एत ईद्बहुवचने ।
8-2-82 वाक्यस्य टेः प्लुत उदात्तः ।
8-2-83 प्रत्यभिवादेअशूद्रे ।
8-2-84 दूराद्धूते च ।
8-2-85 हैहेप्रयोगे हैहयोः ।
8-2-86 गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् ।
8-2-87 ओमभ्यादाने ।
8-2-88 ये यज्ञकर्मणि ।
8-2-89 प्रणवष्टेः ।
8-2-90 याज्याऽन्तः ।
8-2-91 ब्रूहिप्रेस्यश्रौषड्वौषडावहानामादेः ।
8-2-92 अग्नीत्प्रेषणे परस्य च ।
8-2-93 विभाषा पृष्टप्रतिवचने हेः ।
8-2-94 निगृह्यानुयोगे च ।
8-2-95 आम्रेडितं भर्त्सने ।
8-2-96 अङ्गयुक्तं तिङ् आकाङ्क्षम् ।
8-2-97 विचार्यमाणानाम् ।
8-2-98 पूर्वं तु भाषायाम् ।
8-2-99 प्रतिश्रवणे च ।
8-2-100 अनुदात्तं प्रश्नान्ताभिपूजितयोः ।
8-2-101 चिदिति चोपमाऽर्थे प्रयुज्यमाने ।
8-2-102 उपरिस्विदासीदिति च ।
8-2-103 स्वरितमाम्रेडितेऽसूयासम्मतिकोपकुत्सनेषु ।
8-2-104 क्षियाऽऽशीःप्रैषेषु तिङ् आकाङ्क्षम् ।
8-2-105 अनन्त्यस्यापि प्रश्नाख्यानयोः ।
8-2-106 प्लुतावैच इदुतौ ।
8-2-107 एचोऽप्रगृह्यस्यादूराद्धूते
पूर्वस्यार्धस्यादुत्तरस्येदुतौ ।
8-2-108 तयोर्य्वावचि संहितायाम् ।
8-3-1 मतुवसो रु सम्बुद्धौ छन्दसि ।
8-3-2 अत्रानुनासिकः पूर्वस्य तु वा ।
8-3-3 आतोऽटि नित्यम् ।
8-3-4 अनुनासिकात्‌ परोऽनुस्वारः ।
8-3-5 समः सुटि ।
8-3-6 पुमः खय्यम्परे ।
8-3-7 नश्छव्यप्रशान् ।
8-3-8 उभयथर्क्षु ।
8-3-9 दीर्घादटि समानपदे ।
8-3-10 नॄन् पे ।
8-3-11 स्वतवान् पायौ ।
8-3-12 कानाम्रेडिते ।
8-3-13 ढो ढे लोपः ।
8-3-14 रो रि ।
8-3-15 खरवसानयोर्विसर्जनीयः ।
8-3-16 रोः सुपि ।
8-3-17 भोभगोअघोअपूर्वस्य योऽशि ।
8-3-18 व्योर्लघुप्रयत्नतरः शाकटायनस्य ।
8-3-19 लोपः शाकल्यस्य ।
8-3-20 ओतो गार्ग्यस्य ।
8-3-21 उञि च पदे ।
8-3-22 हलि सर्वेषाम् ।
8-3-23 मोऽनुस्वारः ।
8-3-24 नश्चापदान्तस्य झलि ।
8-3-25 मो राजि समः क्वौ ।
8-3-26 हे मपरे वा ।
8-3-27 नपरे नः ।
8-3-28 ङ्णोः कुक्टुक् शरि ।
8-3-29 डः सि धुट् ।
8-3-30 नश्च ।
8-3-31 शि तुक् ।
8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् ।
8-3-33 मय उञो वो वा ।
8-3-34 विसर्जनीयस्य सः ।
8-3-35 शर्परे विसर्जनीयः ।
8-3-36 वा शरि ।
8-3-37 कुप्वोः ≍क≍पौ च ।
8-3-38 सोऽपदादौ ।
8-3-39 इणः षः ।
8-3-40 नमस्पुरसोर्गत्योः ।
8-3-41 इदुदुपधस्य चाप्रत्ययस्य ।
8-3-42 तिरसोऽन्यतरस्याम् ।
8-3-43 द्विस्त्रिश्चतुरिति कृत्वोऽर्थे ।
8-3-44 इसुसोः सामर्थ्ये ।
8-3-45 नित्यं समासेऽनुत्तरपदस्थस्य ।
8-3-46 अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य ।
8-3-47 अधःशिरसी पदे ।
8-3-48 कस्कादिषु च ।
8-3-49 छन्दसि वाऽप्राम्रेडितयोः ।
