Table of Contents

<<3-2-110 —- 3-2-112>>

3-2-111 अनद्यतने लङ्

प्रथमावृत्तिः

TBD.

काशिका

भूते इत्येव। अनद्यतने इति बहुव्रीहिनिर्देशः। अविद्यमानाद्यतने भूते ऽर्थे वर्तमानाद् धातोर् लङ् प्रत्ययो भवति। अकरोत्। अहरत्। बहुव्रीहिनिर्देशः किम् अर्थः? अद्य ह्यो वा अभुक्ष्महि इति व्यामिश्रे मा भूत्। परोक्षे च लोकविज्ञाते प्रयोक्तुर् दर्शनविषये लङ् वक्तव्यः। अरुणद्यवनः साकेतम्। अरुणद् यवनो माद्यमिकानिति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

424 अनद्यतन भूतार्थ वृत्तेर् धातोर् लङ् स्यात्..

बालमनोरमा

54 अनद्यतने लङ्। धातोरिति, भूत इति चाधिकृतम्। भूत इति धात्वर्थेऽन्वेति। तदाह– अनद्यतनभूतार्थवृत्तेरिति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

309) अनद्यतने लङ् 3-2-111

वृत्तिः अनद्यतन-भूतार्थ-वृत्तेर्धातोर्लङ् स्‍यात् । The affix लँङ् is prescribed after a धातुः when used in the sense of past not of today.