TBD.
पूर्वेण प्राप्तायमित्संज्ञायां विभाक्तौ वर्तमानानां तवर्गसकारमकाराणां प्रतिषेध उच्यते। तवर्गः, टाङसिङसाम् इनाऽत्स्याः 7-1-12 वृक्षात्, प्लक्षात्। सकारः, जस् ब्राह्मणाः। तस् पचतः। थस् पचथः। मकारः उपचत्ताम्, अपचतम्। बिभक्तौ इति किम्? अचो यत् 3-1-97, ऊर्णाया युस् 5-2-123, रुधादिभ्यः श्नम् 3-1-78। किमो ऽत् 5-3-12, इटो ऽत् 3-4-106 इत्यत्र प्रतिषेधो न भवति , अनित्यत्वाऽदस्य प्रतिषेधस्य। इदमस् थमुः 5-3-24 इत्युकारानुबन्धनिर्देशादनित्यत्वम् उपलक्ष्यते।
TBD.
131 विभक्तिस्थास्तवर्गसमा नेतः. इति सस्य नेत्त्वम्. रामाः..
189 अथ जसः सकारस्य `हलन्त्यम्'मितीत्संज्ञायां लोपमाशङ्क्याह–न विभक्तौ। तु स् म एतेषां द्वन्द्वः। `इत' इत्यनुवृत्तं बहुवचनान्ततया विपरिणम्यते। तदाह– विभक्तिस्था इत्यादिना।
158 न विभक्तौ। `हलन्त्य'मितीत्संज्ञाप्राप्तौ निषेधारम्भः। `तु' इत्यस्योदाहरणं रामात्, पचेरन्। मकारस्य तु–रामम्, अद्राक्षम्। विभक्तौ किम् ?। `अचो यत्' ऊर्णायां युस्', `रुधादिभ्यः श्नम्'। एतेष्वन्त्यस्येत्संज्ञा यथा स्यात्। `इदमस्थमु'रित्यत्र मकारपरित्राणार्थमुकारानुबन्धासञ्जनादनित्योऽयमिति ज्ञायते। अन्यथा `प्राग्दिशो विभक्ति'-रिति थमो विभक्तित्वाद्दानीमो मकारस्येवानेनैव सूत्रेणेत्त्वनिषेधसिद्धेः किं तेनेति। तेन `किमोऽत्' क्वेति सिद्धम्।
50) न विभक्तौ तुस्मा: 1-3-4
वृत्ति: विभक्तिस्थास्तवर्गसकारमकारा नेत: । Any letter of the त-class (त्, थ्, द्, ध्, न्) or the letter स् or म् which is in a विभक्ति: does not get the designation इत्।
गीतासु उदाहरणम् – श्लोकः bg1-1
पाण्डव + जस् The ending letter स् of the affix जस् is not an इत्. This is an exception to rule 1-3-3.