8-3-50 कःकरत्करतिकृधिकृतेष्वनदितेः ।
8-3-51 पञ्चम्याः परावध्यर्थे ।
8-3-52 पातौ च बहुलम् ।
8-3-53 षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु ।
8-3-54 इडाया वा ।
8-3-55 अपदान्तस्य मूर्धन्यः ।
8-3-56 सहेः साडः सः ।
8-3-57 इण्कोः ।
8-3-58 नुम्विसर्जनीयशर्व्यवायेऽपि ।
8-3-59 आदेशप्रत्यययोः ।
8-3-60 शासिवसिघसीनां च ।
8-3-61 स्तौतिण्योरेव षण्यभ्यासात्‌ ।
8-3-62 सः स्विदिस्वदिसहीनां च ।
8-3-63 प्राक्सितादड्व्यवायेऽपि ।
8-3-64 स्थाऽऽदिष्वभ्यासेन चाभ्यासय ।
8-3-65 उपसर्गात्‌ सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनय\-
सेधसिचसञ्जस्वञ्जाम् ।
8-3-66 सदिरप्रतेः ।
8-3-67 स्तम्भेः ।
8-3-68 अवाच्चालम्बनाविदूर्ययोः ।
8-3-69 वेश्च स्वनो भोजने ।
8-3-70 परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् ।
8-3-71 सिवादीनां वाऽड्व्यवायेऽपि ।
8-3-72 अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु ।
8-3-73 वेः स्कन्देरनिष्ठायाम् ।
8-3-74 परेश्च ।
8-3-75 परिस्कन्दः प्राच्यभरतेषु ।
8-3-76 स्फुरतिस्फुलत्योर्निर्निविभ्यः ।
8-3-77 वेः स्कभ्नातेर्नित्यम् ।
8-3-78 इणः षीध्वंलुङ्‌लिटां धोऽङ्गात्‌ ।
8-3-79 विभाषेटः ।
8-3-80 समासेऽङ्गुलेः सङ्गः ।
8-3-81 भीरोः स्थानम् ।
8-3-82 अग्नेः स्तुत्स्तोमसोमाः ।
8-3-83 ज्योतिरायुषः स्तोमः ।
8-3-84 मातृपितृभ्यां स्वसा ।
8-3-85 मातुःपितुर्भ्यामन्यतरस्याम्‌ ।
8-3-86 अभिनिसः स्तनः शब्दसंज्ञायाम् ।
8-3-87 उपसर्गप्रादुर्भ्यामस्तिर्यच्परः ।
8-3-88 सुविनिर्दुर्भ्यः सुपिसूतिसमाः ।
8-3-89 निनदीभ्यां स्नातेः कौशले ।
8-3-90 सूत्रं प्रतिष्णातम्‌ ।
8-3-91 कपिष्ठलो गोत्रे ।
8-3-92 प्रष्ठोऽग्रगामिनि ।
8-3-93 वृक्षासनयोर्विष्टरः ।
8-3-94 छन्दोनाम्नि च ।
8-3-95 गवियुधिभ्यां स्थिरः ।
8-3-96 विकुशमिपरिभ्यः स्थलम् ।
8-3-97 अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्क्वङ्गुमञ्जि\-
पुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः ।
8-3-98 सुषामादिषु च ।
8-3-99 ऐति संज्ञायामगात्‌ ।
8-3-100 नक्षत्राद्वा ।
8-3-101 ह्रस्वात्‌ तादौ तद्धिते ।
8-3-102 निसस्तपतावनासेवने ।
8-3-103 युष्मत्तत्ततक्षुःष्वन्तःपादम् ।
8-3-104 यजुष्येकेषाम् ।
8-3-105 स्तुतस्तोमयोश्छन्दसि ।
8-3-106 पूर्वपदात्‌ ।
8-3-107 सुञः ।
8-3-108 सनोतेरनः ।
8-3-109 सहेः पृतनर्ताभ्यां च ।
8-3-110 न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम् ।
8-3-111 सात्पदाद्योः ।
8-3-112 सिचो यङि ।
8-3-113 सेधतेर्गतौ ।
8-3-114 प्रतिस्तब्धनिस्तब्धौ च ।
