Table of Contents

<<7-4-61 —- 7-4-63>>

7-4-62 कुहोश् चुः

प्रथमावृत्तिः

TBD.

काशिका

अभ्यासस्य कवर्गहकारयोः चवर्गादेशो भवति। चकार। चखान। जगाम। जघान। हकारस्य जहार। जिहीर्षति। जहौ।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

456 अभ्यासकवर्गहकारयोश्चवर्गादेशः..

बालमनोरमा

91 एवं च –कृ कृ ए इति स्थिते– कुहोश्चुः। कु ह् इत्यनयोद्र्वन्द्वात्षष्ठीद्विचवनम्। `अत्र लोपोऽभ्यासस्ये'त्यतोऽभ्यासस्येत्यनुवर्तते। तदाह–अभ्यासेति। यद्यपि स्थानिनां कवर्गीयाणां हकारस्य च षट्?त्वात्, चवर्गीयाणां पञ्चत्वान्न यथासङ्ख्यं, नापि स्थानत आन्तर्यं, कण्ठतालुस्थानभेदात्। आभ्यन्तरप्रयत्नसाम्यं तु कवर्गचवर्गयोरविशिष्टम्। हकारचवर्गयोस्तु नास्त्येव तत्, अतो बाह्रप्रयत्नत एवान्तर्यमिह व्यवस्थापकमाश्रयणीयम्। तत्र प्रथमस्य कवर्गीयस्य पर्थम एव चवर्गीयो भवति, अघोष\उfffदाआसविवाराऽल्पप्राणप्रयत्नसाम्यात्, न तु द्वितीयः, महाप्राणत्वात्। नापि तृतीय पञ्चमौ, घोषसंवारनादप्रयत्नत्वात्। नापि चतुर्थः,घोषसंवारनादमहाप्राणप्रयत्नत्वात्। तथा द्वितीयस्य कवर्गीयस्य द्वितीय एव चवर्गीयो भवति, अघोष\उfffदाआसविवाराऽप्रामप्रयत्नत्वात्, न तु प्रथमः, अल्पप्राणत्वात्। नापि तृतीयपञ्चमौ, घोषसंवारनादाल्पप्राणप्रयत्नत्वात्। नापि चतुर्थःष घोषसंवारनादप्रयत्नत्वात्। तथा तृतीयस्य कवर्गीयस्य तृतीय एव चवर्गीयो भवति। घोषसंवारनादाल्पप्राणप्रयत्नत्वात्। न तु प्रथमः, अघोष\उfffदाआसविवारप्रयत्नत्वात्। अत एव न द्वितीयोऽपि, महाप्रामप्रयत्नत्वाच्च। नापि चतुर्थः महाप्राणत्वात्। नापि पञ्चमः, घोषसंवारनादाल्प्राणसाम्येऽपि अनुनासिकतया भेदात्। तथा चतुर्थस्य कवर्गीयस्य चतुर्थ एव चवर्गीयो भवति, घोषसंवारनादमहाप्राणप्रयत्नत्वात्। न तु प्रथमः, अघोष\उfffदाआसविवाराल्पप्राणप्रयत्नत्वात्। नापि द्वितीयः, अघोषविवार\उfffदाआसप्रयत्नत्वात्। नापि तृतीयपञ्चमौ, अल्पप्राणत्वात्। पञ्चमस्य तु कवर्गीयस्य अनुनासिकत्वाञ्ञकार एव। हकारस्य तु घोषसंवारनादमहाप्राणवतस्तादृशो वर्गचतुर्थ एव झकार इति विवेकः। प्रकृते तु क कृ ए इति स्थिते अभ्यासककारस्य चकारे ऋकारस्य यणि रेफः। तदाह–एधांचक्र इति। एककर्तृका भूतानद्यतनपरोक्षा वृद्धिरूपा कियेत्यर्थ-। एधांचक्राते इति। कृञो लिट आतामि टेरेत्वम्। `द्वर्वचनेऽची'ति यणि निषिद्धे `कृ' इत्यस्य द्वित्वे उरदत्वम्। हलादिः शेषः। चत्र्वम्। यण्। न च आतामित्यस्य द्वित्वनिमित्तत्वेऽपि आकारस्याऽचो द्वित्वनिमित्तत्वाऽभावात्कथमिह `द्वर्वचनेऽची'ति यण्?निषेध इति वाच्यं, साक्षाद्वा, समुदायघटकतया वा द्वित्वप्रयोजकस्यैव द्वित्वनिमित्तशब्देन विवक्षितत्वादिति भावः। एधांचक्रिर इति। झस्य इरेच्। कृ इत्यस्य द्वित्वादि पूर्ववत्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

399) कुहोश्चुः 7-4-62
वृत्तिः अभ्‍यासकवर्गहकारयोश्‍चवर्गादेशः । In a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः । The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः।

(क्, ख्, ग्, घ्, ङ्, ह्) are replaced by (च्, छ्, ज्, झ्, ञ्, झ्) respectively.

उदाहरणम् – continued from above

हु + हु + ति = झु + हु + ति 7-4-62, 1-1-50
= झु + हो + ति 7-3-84, 3-4-113

continued below