Table of Contents

<<3-4-108 —- 3-4-110>>

3-4-109 सिजभ्यस्तविदिभ्यश् च

प्रथमावृत्तिः

TBD.

काशिका

अलिङर्थः आरम्भः। सिचः परस्य, अभ्यस्तसंज्ञकेभ्यो, वेत्तेश्च उत्तरस्य झेर् जुस्, आदेशो भवति। अभ्यस्तविदिग्रहणम् असिजर्थम्। ङित इति च अनुवर्तते। सिचस्तावत् अकार्षुः। अहार्षुः। अभस्तात् अबिभयुः। अजिह्रयुः। अजागरुः। विदेः अविदुः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

449 सिचोऽभ्यस्ताद्विदेश्च परस्य ङित्संबन्धिनो झेर्जुस्. आतिषुः. आतीः. आतिष्टम्. आतिष्ट. आतिषम्. आतिष्व. आतिष्म. आतिष्यत्.. षिध गत्याम्.. 3..

बालमनोरमा

74 सिजभ्यस्तविदि। `झेर्ज'सिति सूत्रमनुवर्तते। `नित्यं ङित' इत्यतो ङित इति च। तदाह–सिचोऽभ्यस्तादित्यादिना। इति प्राप्त इति। `लिङो झेर्जुसी'ति शेषः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

380) सिजभ्यस्तविदिभ्यश्च 3-4-109

वृत्तिः सिचोऽभ्यस्ताद् विदेश्च परस्य ङित्सम्बन्धिनो झेर्जुस् । There is a substitution of “जुस्” in place of the “झि”-प्रत्यय: that has come in place of a ङित्-लकार: (a लकार: which has ङकार: as an इत्) in the following three cases:
i. The “झि”-प्रत्यय: follows the “सिँच्”-प्रत्यय:
ii. The “झि”-प्रत्यय: follows a term that has the अभ्यस्त-सञ्ज्ञा
iii. The “झि”-प्रत्यय: follows √विद् (विदँ ज्ञाने, धातु-पाठः #२. ५९)

उदाहरणम् – अविदु: (√विद्, अदादि-गणः, विदँ ज्ञाने, धातु-पाठः #२. ५९) लँङ्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।

विद् + लँङ् 3-2-111 = विद् + ल् 1-3-2, 1-3-3
= विद् + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108, झि gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= विद् + जुस् 3-4-109 = विद् + उस् 1-3-7, 1-3-4
= विद् + शप् + उस् 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= विद् + उस् 2-4-72 (Note: Since the सार्वधातुक-प्रत्यय: “उस्” is अपित्, by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। Therefore 1-1-5 stops the गुणादेशः on the इकार: of “विद्” which would have been done by 7-3-86.)
= अट् विदुस् 6-4-71, 1-1-46 = अविदुस् 1-3-3
= अविदु: 8-2-66, 8-3-15