8-3-115 सोढः ।
8-3-116 स्तम्भुसिवुसहां चङि ।
8-3-117 सुनोतेः स्यसनोः ।
8-3-118 सदिष्वञ्जोः परस्य लिटि ।
8-3-119 निव्यभिभ्योऽड्व्यावये वा छन्दसि ।
8-4-1 रषाभ्यां नो णः समानपदे ।
8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि ।
8-4-3 पूर्वपदात्‌ संज्ञायामगः ।
8-4-4 वनं पुरगामिश्रकासिध्रकाशारिकाकोटराऽग्रेभ्यः ।
8-4-5 प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिर\-
पियूक्षाभ्योऽसंज्ञायामपि ।
8-4-6 विभाषौषधिवनस्पतिभ्यः ।
8-4-7 अह्नोऽदन्तात्‌ ।
8-4-8 वाहनमाहितात्‌ ।
8-4-9 पानं देशे ।
8-4-10 वा भावकरणयोः ।
8-4-11 प्रातिपदिकान्तनुम्विभक्तिषु च ।
8-4-12 एकाजुत्तरपदे णः ।
8-4-13 कुमति च ।
8-4-14 उपसर्गादसमासेऽपि णोपदेशस्य ।
8-4-15 हिनुमीना ।
8-4-16 आनि लोट् ।
8-4-17 नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्साति\-
वपतिवहतिशाम्यतिचिनोतिदेग्धिषु च ।
8-4-18 शेषे विभाषाऽकखादावषान्त उपदेशे ।
8-4-19 अनितेः ।
8-4-20 अन्तः ।
8-4-21 उभौ साभ्यासस्य ।
8-4-22 हन्तेरत्पूर्वस्य ।
8-4-23 वमोर्वा ।
8-4-24 अन्तरदेशे ।
8-4-25 अयनं च ।
8-4-26 छन्दस्यृदवग्रहात्‌ ।
8-4-27 नश्च धातुस्थोरुषुभ्यः ।
8-4-28 उपसर्गाद् बहुलम् ।
8-4-29 कृत्यचः ।
8-4-30 णेर्विभाषा ।
8-4-31 हलश्च इजुपधात्‌ ।
8-4-32 इजादेः सनुमः ।
8-4-33 वा निंसनिक्षनिन्दाम् ।
8-4-34 न भाभूपूकमिगमिप्यायीवेपाम् ।
8-4-35 षात्‌ पदान्तात्‌ ।
8-4-36 नशेः षान्तस्य ।
8-4-37 पदान्तस्य ।
8-4-38 पदव्यवायेऽपि ।
8-4-39 क्षुभ्नाऽऽदिषु च ।
8-4-40 स्तोः श्चुना श्चुः ।
8-4-41 ष्टुना ष्टुः ।
8-4-42 न पदान्ताट्टोरनाम् ।
8-4-43 तोः षि ।
8-4-44 शात्‌ ।
8-4-45 यरोऽनुनासिकेऽनुनासिको वा ।
8-4-46 अचो रहाभ्यां द्वे ।
8-4-47 अनचि च ।
8-4-48 नादिन्याक्रोशे पुत्रस्य ।
8-4-49 शरोऽचि ।
8-4-50 त्रिप्रभृतिषु शाकटायनस्य ।
8-4-51 सर्वत्र शाकल्यस्य ।
8-4-52 दीर्घादाचार्याणाम् ।
8-4-53 झलां जश् झशि ।
8-4-54 अभ्यासे चर्च्च ।
8-4-55 खरि च ।
8-4-56 वाऽवसाने ।
8-4-57 अणोऽप्रगृह्यस्यानुनासिकः ।
8-4-58 अनुस्वारस्य ययि परसवर्णः ।
8-4-59 वा पदान्तस्य ।
8-4-60 तोर्लि ।
8-4-61 उदः स्थास्तम्भोः पूर्वस्य ।
8-4-62 झयो होऽन्यतरस्याम् ।
8-4-63 शश्छोऽटि ।
8-4-64 हलो यमां यमि लोपः ।
8-4-65 झरो झरि सवर्णे ।
8-4-66 उदात्तादनुदात्तस्य स्वरितः ।
8-4-67 नोदात्तस्वरितोदयमगार्ग्यकाश्यपगालवानाम्‌ ।
8-4-68 अ अ इति ।


Leave a comment

Your email address will not be published.

Recent Posts

March 2024
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics