Table of Contents

<<1-1-49 —- 1-1-51>>

1-1-50 स्थाने ऽन्तरतमः

प्रथमावृत्तिः

TBD.

काशिका

स्थाने प्राप्यमाणानाम् अन्तरतम् आदेशो भवति सदृशतमः। कुतश्च शब्दस्य अन्तर्यम्? स्थानार्थगुणप्रमाणतः। स्थानतः अकः सवर्णे दीर्घः 6-1-101। दण्डाग्रम्। यूपाग्रम्। द्वयोरकारयोः कण्ठ्य एव दीर्घ आकारो भवति। अर्थतः वतण्डी च असौ युवतिश्च वातण्ड्ययुवतिः। पुंवद्भावेन अन्तरतमः पुंशब्दो ऽतिदिश्यते। गुणतःपाकः। त्यागः। रागः। चजोः कु घिण्यतोः 7-3-52 इति चकारस्य अल्पप्राणस्य अघोषस्य तादृश एव ककारो भवति। जकारस्य घोषवतो ऽल्पप्राणस्य तादृश एव गकारः। प्रमाणतः अनुष्मै। अमूभ्याम्। अदसो ऽसेर् दादु दो मः 8-2-80 इति ह्रस्वस्य ह्रस्वः, दीर्घस्य दीर्घः। स्थाने इति वर्तमाने पुनः स्थाने ग्रहणं किम्? यत्र अनेकम् आन्तर्यं सम्भवति तत्र स्थानत एव आन्तर्यं बलीयो यथा स्यात्। चेता, स्तोता। प्रमाणतो ऽकारो गुणः प्राप्तः, तत्र स्थानत आन्तर्यादेकारौकारौ भवतः। तम्ब्ग्रहणं किम्? वाग् घसति। त्रिष्टुब् भसति। झयो हो ऽन्यतरस्याम् 8-4-62 इति हकारस्य पूर्वसवर्णे क्रियमाणे सोष्मणः सोष्माणः इति द्वितीयाः प्रसक्ताः, नादवतो नादवन्तः इति तृतीयाः, तमब्ग्रहणाद् ये सोष्माणो नादवन्तश्च ते भवन्ति चतुर्थाः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

17 प्रसङ्गे सति सदृशतम आदेशः स्यात्. सुध्य् उपास्य इति जाते..

बालमनोरमा

41 स्थानेऽन्तरतमः। `स्थानं प्रसङ्ग' इत्युक्तम्। अन्तरशब्दोऽत्र सदृशपर्यायः, अतिशयतोऽन्तरोऽन्तरतमः। तदाह–प्रसङ्गे सतीत्यादिना। एकस्य स्थानिनोऽनेकादेशप्रसङ्गे सति यः स्थानार्थगुणप्रमाणतः स्थानिना सदृशतमः स एवादेशो भवतीत्यर्थः। अत्र स्थानशब्देन ताल्वादिस्थानं विवक्षितम्। गुणशब्देन प्रयत्नः। प्रमाणशब्देन एकद्विमात्रादिपरिमाणम्। तत्र स्थानतो यथा–दध्यत्र। तालुस्थानकस्य इकारस्य तालुस्थानको यकारः। अर्थतो यथा–तृज्वत्क्रोष्टुरिति क्रोष्टुशब्दस्य उकारान्तस्य तृजन्त आदेशो भवन्नर्थसाम्यात् क्रोष्टृशब्द एव तृजन्त आदेशो भवति। गुणतो यथा–वाग्घरिः। अत्र हकारः स्थानी घोषनादसंवारमहाप्राणप्रयत्नवान्। तस्य गकारसवर्णो भवंश्चतुर्थो घकारो भवति, तस्य हकारेण स्थानिना घोषनादसंवारमहाप्राणप्रयत्नसाम्यात्। ककारस्तु न भवति, तस्य \उfffदाआसाऽघोषविवाराल्पप्राणप्रयत्नकत्वात्। तथा खकारोऽपि द्वितीयो न भवति, तस्य महाप्राणप्रयत्नसाम्येऽपि \उfffदाआसाऽघोषविवारप्रयत्नभेदात्। तथा तृतीयो।ञपि गकारो न भवति, तस्य घोषनादसंवारप्रयत्नसाम्येऽपि निना हकारेण \उfffदाआसाऽघोषविवारप्रयत्नबेदे सत्यपि महाप्राणप्रयत्नसाम्यसत्त्वात् , तथा तृतीयो वा गकारः कुतो न स्यात्, तस्य स्थानिना हकारेण अल्पप्राणप्रयत्नभेदेऽपि घोषनादसंवारप्रयत्नसाम्यसत्त्वात्। अत एव ङकारो वा कुतो न स्यादिति चेन्न ,तमब्ग्रहणेन उक्तातिप्रसङ्गनिरासात्। अतिशयितो ह्रन्तरोऽन्तरतमः। अतिशयितं च प्रयत्नतः सादृश्यं हकारेण घकारस्यैव, उभयोरपि घोषनादसंवारमहाप्राणात्मकप्रयत्नचतुष्टयसाम्येन सादृश्यातिशयसत्त्वात्। खकारस्य महाप्राणप्रयत्नसाम्येऽपि घोषनादसंवारप्रयत्नविरहात्। गङयोः घोषनादसंवारप्रयत्नसाम्येऽपि महाप्राणप्रयत्नविरहात्। प्रमाणतो यथा– `अदसोऽसोर्दादुदोमः' इति। ह्यस्वस्य उकारो दीर्घस्य ऊकारः। नन्वेवमपि चेता स्तोतेत्यत्र इकारस्य उकारस्य च सार्वाधातुकार्धधातुकयोरिति गुणो भवन् प्रमाणत आन्तर्यवानकारः कुतो न स्यादित्यत आह–यत्रेति। तेन इकारस्य एकार उकारस्य ओकारश्च गुणो भवति, स्थानसाम्यात्, न त्वकारः, स्थानभेदात्। नच इकारेण एकारस्य, उकारेण ओकारस्य कथं स्थानसाम्यम्। एकारस्य ओकारस्य च कण्ठस्थानाधिक्यादिति वाच्यं, यावत्स्थानसाम्यस्य सावण्र्यप्रयोजकत्वेऽपि आन्तरतम्यपरीक्षायां कथञ्चित्स्थानसाम्यस्यैव प्रयोजकत्वात्। अत्र सूत्रे पूर्वसूत्रात्स्थानेग्रहणमनुवर्तते, एकदेशे स्वरितत्वप्रतिज्ञाबलात्। तृतीयान्तं च विपरिणम्यते। अनुवर्त्त्यमानस्चायं `स्थान'शब्दः पूर्वंसूत्रे प्रसङ्गपरोऽप्यत्र ताल्वाद्यन्तयतमस्थानपरः, शब्दाधिकाराश्रयणात्। `अन्तरतम' इत्यपि तेन संबध्यते। ततश्च `स्थानेनाऽन्तरतम' इति वाक्यान्तरं संपद्यते। सति संभवे ताल्वादिस्थानत एवान्तरतमो भवतीत्यर्थः। ततश्च `यत्रानेकविधमान्तर्यं तत्र स्थानत एवान्तर्यं बलीय' इति (सिद्धं) भवति।

