Table of Contents

<<1-1-45 —- 1-1-47>>

1-1-46 आद्यन्तौ टकितौ

प्रथमावृत्तिः

TBD.

काशिका

आदिः टित् भवति, अन्तः कित् भवति षस्ठीनिर्दिष्टस्य। लविता। मुण्डो भीषयते। टित्प्रदेशाः आर्धधातुकस्य इड् वलादेः 7-2-35 इत्येवम् आदयः। कित्प्रदेशाः भियो हेतुभये शुक् 7-3-40 इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

84 टित्कितौ यस्योक्तौ तस्य क्रमादाद्यन्तावयवौ स्तः..

बालमनोरमा

38 आद्यन्तौ टकितौ। आदिश्च अन्तश्च आद्यन्तौ, टश्च कच् टकौ। टकारादकार उच्चारणार्थः। टकौ इतौ ययोस्तौ टकितौ। द्वन्द्वान्त इच्छब्दः प्रत्येकं संबध्यते। टित्कितावाद्यन्तावयवौ स्तः। कस्येत्याकाङ्क्षायां यस्य तौ विहितौ तयोरित्यर्थाल्लभ्यते। तदाह–टित्कितावित्यादिना। क्रमादिति यथासङ्ख्य सूत्रलभ्यम्। टित् आद्यवयवः, किदन्तावयव इत्यर्थः। नचैवं सति मिलितयोरेकत्रान्वयाऽभावात्कथमिह द्वन्द्व इति वाच्यम्, प्रथमतः समुदायरूपेण परस्परं युगलयोरन्वयबोधमादाय द्वन्द्वप्रवृत्तौ सत्यां यथासंख्यसूत्रपर्यालोचनया पुनः प्रत्येकान्वयोपपत्तेः। `एचोऽयवायावः' इत्यादावप्येषैव गतिः। लोके त्वेवंजातीयकप्रयोगोऽसाधुरेवेति भाष्यादिषु स्पष्टम्। अत्रैव यथासङ्ख्यसूत्रोमन्यासो युक्तः। `आर्धधातुकस्येड्वलादेः' भविता। `ङ्णोः कुक् टुक् शरि', प्राङ्?क्?षष्ट इत्याद्युदाहरणम्। `पुरस्तादपवादा अनन्तरान्विधीन् बाधन्ते नोत्तरान्' इति `षष्ठी स्थानेयोगे'त्यस्यानन्तरस्यैवायमपवादः। `प्रत्ययः' परश्चेत्यनेन तु परत्वादिदं बाध्यते। तेन चरेष्टः गापोष्टगित्यादयः परा एव भवन्ति।

तत्त्वबोधिनी

32 आद्यन्तौ टकिता। भविता,-`आर्धधातुकस्येट्'। पाययाति- `शाच्छासाह्वे'त्यादिनात्युक्। पुरस्तादपवादन्यायेन स्थानेयोगत्वस्यायमपवादः। `प्रत्ययः' `परश्चेट'त्यनेन तु परत्वादयं बाध्यते। तेन `चरेष्टः' `गापोष्टा' गित्यादयः परा एव भवन्ति।

Satishji's सूत्र-सूचिः

28) आद्यन्तौ टकितौ 1-1-46

वृत्ति: आदिष्टित् भवति अन्तः कित् भवति षष्ठीनिर्दिष्टस्य । An augment which is marked with the letter “ट्” as a इत् attaches to the beginning of the term in the genitive case. On the other hand, an augment which is marked with the letter “क्” as a इत् attaches to the end of the term in the genitive case.

गीतासु उदाहरणम् – श्लोकः bg5-7

कुर्वन् + अपि = कुर्वन् + न् + अपि