Table of Contents

<<7-3-81 —- 7-3-83>>

7-3-82 मिदेर् गुणः

प्रथमावृत्तिः

TBD.

काशिका

मिदेरङ्गस्य इको गुणो भवति शिति प्रत्यये परतः। मेद्यति, मेद्यतः, मेद्यन्ति। शिति इत्येव, मिद्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

185 `मिमिदे' इत्यत्र लिटः `असंयोगा'दिति कित्त्वेऽपि गुणं शङ्कितुमाह– मिदेर्गुणः। `मिदे'रित्यवयवषष्ठी। गुणश्रुत्या `इको गुणवृद्धी' इति परिभाषया इक इत्युपतिष्ठते, `ष्ठिवुक्लमुचमां शिति' इत्यतः शितीत्यनुवर्तते। श् चासाविच्चेति कर्मधारयः। तेन च अधिकृताऽङ्गाक्षिप्तः प्रत्ययो विशेष्यते। तदादिविधिः। इत्संज्ञशकारादौ प्रत्यये परे इति लभ्यते। तदाह–मिदेरित्यादिना। दैवादिकमिदेः श्यनि मेद्यते इत्याद्युदाहरणम्। श् इत् यस्येति बहुव्रीहिमाश्रित्य शिति प्रत्यये परे मिदेरिको गुण इत्येव कुतो न व्याख्यायत इत्याशङ्क्य मिमिदे इत्यत्र गुणाऽभावार्थमित्संज्ञकशाकारादाविति व्याख्येयमित्यभिप्रेत्याह–एश आदिशित्त्वाभावादिति। ञिष्विदेति। षोपदेशोऽयम्। अनिट्सु स्विद्येति श्यन्विकरणस्यैव ग्रहणादयं सेट्। रुच दीप्तावभिप्रीतौ चेति। अभिप्रीतिः- प्रीतिविषयीभवनम्। दीप्तौ उदाहरत–रोचते सूर्य इति। प्रकाशत इत्यर्थः। अभिप्रीतौ उदाहरति– हरये रोचते भक्तिरिति। भक्तिर्हर्याश्रितप्रीतिविषयो भवतीत्यर्थः। `रुच्यर्थाना'मिति संप्रदानत्वाच्चतुर्थी। क्षुभ संचलने इति। क्षोभते। क्षुभ्यतीति दिवादौ। क्षुभ्नातीति क्र्यादौ। णभधातुर्णोपदेश नभते। आद्योऽभावे चेति। चात्संचलनेऽपि। तत्र अभावार्थकस्य प्रयोगं दर्शयति– नभन्तामन्यके समे इति। मन्त्रोऽयम्। नन्वत्र मन्त्रे णभेर्हिंसार्थकत्वमेव कुतो न स्यादित्य आह–मा भूवन्नन्यके सर्वे इति। `नभन्ता'मित्यस्य विवरणं– भा भूवन्निति। न भवन्तीत्यर्थः। `समे'इत्यस्य विवरणं– सर्वे इति। निरुक्तमिति। वेदव्याख्यानात्मको यास्कप्रणीतो ग्रन्थविशेषो निरुक्तम्। रुआंसु ध्वंसु भ्रंसु इति। त्रयो नोपधा इति भावः। नारुआसदिति। `नारुआंस' दित्यपपाठः। नचाऽरुआंसदिति लङो रूपमिति भ्रमितव्यं, तत्र परस्मैपदाऽसंभवात्। रुआम्भुदातुरकारमध्यः। वृतु वर्तने इति। उदित् ऋदुपधः सेट्कः। वर्तते इति। शपि गुणे रपरत्वम्। ववृते इति। `असंयोगा'दिति कित्त्वाद्गुणाऽभावे द्वित्वे उरदत्त्वे रपरत्वे हलादिशेषे रूपम्। लुटि–वर्तिता।

तत्त्वबोधिनी

158 मिदेर्गुणः। `ष्ठिवुक्लमुचमा'मित्यतः शितीत्यनुवर्तते। तत्र शश्चासौ इच्चेति कर्मदारयात्समप्तमी। अङ्गाक्षिप्तप्रत्ययस्तु विशेष्यः। तेन `यस्मिन्विधि'रिति तदादिविधिः प्रवर्तते। तदाह– इत्संज्ञकशकारादाविति। आदिशित्त्वाभावादिति। मेद्यति मेद्यत इत्यादौ तु `दिवादिभ्य' इति श्यन आदिशित्त्वाद्गुणो भवत्येव। मिमिदे इति। `शिती'ति बहुव्रीहौ त्विह स्यादेव गुणः। तथा पपे तस्थे इत्यादौ पिबादयोऽपि स्युरिति भावः। ञिष्विदा। अनिट्कारिकायां स्विद्यतिरिति श्यना निर्देशादयं सेट्। स्वेदिता। स्वेदिष्यते। ञिक्ष्विदा चेति। पूर्वोक्तयोरेवार्थयोरयमिति बोध्यम्। हरये इति। `रुच्यर्थाना'मिति संप्रदानसंज्ञायां चतुर्थी। घुट्।परिवर्तनम्- - इतस्ततो भ्रमणम्। जुघुटे इति। `असंयोगा'दिति कित्त्वाद्गुणाऽभावः। क्षुभ। संचलनं– प्रकृतिविपर्यासो,मन्थनं च। क्षोभते। `क्षुभ्यती'ति दिवादौ। `क्षुभ्नाती'ति क्र्यादौ। नारुआसदिति। `नारुआंस'दित्यपपाठ एव। न चेदं लहो रूपं, तत्र परस्मैपदाऽसंभवादिति भावः।

Satishji's सूत्र-सूचिः

TBD.