तत्त्वबोधिनी

35 स्थाने। सदृशतम इति। अर्थात्प्राप्यमाणानां मध्ये एव। अत एव `गङ्गोदक'मित्यत्र त्रिमात्र ओकारो न। इह `स्थाने' इत्यनुवर्तमाने पुनःस्थाने ग्रहणादन्योऽपि वाक्यार्थः संमतः, `ताल्वादिरूपे स्थाने योऽन्तरतमः, तत्प्रयुक्तान्तर्यवानिति यावत्। स तु प्राप्यमाणानां मध्ये स्या'दिति। स्थानार्थगुणप्रमाणतश्चतुर्विधमित्यर्थः। स्थानतो यथा-दध्यत्र। तालुस्थानस्येकारस्य तालुस्थानो यकारः। अर्थतो यथा-वातण्ड\उfffद्युवतिः। वतण्डशब्दात् `वतण्डाच्चे'ति गोत्रापत्ये यञ्। तस्य `लुक् स्त्रिया'मिति लुक्। शाङ्र्गरवादित्वान्ङीन्। वतण्डी चासौ युवतिश्चेति विग्रहे `पोटायुवती'त्यादिना समासः। `पुंवत्कर्मधारयेत्यतिदिश्यमानःपुंशब्दो वतण्डापत्यवाचिनो वतण्डीशब्दस्य तदपत्यवाचीवातण्ड\उfffद्शब्दो भवति, न तु वतण्डादिः। गुणतो यथा वाग्घरिः। घोषवतो नादवतो महाप्राणस्य तादृश एव घकारः। प्रमाणतो यथा-अमुम् अमू अमून्। `अदसोऽसे'- रित्यनेन ह्यस्वस्य ह्यस्वो दीर्घस्य दीर्घ उकारः। तमब्ग्रहणं किम् ? `वाग्घरि'रित्यत्र `झयो होऽन्यतरस्या'मिति पूर्वसवर्णे क्रियमाणे महाप्राणत्वसाम्येन द्वितीयो, नादवत्त्वसाम्येन तृतीयश्च मा भूत्। किंतु महाप्राणाश्चतुर्थो घ एव यथा स्यादिति। बलीय इति। तेन `चेता' `स्तोते'त्यत्र प्रमाणत आन्तर्यवानकारो नेति भावः।

Satishji's सूत्र-सूचिः

199) स्थानेऽन्तरतमः 1-1-50

वृत्ति: प्रसङ्गे सति सदृशतम आदेशः स्यात्। When a substitute is ordained, the closest substitute is intended.

उदाहरणम् – वृत्रहन् + शस् = वृत्रहन् + अस् 1-3-8 = वृत्रह्न् + अस् 6-4-134 = वृत्रघ्नः 7-3-54, 1-1-50, 8-2-66, 8-3-15.
7-3-54 ordains कुत्वम् for the हकारः। Of the five letters in the क-वर्गः (क्, ख्, ग्, घ्, ङ्), घ् is the closest substitute because it is both voiced (घोषवान्) as well as aspirate (महाप्राण:) just like the हकार:।