Table of Contents

<<7-3-82 —- 7-3-84>>

7-3-83 जुसि च

प्रथमावृत्तिः

TBD.

काशिका

जुसि च प्रत्यये परतः इगन्तस्य अङ्गस्य गुणो भवति। अजुहवुः। अबिभयुः। अबिभरुः। अथ चिनुयुः, सुनुयुः इत्यत्र कस्मान् न भवति? अत्र हि द्वे ङित्त्वे, सार्वधातुकाश्रयम्, यासुडाश्रयं च। तत्र न अप्राप्ते सार्वधातुकाश्रयङित्त्वनिमित्ते प्रतिषेधे जुसि गुणः आरभ्यमाणः तम् एव बाधते। यासुडाश्रयङित्त्वनिमित्तं तु न बाधते, तत्र हि प्राप्ते च अप्राप्ते च आरभ्यते इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

611 इगन्ताङ्गस्य गुणोऽजादौ जुसि. अजुहवुः. जुहुयात्. हूयात्. अहौषीत्. अहोष्यत्.. ञिभी भये.. 2.. बिभेति..

बालमनोरमा

311 जुसि च। अङ्गस्येत्यधिकृतम्। `मिदेर्गुण' इत्यतो गुण इत्यनुवर्तते। `इको गुणवृद्धी' इति परिभाषया `इक' इत्युपस्थितेन अङ्गस्य विशेषणात्तदन्तविधिः। `क्सस्याची'इत्यतोऽनुवृत्तेन अचीत्यनेन जुसीत्यस्य विशेषणात्तदादिविधिः। तदाह- - अजादावित्यादिना। अजगरुरिति। अजागः अजागृतम् अजागृत। अजागरम् अजागृव अजागृम। विधिलिङि यासुटो ङित्त्वान्न गुणः। जागृयात् जागृयताम्। जागृयुरिति। `जुसि चे'त्यत्र अजादावित्युक्तेर्न गुण इति भावः। जागृधातोर्लुङि सिचि इटि यणादिप्राप्तिक्रमं दर्शयति– जागृ इसित्यत्रेति। तत्र कृते इति। `जाग्रोऽविचिण्ण'लिति गुणे रपरत्वे कृते अजागर् ईदिति स्थिते सतीत्यर्थः। तदाहुरिति। `वृद्धा' इति शेषः। अजागरिष्टाम् अजागरिषुरित्यादि सुगमम्। दरिद्राधातुरादन्तः सेट्। दुर्गतिः = धनहीनीभवनम्। दारिद्रातीति। धनहीनीभवतीत्यर्थः।

तत्त्वबोधिनी

271 जुसि च। चकारः स्पष्टप्रतिपत्त्यर्थः। `क्सस्याची'त्यतोऽत्यतोऽचीत्यनुवर्तत इत्याह– अजादाविति। जागृयुरिति। एवं श्रृणुयुः चिनुयुरित्यादावपि गुणो नेति बोध्यम्। `यासुटो ङित्तवाच्छृणुयुरित्यादौ गुणो ने'ति प्राचोक्तिस्तु मनोरमायां दूषिता, `जुसि चे'ति गुणस्य निषेधापवादत्वादिति। केचित्तु–`जुसि चे'त्यत्र उसीत्यावर्त्त्य `उरुआऊपे जुसी'ति व्याख्यानान्नोक्तदोष इत्याहुः। `अजादौ जुसी'ति समाधानं तु भाष्यारूढम्। जागर्तेः सिच इटि कृते यणादिप्राप्तिक्रमं दर्शयति- - जागृ- इसित्यत्रेति।तत्र कृते इति। हलन्तलक्षणाया वृद्धेर्जागर्तिगुणेन बाधः, तेन गुणेनहलन्तत्वसंपादनात्। या हि गुणप्रवृत्तिसमये वृद्धिः सा बाध्यते नान्येति भावः। अजागरिष्टाम्। अजागरिषुः। अजागरीदित्यादि। दरिद्रा।

Satishji's सूत्र-सूचिः

402) जुसि च 7-3-83
वृत्तिः इगन्‍ताङ्गस्‍य गुणोऽजादौ जुसि । There is a गुण: substitute for the (ending letter of an) अङ्गम् ending in a letter of the इक्-प्रत्याहारः, when followed by the affix जुस् which begins with a vowel.

उदाहरणम् – अजुहवुः (√हु, जुहोत्यादि-गणः, हु दानादनयोः । आदाने चेत्येके । प्रीणनेऽपीति भाष्यम्, धातु-पाठः #३. १) लँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।

हु + लँङ् 3-2-111 = हु + ल् 1-3-2, 1-3-3
= हु + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108, झि gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= हु + जुस् 3-4-109 = हु + उस् 1-3-7, 1-3-4
= हु + शप् + उस् 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= हु + उस् 2-4-75 = हु + हु + उस् 6-1-10
= झु + हु + उस् 7-4-62, 1-1-50
= झुहो + उस् 7-3-83
= झुहवुस् 6-1-78
= अट् झुहवुस् 6-4-71, 1-1-46
= अझुहवुस् 1-3-3
= अझुहवुः 8-2-66, 8-3-15
= अजुहवुः 8-4-54, 1-1-50